| YouTube Channel

हरिवंशः (harivaMzaH)

 
Wordnet
Sanskrit
Synonyms:
हरिवंशः
noun
एकः पुरुषः
"हरिवंशस्य उल्लेखः सदुक्ति-कर्णामृते अस्ति"
शब्दकल्पद्रुमः
Sanskrit
हरिवंशः,
पुं,
(हरेर्वंशः ।) श्रीकृष्णस्य सन्तानः ।यथा, --“हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत्
रुक्मिणीसत्यभामाद्या अष्टौ पत्न्यो हरेः पुरा ।षोडशस्त्रीसहस्राणि अन्योन्यासन् महात्मनः
तासां पुत्त्राश्च पौत्त्राद्याः शतशोऽथ सहस्रशः ।रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीत् सम्बरञ्च यः
तस्य पुत्त्रोऽनिरुद्धोऽभूत् उषाबाणसुतापतिः ।अनिरुद्धादभूद्वज्रः राजा गते हरौ ।सान्दीपनिं गुरुं चक्रे सपुत्त्रं यादवाधिपः
”इति गारुडे १४८
--
११
विस्तारस्तु महाभारतीयहरिवंशपर्व्वणि द्रष्टव्यः