हरिनाम (harinAma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritहरिनाम, [न्] (हरेर्नाम ।) श्रीहरे-राख्यानम् । तन्माहात्म्यं यथा, --“न कालनियमस्तत्र न देशनियमस्तथा ।नोच्छिष्टादी निषेधोऽस्ति हरेर्नामनि लुब्धक ॥
ज्ञानं देवार्च्चनं ध्यानं धारणा नियमो यमः ।प्रत्याहारः समाधिश्च हरिनामसमं न च ॥
”इति पाद्मोत्तरखण्डे ९८ अध्यायः ॥
अपि च ।“हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ।कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥
”इति श्रीहरिभक्तिविलासस्य ११ विलासे बृह-न्नारदीयपुराणवचनम् ॥
* ॥
वैष्णवानां जप्य-हरिनामानि यथा, --“हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।हरे राम हरे राम राम राम हरे हरे ॥
”अस्य प्रमाणादि यथा, --त्रिपुरोवाच ।“वासुदेव महाबाहो ! शृणुष्व परमं वचः ।त्वं हि देव सुरश्रेष्ठः किमर्थं तप्यते तपः ॥
कुलाचारं विना पुत्त्र ! नहि सिद्धिः प्रजायते ।शक्तिहीनस्य ते सिद्धिः कथं भवति रे सुत ! ॥
ममांशसम्भवां लक्ष्मीं त्यक्त्वा किं तप्यते तपः ।वृथा श्रमं वृथा पूजां जपञ्च विफलं सुत ! ॥
संयोगं कुरु यत्नेन शक्त्या सह तपोधन ! ।सुखं विना सुतश्रेष्ठ ! विद्यासिद्धिर्न्न जायते ॥
साधके क्षोभमापन्ने देवता क्षोभमाप्नुयात् ।तस्माद्भोगयुतो भूत्वा जपकर्म्म समारभेत् ॥
भोगं विना सुतश्रेष्ठ ! नहि भोक्षः प्रजायते ।शृणु पुत्त्र सुतश्रेष्ठ दीक्षाया आनुपूर्व्विकीम् ॥
दशवर्षे तु संप्राप्ते द्वादशाभ्यन्तरे सुत ! ।शृणुयाद्धरिनामानि षोडशानि पृथक् पृथक् ।हरिनाम विना पुत्त्र ! कर्णशुद्धिर्न्न जायते ॥
श्रीवासुदेव उवाच ।शृणु मातर्म्महामाये विश्वबीजस्वरूपिणि ! ।हरिनाम महामाये क्रमात्तव मतं वद ॥
* ॥
त्रिपुरोवाच ।हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।हरे राम हरे राम राम राम हरे हरे ॥
द्वात्रिंशदक्षराण्येवं कलानाममृतं सदा ।शृणु च्छन्दः सुतश्रेष्ठ ! हरिनाम्नस्तु चैव हि ॥
छन्दो हि परमं गुह्यं महत् पदमनव्ययम् ।सर्व्वशक्तिमयं तन्त्रं हरिनाम तपोधन ! ॥
” * ॥
अस्य श्रीहरिनाममन्त्रस्य वासुदेव ऋषिर्गायत्त्रीच्छन्दः श्रीत्रिपुरा देवता मम महाविद्या-सिद्ध्यर्थे विनियोगः ॥
* ॥
“एतन्मन्त्रं सुतश्रेष्ठ ! प्रथमं शृणुयान्नरः ।श्रुत्वा द्विजमुखात् पुत्त्र दक्षकर्णे तपोधन ! ॥
आदौ छन्दस्ततो मन्त्रं श्रुत्वा शुद्धो भवेन्नरः ।द्वादशाभ्यन्तरे श्रुत्वा कर्णशुद्धिमवाप्नुयात् ॥
कर्णशुद्धिं विना पुत्त्र महाविद्यामुपालभेत् ।नारी वा पुरुषो वापि तत्क्षणान्नारकी भवेत् ॥
ततस्तु षोडशे वर्षे संप्राप्ते सुरवन्दित ! ।महाविद्यां ततः शुद्धां नित्यां ब्रह्मस्वरूपिणीम् ।श्रुत्वा कुलमुखाद्विप्रात् साक्षात् ब्रह्ममयो भवेत् ।कुर्य्यादेतद्रहस्यं यः शिवोक्तञ्च तपोधन ! ।तस्य सिद्धिर्भवेद्विद्या अष्टैश्वर्य्यमवाप्नुयात् ॥
रहस्यं हि विना पुत्त्र ! श्रम एव हि केवलम् ।अतएव सुतश्रेष्ठ ! रहस्यरहितस्तव ।रहस्यरहितां विद्यां न जपेत्तु कदाचन ॥
* ॥
हकारस्तु सुतश्रेष्ठ ! शिवः साक्षान्न संशयः ।रेफस्तु चिपुरादेवी मम मूर्त्तिमयी सदा ॥
एकारञ्च भगं विद्यात् साक्षाद्योनिं तपो-धन ! ।एकारः शून्यरूपी च रेफो विग्रहधारिणः ।हरे तु त्रिपुरा साक्षान्मम मूर्त्तिर्न्न संशयः ॥
ककारः कामदा कामरूपिणी स्फुरदव्ययम् ।ऋकारश्च सुतश्रेष्ठ ! ज्येष्ठा शक्तिरितोरिता ॥
ककारश्च ऋकारश्च कामिनी वैष्णवी कला ॥
षकारश्चन्द्रमा देवः कलाषोडशसंयुतः ॥
णकारश्च सुतवर ! साक्षान्निर्वृत्तिरूपिणी ।द्वयोरैक्यं तपःश्रेष्ठ ! महामाया जगन्मयी ॥
कृष्ण कृष्ण सुतश्रेष्ठ ! महामाया जगन्मयी ।हरे हरे ततो देवि ! शिवशक्तिस्वरूपिणी ॥
हरे रामेति च पदं शिवशक्तिमयं सुत ! ।हरे हरे इति पदं शक्तिद्वयसमन्वितम् ॥
आद्यन्ते प्रणवं दत्त्वा यो जपेद्दशधा द्विजः ।स भवेत् सुतवर ! श्रेष्ठो महाविद्यासु सुन्दरः ॥
हरिनाम सुतश्रेष्ठ ! ज्येष्ठं तु वैष्णवं मतम् ॥
एवं षोडश नामानि द्वात्रिंशदक्षराणि च ।आद्यन्ते प्रणवं दत्त्वा चतुस्त्रिं शदनुत्तम ! ॥
हरिनाम विना पुत्त्र ! दीक्षा च विफला सदा ।कुलदेवमुखाच्छ्रुत्वा हरिनाम पराक्षरम् ॥
ब्राह्मणक्षत्त्रवैश्याश्च शूद्रः श्रुत्वा पराक्षरम् ।दीक्षां कुर्य्यात् सुतश्रेष्ठ ! महाविद्यासु सुन्दर ! ॥
दीक्षां वापि हरेर्न्नाम यदि शूद्रमुखात् प्रिये ! ।अज्ञानाद्यदि गृह्णीयात् तस्य पापफलं शृणु ॥
शूद्रः शूद्रमुखात् श्रुत्वा विद्यां वा मन्त्रमुत्तमम् ।कोटिवंशान् समादाय रौरवं प्रति गच्छति ।अपि दातृगृहीत्रोर्वा द्वयोरपि समं फलम् ॥
ब्रह्महत्यामवाप्नोति अक्षरं अक्षरं प्रति ।शृणु पुत्त्र ! वासुदेवप्रसङ्गाद्वचनं मम ॥
”इति श्रीवासुदेवमाहात्म्ये राधातन्त्रे त्रिपुरा-वासुदेवसंवादे द्वितीयपटलः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
