| YouTube Channel

हरिद्रारागः (haridrArAgaH)

 
शब्दकल्पद्रुमः
Sanskrit
हरिद्रारागः, त्रि, (हरिद्राया राग इव रागोयस्य अचिरस्थायित्वादेवास्य तथात्वम् ।)अस्थिरसौहृदः इति हेमचन्द्रः
तत्पर्य्यायः ।क्षणमात्रानुरागी हरिद्राराग इव रागो-ऽस्येति हरिद्रारागः हरिद्रारागस्याचिर-स्थायित्वात् तथेति यावत् यथा, --“क्षणमात्रानुरागी हरिद्राराग उच्यते
”इति हलायुधः