| YouTube Channel

हरितालं (haritAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
हरितालं,
क्ली,
(हरितं तद्वर्णं आलातीति ।आ + ला + कः ।) पीतवर्णधातुविशेषः तुहरेर्व्वीर्य्यम् यथा, --“हरितालं हरेर्व्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला ।पारदं शिववीर्य्यं स्यात् गन्धकं पार्व्वतीरजः
”इति वैद्यकम्
तत्पर्य्यायः पिञ्जरम् पीतकम् तालम् ४आलम् हरितालकम् इत्यमरः १०३
गोदन्तम् पीतलम् नटमण्डनम् हरि-बीजम् १० सिद्धधातुः ११ इति जटाधरः
वर्णकम् १२ नटभूषणम् १३ इति रत्नमाला
पीतम् १४ गोरोचम् १५ चित्राङ्गम् १५ पिञ्ज-रकम् १७ वैदलम् १८ तालकम् १९ कनक-रसः २० काञ्चनकम् २१ विडालकम् २२ चित्र-गन्धम् २३ पिङ्गम् २४ पिङ्गसारम् २५ नौरी-ललितम् २६ अस्य गुणाः कटुत्वम् उष्ण-त्वम् स्निग्धत्वम् त्वग्दोषभूतभीतिविषयवात-रुजानाशित्वञ्च इति राजनिर्घण्टः
*
अपि ।“हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम्
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ।पत्राख्यं तालकं विद्यात् गुणाढ्यं तद्रसायनम्
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ।स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम्
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।कण्डुकुष्ठास्य रोगास्रकफपित्तकचव्रणान्
हरति हरितालं चारुतां देहजातांसृजति बहुतापानङ्गसङ्कोचपीडाः ।वितरति कफवातौ कुष्ठरोगं विदध्या-दिदमसितमशुद्धं मारितं चाप्यसम्यक्
”इति भावप्रकाशः
*
अथ तालस्याशुद्धस्य दोषमाह ।“अशुद्धं तालमायुर्हृत् कफमारुतमेहकृत् ।तापस्फोटाङ्गसंकोचान् कुरुते तेन शोधयेत्
”अथ तालकस्य शोधनविधिः ।“तातकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत् ।दोलायन्त्रेण यामैकं ततः कुष्माण्डजे द्रवे
तिलतैले पचेद्यामं यामञ्च त्रिफलारसे ।दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम्
*
अथ तालकस्य मारणविधिः ।“सदलं तालकं शुद्धं पौनर्नवरसेन तु ।खल्ले विमर्द्दयेदेकं दिनं पश्चाद्विशोधयेत्
संशोध्य गोलकं तस्य कुर्य्यात्तच्च विशोधयेत् ।ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत्
तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् ।आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे
स्थालीं चूल्यां समारोप्य क्रमाद्वह्निं विवर्द्धयेत् ।दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदीपयेत्
एवं तन्म्रियते तालं मात्रा तस्यैकरत्तिका ।अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत्
”एवं शोधितस्य मारितस्य तालकस्य गुणाः ।“हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।कण्डुकुष्ठास्यरागास्रकफपित्तकचव्रणान्
”अन्यच्च ।“तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् ।शोधितं कुरुते कान्तिं वीर्य्यवृद्धिं तथायुषः
”इति भावप्रकाशः