हरिताल (haritAla)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishहरिताल [haritāla], See under हरि.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishहरिताल, अस्, m. a kind of pigeon of a yellowish
green colour
(ई), f. Dūrvā grass
a streak or line
in the sky (= आकाश-रेखा)
a sort of creeper (=
खड्ग-पत्त्र)
a kind of tree (according to Sāy.)
the fourth day of the light half of the month Bhādra
(अम्), n. yellow orpiment or sulphuret of arsenic
(described as the seed or seminal energy of Viṣṇu,
= हरेर् वीर्यम्).
—हरिताल-जनक, अस्, m. orpi-
ment-producer (a word employed in modern Sanskrit
to express the metal arsenic).
Benfey
EnglishApte Hindi
Hindiहरितालः
हरि-तालः -
(कुछ विद्वान् इसे ‘हरित’ से व्पुत्पन्न मानते हैं) पीले रंग का कबूतर
हरितालम्
हरि-तालम् -
हरताल
L R Vaidya
EnglishSanskrit Tibetan
Tibetansa 'og prhang ba
हरिताल
ba bla
हरिताल
अभिधानचिन्तामणिः
Sanskritगन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥
सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् ।
विडालकं विस्रगन्धि खर्जूरं वंशपत्त्रकम् ॥ १०५८ ॥
आलपीतनतालानि गोदन्तं नटमण्डनम् ।
वङ्गारिर्लोमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ ॥
करवीरा नागमाता रोचनी रसनेत्रिका ।
नैपाली कुनटी गोला मनोह्वा नागजिह्विका ॥ १०६० ॥
गन्धाश्मन् (पुं), शुल्वारि (पुं), पामारि (पुं), कुष्ठारि (पुं), गन्धिक (पुं), गन्धक (पुं), सौगन्धिक (पुं), शुकपुच्छ (पुं), हरिताल (क्ली), पिञ्जर (क्ली), विडालक (क्ली), विस्रगन्धि (क्ली), खर्जूर (क्ली), वंशपत्रक (क्ली), आल (क्ली), पीतन (क्ली), ताल (क्ली), गोदन्त (क्ली), नटमण्डन (क्ली), वङ्गारि (पुं), लोमहृत् (क्ली), मनोगुप्ता (स्त्री), मनःशिला (स्त्री), करवीरा (स्त्री), नागमाता (स्त्री), रोचनी (स्त्री), रसनेत्रिका (स्त्री), नेपाली (स्त्री), कुनटी (स्त्री), गोला (स्त्री), मनोह्वा (स्त्री), नागजिह्विका (स्त्री)
वैजयन्तीकोषः
SanskritWord: हरितालम्
Root: हरिताल
Gender: नपुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Yellow orpiment
sulphuret of arsenic
Shloka(s):
3|2|13|2 ► हरितालं तु खर्जूरं पिञ्जरं नटभूषणम्॥ (भूमिकाण्डः/शैलाध्यायः)
3|2|14|1 ► तालमालं वंशपत्रं पीतनं रोमहृद्वरम्। (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
➠ 3|2|13|2 ⇢ हरितालम् (हरिताल) (नपुं) ⇒ Yellow orpiment
sulphuret of arsenic ⇒
➠ 3|2|13|2 ⇢ खर्जूरम् (खर्जूर) (नपुं) ⇒ Sulpuret of arsenic ⇒ हरितालम्
➠ 3|2|13|2 ⇢ पिञ्जरम् (पिञ्जर) (नपुं) ⇒ Sulphuret of arsenic ⇒ हरितालम्
➠ 3|2|13|2 ⇢ नटभूषणम् (नटभूषण) (नपुं) ⇒ Sulpuret of arsenic ⇒ हरितालम्
➠ 3|2|14|1 ⇢ तालम् (ताल) (नपुं) ⇒ Sulphate of arsenic ⇒
➠ 3|2|14|1 ⇢ आलम् (आल) (नपुं) ⇒ Sulphuret of arsenic ⇒
➠ 3|2|14|1 ⇢ वंशपत्रम् (वंशपत्र) (नपुं) ⇒ Sulphuret of arsenic ⇒
➠ 3|2|14|1 ⇢ पीतनम् (पीतन) (नपुं) ⇒ Sulphuret of arsenic ⇒
➠ 3|2|14|1 ⇢ रोमहृत् (रोमहृत्) (नपुं) ⇒ Sulphuret of arsenic ⇒
➠ 3|2|14|1 ⇢ वरम् (वर) (नपुं) ⇒ Sulphuret of arsenic ⇒
Related word(s):
पुराणम्
Englishहरिताल ं / HARITĀLA (Ṁ) A mineral (yellow orpiment) got from mountains, which is red like the clouds at dusk. (Vana Parva, Chapter 158, 94).
शब्दकल्पद्रुमः
Sanskritहरितालं, (हरितं तद्वर्णं आलातीति ।आ + ला + कः ।) पीतवर्णधातुविशेषः । स तुहरेर्व्वीर्य्यम् । यथा, --“हरितालं हरेर्व्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला ।पारदं शिववीर्य्यं स्यात् गन्धकं पार्व्वतीरजः ॥
”इति वैद्यकम् ॥
तत्पर्य्यायः । पिञ्जरम् २ पीतकम् ३ तालम् ४आलम् ५ हरितालकम् ६ । इत्यमरः । २ । ९ । १०३ ॥
गोदन्तम् ७ पीतलम् ८ नटमण्डनम् ९ हरि-बीजम् १० सिद्धधातुः ११ । इति जटाधरः ॥
वर्णकम् १२ नटभूषणम् १३ । इति रत्नमाला ॥
पीतम् १४ गोरोचम् १५ चित्राङ्गम् १५ पिञ्ज-रकम् १७ वैदलम् १८ तालकम् १९ कनक-रसः २० काञ्चनकम् २१ विडालकम् २२ चित्र-गन्धम् २३ पिङ्गम् २४ पिङ्गसारम् २५ नौरी-ललितम् २६ । अस्य गुणाः । कटुत्वम् । उष्ण-त्वम् । स्निग्धत्वम् । त्वग्दोषभूतभीतिविषयवात-रुजानाशित्वञ्च । इति राजनिर्घण्टः ॥
* ॥
अपि च ।“हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ।तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् ॥
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ।पत्राख्यं तालकं विद्यात् गुणाढ्यं तद्रसायनम् ॥
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ।स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम् ॥
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।कण्डुकुष्ठास्य रोगास्रकफपित्तकचव्रणान् ॥
हरति च हरितालं चारुतां देहजातांसृजति च बहुतापानङ्गसङ्कोचपीडाः ।वितरति कफवातौ कुष्ठरोगं विदध्या-दिदमसितमशुद्धं मारितं चाप्यसम्यक् ॥
”इति भावप्रकाशः ॥
* ॥
अथ तालस्याशुद्धस्य दोषमाह ।“अशुद्धं तालमायुर्हृत् कफमारुतमेहकृत् ।तापस्फोटाङ्गसंकोचान् कुरुते तेन शोधयेत् ॥
”अथ तालकस्य शोधनविधिः ।“तातकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत् ।दोलायन्त्रेण यामैकं ततः कुष्माण्डजे द्रवे ॥
तिलतैले पचेद्यामं यामञ्च त्रिफलारसे ।दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥
” * ॥
अथ तालकस्य मारणविधिः ।“सदलं तालकं शुद्धं पौनर्नवरसेन तु ।खल्ले विमर्द्दयेदेकं दिनं पश्चाद्विशोधयेत् ॥
संशोध्य गोलकं तस्य कुर्य्यात्तच्च विशोधयेत् ।ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत् ॥
तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् ।आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ॥
स्थालीं चूल्यां समारोप्य क्रमाद्वह्निं विवर्द्धयेत् ।दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदीपयेत् ॥
एवं तन्म्रियते तालं मात्रा तस्यैकरत्तिका ।अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥
”एवं शोधितस्य मारितस्य तालकस्य गुणाः ।“हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् ।कण्डुकुष्ठास्यरागास्रकफपित्तकचव्रणान् ॥
”अन्यच्च ।“तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् ।शोधितं कुरुते कान्तिं वीर्य्यवृद्धिं तथायुषः ॥
”इति च भावप्रकाशः ॥
वाचस्पत्यम्
Sanskritहरिताल हरिवर्णस्य पीतवर्णस्य तालः प्रतिष्ठा यत्र ।१ पीतवर्णे उपधातुभेदे “स हरितालसमाननवांशुकः”माघः । २ पीतवर्णपक्षिभेदे पुंस्त्री० राजनि० ।स्त्रियां ङीष् । स्वार्थे क । हरिताले अमरः ।“हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् । तयो-राद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् । स्वर्णवर्णंगुरु स्निग्धं सपत्रं आभ्रपत्रवत् । पत्राख्यं तालकं विद्याद्गुणाद्यं तद्रसायनम । निष्पवं पिण्डसदृशं स्वल्पसत्वंतथा गुरु । स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम् ।हपति च हरितालञ्चारुता देहजाताम् सृजति चबहुतापामङ्गसङ्कोचपीडाम् । वितरति कफवातौकुष्ठरोगं विदध्यादिदमशितमशुद्धम् मारितञ्चाप्यसम्यक्” ।“तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत् । दोला-यन्त्रेण यामैकं ततः कूष्माण्डजद्रवैः । तिलतैले पचेद्याम यामञ्च त्रिफलाजले । एवं यन्त्रे चतुर्य्यामं पक्वशुद्ध्यति तालकम्” । अथ तालस्य मारणविधिः “सदलंतालकं शुद्धं पौनर्नवरसेन तु । खल्वे विमर्दयेदेकं दिनंपश्चाद्विशाषयेत् । ततः पुनर्नवाक्षारैः स्थाल्यामूर्द्धं प्रपू-रयेत् । तत्र तद्वोलकं धृत्वा पुनस्तेमैव पूरयेत् । आकण्ठंपिठरं तस्य पिधानं धारयेन्मुखे । स्थालीं चुल्यां समारोप्य कमाद्वह्नि विवर्द्धयेत् । दिनान्यन्तरशून्यानिपञ्च वह्निं प्रदापयेत् । एवं तन्म्रियते तालं मात्रातस्यैकरक्तिका । अनुपानान्यनेकानि यथायोग्यं प्रयो-जयेत्” । एवं शोधितस्य मारितस्य तालकस्य गुणाः ।“हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । कण्डूकुष्ठास्यरोगाम्रकफपित्तकचव्रणान्” । “तालकं हरतेरोगान् कुष्ठमृत्युज्वरापहम् । शोधितं कुरुते कान्तिंवीर्य्यवृर्द्धिं तथायुषम्” भावप्र० ।हरितालखगमांसगुणाः “हरितालोऽल्पविट्कः स्यात्कषायो मधुरो लघुः । रक्तपित्तपशमनस्तृषाघ्नो वात-कोपनः” राजनि० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
