| YouTube Channel

हरितकी (haritakI)

 
Monier Williams Cologne
English
हरितकी (ई),
f.
Terminalia Chebula,
Divyāv.
Wordnet
Sanskrit
Synonyms:
शिवा, हरितकी, अभया, अव्यथा, पथ्या, वयःस्था, पूतना, अमृता, हैमवती, चेतकी, श्रेयसी, सुधा, कायस्था, कन्या, रसायनफला, विजया, जया, चेतनकी, रोहिणी, प्रपथ्या, जीवप्रिया, जीवनिका, भिष्गवरा, भिषक्प्रिया, जीवन्ति, प्राणदा, जीव्या, देवी, दिव्या
noun
हरितकीवृक्षस्य फलं यद् हरितपीतवर्णीयम् अस्ति।
"शुष्ककासे शिवा अतीव उपयुक्ता अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
हरितकी,
स्त्री,
(हरि पीतवर्णं फलमिता प्राप्ताइति हरीता ततः संज्ञायां कन् गौरादि-त्त्वात् ङीष् ।) स्वनामख्यातवृक्षः हरडा इतिहिन्दी भाषा तत्पर्य्यायः अभया अव्यथा ३पथ्या वयःस्था पूतना अमृता हैम-वती चेतकी श्रेयसी १० शिवा ११ ।इत्यमरः ५९
सुधा १२ कायस्था १३कन्या १४ रसायनफला १५ इति शब्दरत्ना-वली
विजया १६ इति जटाधरः
जया१७ चेतनकी १८ रोहिणी १९ प्रपथ्या २०जीवप्रिया २१ जीवनिका २२ भिषग्वरा २३पुस्तकान्तरे भिषक्प्रिया इति पाठः जीवन्ती२४ प्राणदा २५ जीव्या २६ देवी २७ दिव्या२८ अस्या गुणाः ।“हरीतकी पञ्चरसा रेचनीकोष्ठामयघ्नी लवणेन वर्ज्जिता ।रसायनी नेत्ररुजापहारिणीत्वगामयघ्नी किल योगवाहिनी
”अन्यच्च ।“वीजास्थितिक्तं मधुरा तदन्त-स्त्वग्भागतः सा कटुरुष्णवीर्य्या ।मांसांशतश्चाम्लकषाययुक्ताहरीतको पञ्चरसा स्मृतेयम्
पथ्यामज्जा तु चक्षुष्यो वातपित्तहरो गुरुः
”तस्या भेदा यथा, --“हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता ।तस्यां नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमात्
विजया रोहिणी चेव पूतना चामृताभया ।जीवन्ती चेतकी चेति नाम्ना सप्तविधा स्मृता
अलावुवृत्ता विजया मुवृत्ता रोहिणी मता ।स्वल्पत्वक् पूतना क्षेया स्थूलमांसामृता स्मृता
पञ्चासा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ।त्र्यस्रा तु चेतक्री विद्यादित्यासां रूपलक्षणम्
बिन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकीपूतनासिन्धौ स्यादथ रोहिणी तु विजया जाताप्रतिस्थानके ।चम्पायाममृताभया जनिता देशेसुराष्ट्राह्वयेजीवन्तीति हरीतकी निगदिता सा सप्तभेदाबुधैः
*
सर्व्वप्रयोगे विजयाथ रोहिणीक्षतेषु लेपेषु पूतनोदिता ।विरेचने स्यादमृता गुणाधिकाजीवन्तिका स्यादिह जीर्णरोगजित्
स्याच्चेतकी सर्व्वरूजापहारिकानेत्रामयघ्नीमभयां वदन्ति ताम् ।इत्थं यथारोगमियं प्रयोजिताज्ञेया गुणाढ्या कदाचिदन्यथा
चेतकी धृता हस्ते यावत्तिष्ठति देहिनः ।तावद्धिरिच्यते वेगात्तत्प्रभावान्न संशयः
सप्तानामपि जातीनां प्रधानं विजया स्मृता ।सुखप्रयोगसुलभा सर्व्वव्याधिषु शस्यते
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवतीभिषग्वरैः ।यस्या यस्या भूयो निमञ्जनं सा गुणाल्पास्यात्
हरते प्रसभं व्याधीन् भूयस्तकति यद्वपुः ।हरीतकी तु सा प्रोक्ता तकतिर्दीप्तवाचिका
हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे ।शोषे नवज्वरे क्षीणे गुर्विण्यां नैव शस्यते ।”इति राजनिर्घण्टः
*
अपि ।“दक्षं पजापतिं स्वस्थं अश्विनौ वाक्यमूचतुः ।कुतो हरीतकी जाता तस्यास्तु कति जातयः
रसाः कति समाख्याताः कति चोपरसाः स्मृताः ।नामानि कति चोक्तानि कञ्च तासाञ्च लक्षणम्
के वर्णा गुणाः के का कुत्र प्रयुज्यते ।केन द्रव्येण संयुक्ता कांश्च रोगान् व्यपोहति
पृच्छाम्येतद्यथा पृष्टं भगवन् ! वक्तुमर्हसि ।अश्विनोर्व्वचनं श्रुत्वा दक्षो वचनमब्रवीत्
पपात बिन्दूर्म्मेदिन्यां शक्रस्य पिबतोऽमृतम् ।ततो दिव्यात् समुत्पन्ना सप्तजातिर्हरीतकी
हरीतक्यभया पथ्या कायस्था पूतनामृता ।हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ।वयस्था विजया चापि जीवन्ती रोहिणीति ।विजया रोहिणी चैव पूतना चामृताभया ।जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः
*
अलावुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता
पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः
*
विजया सर्व्वरोगेषु रोहिणी व्रणरोहिणी ।प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता
अक्षिरोगेऽभया शस्ता जीवन्ती सर्व्वरोग-हृत्
चूर्णार्थं चेतकी शस्ता यथा युक्तं प्रयोजयेत्
*
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा वर्णतः ।षडङ्गुलायता शुक्ला कृष्णा चैकाङ्गुलायता
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ।काचित् स्पर्शेन दृष्टान्या चतुर्द्धा भेदयेच्छिवा ।चेतकीपादपच्छायामुपसर्पन्ति ये नराः ।भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ।तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः
नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् ।चेतकी परमा शस्ता हिता सुखविरेचनी
सप्तानामपि जातीनां प्रधाना विजया स्मृता ।सुखप्रयोगा सुलभा सर्व्वरोगेषु शस्यते
हरीतकी पञ्चरसालवणा तुवरा परम् ।रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ।चक्षुष्या लघुरायुष्या बृंहणीचानुलोमिनी ।श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन्
वैस्वर्य्यग्रहणीरोगविबन्धविषमज्वरान्
गुल्माध्मानव्रणच्छर्द्दिहिक्वाकण्डूहृदामयान्
व्रणस्थाने तृषा इति क्वचित् पुस्तके पाठः ।कामलां शूलमानाहं प्नीहानञ्च यकृत्तथा ।अश्मरीमूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत्
स्वादुतिक्तकषायत्वात् पित्तहृत् कफहृत्तु सा ।कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा
पित्तकृत् कटुकाम्लत्वात् वातहृन्न कथं शिवा ।प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत् प्रकाश्यते
हेतुभिः शिष्यबोधार्थं पूर्व्वं क्रियतेऽधुना ।कर्म्मण्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः ।यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा
पय्याया मज्जनि स्वादुः स्नायावम्लो व्यव-स्थितः ।वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तवरो रसः
*
नवा स्निग्धा घना वृत्ता गुर्व्वी क्षिप्ता चयाम्भसि ।निमज्जेत् सा सुप्रशस्ता कथितातिगुणप्रदा
नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता ।हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते
चर्व्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी ।स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोष-नुत्
उन्मीलिनी बुद्धिबसेन्द्रियाणांनिर्म्मूलिनी पित्तकफानिलानाम् ।विस्रंसिनी मूत्रशकृन्मलानांहरीतकी स्यात् सह भोजनेन
अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् ।हरीतकी हरत्याशु भुक्तस्योपरियोजिता
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा ।घृतेन वातजान् रोगान् सर्व्वरोगान् गुडान्विता ।सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।वर्षादिष्वभया प्राश्या रसायनगुणैषिणा
अध्वातिखिन्नो बलवर्जितश्चरूक्षः कृशो लङ्घनकर्षितश्च ।पित्ताधिको गर्भवती नारीविमुक्तरक्तस्त्वभयां खादेत्
”इति भावप्रकाशः
*
अन्यच्च ।“जीवन्ती रोहिणी चैव विजया चाभयामृता ।पूतना कालिका चेति सप्तजातिर्हरीतकी
सुवर्णवर्णा जीवन्ती रोहिणी कपिलद्युतिः ।अलावुवृत्ता विजया पञ्चांशा चाभया स्मृता
”पञ्चांशा पञ्चशिरा ।“स्थूलमांसामृता ज्ञेया पूतनास्थिमती मता ।त्र्यंशा कालिकेत्येवं सप्तजातिर्हरीतकी
स्नेहपानेषु सर्व्वेषु जीवन्ती तु प्रशस्यते ।रोहिणी क्षतरोगेषु विजया सर्वकर्म्मसु
पूतना लेपने ज्ञेया अमृता तु विरेचने ।अभया नेत्ररोगेषु गन्धयुक्तौ तु कालिका
हरस्य भवने जाता हरिता स्वभावतः ।हरते सर्व्वरोगांश्च तेन नाम्ना हरीतकी
*
पीयूषं पिबतस्त्रिपिष्टपपतेर्ये विन्दवो निर्गता-स्तेभ्योऽभूदभया दिवाकरकरश्रेणीव दोषापहा ।कालिन्दीव बलप्रमोदजननी गीरीव शूलिप्रियावह्निद्योतकरी हुताहुतिरिव क्षौणीव नाना-रसा
पथ्या पञ्चरसायुष्या चक्षुष्यालवणा सरा ।मेध्योष्णा दीपनी कुष्ठदोषशोथब्रणाप्रहा
*
पञ्चरसस्य विवरणम् त्वक् कटुः मांसं अम्लकषायम् अस्थि तिक्तम् तन्मध्ये माधुर्य्यम्
*
तन्मज्जगणाः ।“पथ्यामज्जा तु चक्षुष्यो वातपित्तहरो गुरुः
”इति राजवल्लमः