| YouTube Channel

हरिचन्दनं (haricandanaM)

 
शब्दकल्पद्रुमः
Sanskrit
हरिचन्दनं,
पुं,
क्ली,
(हरेरिन्द्रस्य प्रियं चन्दनम् ।)देवतरुविशेषः यथा, --“पञ्चैते देवतारवो मन्दारः पारिजातकः ।सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्
”इति स्वर्गवर्गे अमरः ५३
देवभूमावेव सम्भवात् देवतरुः चन्दयतिआह्वादयति चन्दनं चदि आह्वादे दीप्तौनन्द्यादित्वादनः हरेरिन्द्रस्य चन्दनं हरि-चन्दनम् इति तट्टीकायां भरतः
*
चन्दन-विशेषः तत्पर्य्यायः तैलपर्णिकम् गोशी-र्षम् इति मनुष्यवर्गे अमरः १३१
घौणि हरिचन्दने चन्दनविशेषाणां पृथक्पृथक् नामानीत्यन्ये तथा तिलस्येव पर्ण-मस्य तिलपर्णो वृक्षभेदः ततो जातं तैलपर्णि-कम् धवलं सुशीतलं चन्दनं तैलपर्णिकम् ।गोः शीर्षं गोशीर्षं तदाकारे मलयैकदेशे जातंगोशीर्षम् कालताम्रव्यामिश्रवर्णमुत्पलगन्धिअतिसुरभि शीतलतया सदैव सर्षैर्वेष्टितं गो-शीर्षम् कपिलवर्णत्वात् हरि तच्चन्दन-ञ्चेति हरिचन्दनम् हरेरिन्द्रस्य चन्दनं वा ।हरिर्मण्डूकस्तदाकारे पर्व्वतभागे जातत्वाद्वाहरिचन्दनम् इति भरतः
तत्पर्य्यायान्तरंसुरार्हम् हरिगन्धम् इन्द्रचन्दनम् दिव्यम्५ दिविजम् महागन्धम् नन्दनजम् ८लोहितजम् हरिचन्दनं कोकणे प्रसि-द्वम् अस्य गुणाः ।“हरिचन्दनन्तु दिव्यं हिमं तदिह दुर्व्वहं मनुजैः ।पित्ताटोपविलोपि वमथुभ्रमशोषमान्द्यमेदो-हृत्
”इति राजनिर्घण्टः
*
(पीतचन्दनम् कलम्व इति लोके ।“कालीयकन्तु कालीयं पीताभं हरिचन्दनम् ।हरिप्रियं कालसारं तथा कालानुसार्य्यकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)पारिभाषिकहरिचन्दनं यथा, --“घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।अथवा केशरैर्योज्यं हरिचन्दनमुच्यते
”इति पाद्मे पातालखण्डे १२ अध्यायः
हरिचन्दनं,
क्ली,
(हरिचन्दनं तद्वद्वर्णोऽस्त्यस्येति ।अच् ।) ज्योत्स्ना कुङ्कुमम् इति मेदिनी
पद्मकेशरम् इति हलायुधः
कान्ताङ्गम् ।इति शब्दरत्नावली