| YouTube Channel

हरिकेशः (harikezaH)

 
Wordnet
Sanskrit
Synonyms:
हरिकेशः
noun
सूर्यस्य सप्तकिरणेषु एकः
"हरिकेशस्य उल्लेखः विष्णुपुराणे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
हरिकेशः,
पुं,
(हरिः पिङ्गलः केशो यस्य ।)शिवः इति केचित्
(यथा, महाभारते ।१३ १७ ४४ ।“दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव
”विष्णुः यथा, महाभारते ६२ ५० ।“महोरग वराहाद्य हरिकेश विभो ! जय
”)शिवभक्तयक्षविशेषः तु शिवप्रसादात् दण्ड-पाणित्वं क्षेत्रपालत्वादिकञ्च प्राप्तवान् यथा, “एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ।तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ।दिव्यं चक्षुरदात्तस्मै यैनापश्यत् शङ्करम्
सूत उवाच ।अथ यक्षस्तदा तत्र शनैरुम्मील्य चक्षुषी ।अपश्यत् शिवं देवं वृषं श्वेतमुपाश्रितम्
देव उवाच ।जरामरणनिर्मुक्तः सर्व्वशोकविवर्ज्जितः ।भविष्यसि गणाध्यक्षो वरदः सर्व्वपूजितः
अजेयश्चापि लोकानां योगैश्वर्य्यसमन्वितः ।अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि
महाबलो महासत्त्वो ब्रह्मण्यो मम प्रियः ।त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव
उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ ।तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ
”इति मात्स्ये १० ८८ -- ९० ९६ -- ९९