| YouTube Channel

हरिः (hariH)

 
Hindi
Hindi
देवत्व की सुप्रीम व्यक्तित्व, KRishhNa
Apte Hindi
Hindi
हरिः
पुं*
- -
विष्णु का नाम
हरिः
पुं*
- -
इन्द्र का नाम
हरिः
पुं*
- -
शिव का नाम
हरिः
पुं*
- -
ब्रह्मा का नाम
हरिः
पुं*
- -
यम का नाम
हरिः
पुं*
- -
सूर्य
हरिः
पुं*
- -
चन्द्रमा
हरिः
पुं*
- -
मनुष्य
हरिः
पुं*
- -
प्रकाश की किरण
हरिः
पुं*
- -
अग्नि
हरिः
पुं*
- -
पवन
हरिः
पुं*
- -
सिंह
हरिः
पुं*
- -
घोड़ा
हरिः
पुं*
- -
इन्द्र का घोड़ा
हरिः
पुं*
- -
"लंगूर, बन्दर"
हरिः
पुं*
- -
कोयल
हरिः
पुं*
- -
मेंढक
हरिः
पुं*
- -
तोता
हरिः
पुं*
- -
साँप
हरिः
पुं*
- -
खाकी या पीला रंग
हरिः
पुं*
- -
मोर
हरिः
पुं*
- -
भर्तृहरि कवि का नाम
हरिः
पुं*
- हृ+इन्
विष्णु
हरिः
पुं*
- हृ+इन्
इन्द्र
हरिः
पुं*
- हृ+इन्
सूर्य
हरिः
पुं*
- हृ+इन्
अग्नि
हरिः
पुं*
- हृ+इन्
वायु
हरिः
पुं*
- हृ+इन्
सिंह
हरिः
पुं*
- हृ+इन्
घोड़ा
हरिः
पुं*
- हृ+इन्
बन्दर
हरिः
पुं*
- हृ+इन्
कोयल
हरिः
पुं*
- हृ+इन्
साँप
हरिः
पुं*
- हृ+इन्
मोर
हरिः
पुं*
- हृ+इन्
सिंह राशि
Wordnet
Sanskrit
Synonyms:
भर्तृहरिः, हरिः
noun
संस्कृतस्य सुप्रसिद्धः कविः।
"भर्तृहरिः उज्जयिन्याः राजा आसीत् तथा द्वितीयस्य विक्रमादित्यस्य अग्रजः आसीत्।"
Synonyms:
हरिः
noun
चतुर्दशभिः वर्णैः युक्तः वर्णवृत्तविशेषः।
"हरेः प्रत्येकस्मिन् चरणे जगणः, रगणः, जगणः, रगणः अन्ते लघु गुरुश्च भवति।"
Synonyms:
अश्वः, तुरगः, तुरङ्गः, तुरङ्गमः, वाजी, हयः, पीतिः, पीती, वीतिः, घोटः, घोटकः, वाहः, अर्वा, गन्धर्वः, सैन्धवः, सप्तिः, हरिः
noun
ग्राम्यपशुः- नरजातीयः यः वेगवान् अस्ति।
"अश्वः रथाय युज्यते।"
Synonyms:
वानरः, कपिः, प्लवङ्गः, प्लवगः, शाखामृगः, वलीमुखः, मर्कटः, कीशः, वनौकाः, मर्कः, प्लवः, प्रवङ्गः, प्रवगः, प्लवङ्गमः, प्रवङ्गमः, गोलाङ्गुलः, कपित्थास्य, दधिक्षोणः, हरिः, तरुमृगः, नगाटनः, झम्पी, झम्पारुकलिप्रियः, किखिः, शालावृकः
noun
पुंजातिविशिष्टवानरः।
"सः मनुष्यः वानरं वानरीं नर्तयति।"
Synonyms:
मण्डूकः, प्लवः, प्लवगः, प्लवंगमः, प्लवकः, अजम्भः, अजिह्मः, अजिह्वः, अलिमकः, कटुरवः, कोकः, जिह्ममोहनः, तरन्तः, तोयसर्पिका, दर्दरिकः, दर्दुरः, नन्दकः, नन्दनः, निर्जिह्वः, भेकः, मण्डः, मरूकः, महारवः, मुदिरः, मेघनादः, रेकः, लूलुकः, वर्षाभूः, वर्षाहूः, वृष्टिभूः, व्यङ्गः, शल्लः, शालुः, शालूकः, शालूरः, हरिः
noun
सः चतुष्पादः यः कार्दमे वसति तथा यः जले भूमौ दृश्यते।
"बालकः मण्डूकः मण्डूकी एतयोः मध्ये भेदं कर्तुम् असमर्थः।"
Synonyms:
कलापी, वर्हिणः, वर्ही, शिखी, शिखाबलः, शिखण्डी, शिखाधारः, शिखाधरः, नीलकण्ठः, श्यामकण्ठः, शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक्, भुजङ्गभोजी, भुजङ्गहा, भुजगाभोजी, भुजगदारणः, प्रचलाकी, चन्द्रकी, भुजगान्तकः, भुजगाशनः, सर्पाशनः, केकी, नर्तकः, नर्तनप्रियः, मेघानन्दी, मेघसुहृद्, मेघनादानुलासी, वर्षामदः, चित्रमेखल, चित्रपिच्छकः, कुमारवाही, राजसारसः, कान्तपक्षी, शुक्रभुक्, शापठिकः, दार्वण्डः, हरिः
noun
पुंत्वविशिष्टमयूरः।
"कलापी मयूरी तृदिलं चञ्च्वा गृह्णीतः।"
Synonyms:
अग्निः, वैश्वानरः, वीतहोत्रः, अग्निहोत्रः, हुरण्यरेताः, सप्तार्चि, विभावसुः, वृषाकपिः, स्वाहापतिः, स्वाहाप्रयः, स्वाहाभुक्, अग्निदेवः, अग्निदेवता, धनञ्जयः, जातवेदः, कृपीटयोनिः, शोचिष्केशः, उषर्बुधः, बृहद्भानुः, हुतभुक्, हविरशनः, हुताशः, हुताशनः, हविर्भुक्, हव्यवाहनः, हव्याशनः, क्रव्यवाहनः, तनुनपात्, रोहिताश्वः, आशुशुक्षणिः, आश्रयाशः, आशयाशः, आश्रयभुक्, आश्रयध्वंसी, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, भुवः
noun
देवताविशेषः-हिन्दुधर्मानुसारम् अग्नेः देवतास्वरूपम्।
"अग्नेः पत्नी स्वाहा।"
Synonyms:
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः
noun
हिन्दूनां धर्मग्रन्थेषु वर्णिता एका देवता।
"वेदेषु सूर्यस्य पूजायाः वारंवारं विधानम् अस्ति"।"
Synonyms:
मयूरः, कलापी, वर्हिणः, वर्ही, शिखी, शिखाबलः, शिखण्डी, शिखाधारः, शिखाधरः, नीलकण्ठः, श्यामकण्ठः, शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक्, भुजङ्गभोजी, भुजङ्गहा, भुजगाभोजी, भुजगदारणः, प्रचलाकी, चन्द्रकी, भुजगान्तकः, भुजगाशनः, सर्पाशनः, केकी, नर्तकः, नर्तनप्रियः, मेघानन्दी, मेघसुहृद्, मेघनादानुलासी, वर्षामदः, चित्रमेखल, चित्रपिच्छकः, कुमारवाही, राजसारसः, कान्तपक्षी, शुक्रभुक्, शापठिकः, दार्वण्डः, हरिः
noun
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।
"मयूरः भारतस्य राष्ट्रियः खगः अस्ति।"
Synonyms:
मण्डूकः, भेकः, प्लवः, प्लवगः, प्लवगतिः, प्लवङ्गमः, दर्दुरः, व्यङ्गः, वर्षाभूः, वर्षाघोषः, वृष्टिभूः, दर्दरीकः, गूढवर्च्चा, अलिमकः, अजिह्वः, शल्लः, शालूरः, सालूरः, हरिः
noun
सः प्राणी यः उभयचरः तथा यः वर्षाऋतौ जलाशयस्य समीपे दृश्यते।
"वर्षाऋतौ नैके मण्डूकाः स्थाने-स्थाने प्लवन्ते।"
Synonyms:
शुकः, कीरः, वक्रचञ्चुः, वक्रतुण्डः, रक्ततुण्डः, चिमिः, चिरिः, रक्तपादः, कुमारः, किङ्किरातः, फलाशनः, फलादनः, दाडिमप्रियः, मेधावी, हरिः
noun
खगविशेषः- यः हरितवर्णीयः खगः मनुष्यवाचः अनुकरणं करोति तथा नैकेषु गृहेषु दृश्यते।
"पञ्जरे शुकः राम राम इति वदति।"
Synonyms:
यमः, यमराट्, कृतान्तः, कालः, अन्तकः, वैवस्वतः, महिषध्वजः, महिषवाहनः, धर्मः, धर्मराजः, पितृपति, दण्डधरः, श्राद्धदेवः, शमनः, औडम्बरः, यमुनाभ्राता, दक्षिणदिक्पालः, दध्नः, भीमशासनः, शीर्णपादः, प्राणहरः, हरिः
noun
मृत्योः देवता, दक्षिणदिक्पालः यः जीवानाम् फलाफलम् नियमयति।
"दत्ताभये त्वयियमादपि दण्डधारे। "
Synonyms:
हंसः, श्वेतगरुत्, चक्राङ्गः, मानसौकाः, कलकण्ठः, सितच्छदः, सितपक्षः, पुरुदंशकः, धवलपक्षः, मानसालयः, हरिः
noun
जलपक्षिविशेषः यः कादम्बसदृशः अस्ति।
"हंसः देव्याः सरस्वत्याः वाहनम् अस्ति।"
Synonyms:
वानरः, कपिः, प्लवङ्गः, प्लवगः, शाखामृगः, वलीमुखः, मर्कटः, कीशः, वनौकाः, मर्कः, प्लवः, प्रवङ्गः, प्रवगः, प्लवङ्गमः, प्रवङ्गमः, गोलाङ्गुलः, कपित्थास्य, दधिक्षोणः, हरिः, तरुमृगः, नगाटनः, झम्पी, झम्पारुकलिप्रियः, किखिः, शालावृकः
noun
वन्यपशुः यः वृक्षे वसति भ्रमति च।
"वाली नाम वानरः रामेण हतः।"
Synonyms:
वायुः, वातः, अनिलः, पवनः, पवमानः, प्रभञ्जनः, श्वसनः, स्पर्शनः, मातरिश्वा, सदागतिः, पृषदश्वः, गन्धवहः, गन्धवाहः, आशुगः, समीरः, मारुतः, मरुत्, जगत्प्राणः, समीरणः, नभस्वान्, अजगत्प्राणः, खश्वासः, वाबः, धूलिध्वजः, फणिप्रियः, वातिः, नभःप्राणः, भोगिकान्तः, स्वकम्पनः, अक्षतिः, कम्पलक्ष्मा, शसीनिः, आवकः, हरिः, वासः, सुखाशः, मृगवाबनः, सारः, चञ्चलः, विहगः, प्रकम्पनः, नभः, स्वरः, निश्वासकः, स्तनूनः, पृषताम्पतिः, शीघ्रः
noun
विश्वगमनवान् विश्वव्यापी तथा यस्मिन् जीवाः श्वसन्ति।
"वायुं विना जीवनस्य कल्पनापि अशक्या।"
Synonyms:
अश्वः, वाजी, हयः, तुरगः, तुरङ्गः, तुरङ्गमः, सैन्धवः, पीतिः, पीती, घोटकः, घोटः, वीतिः, वाहः, अर्वा, गन्धर्वः, सप्तिः, हरिः
noun
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।
"राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।"
Synonyms:
इन्द्रः, देवराजः, जयन्तः, ऋषभः, मीढ्वान्, मरुत्वान्, मघवा, विडोजा, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित्, वज्री, वासवः, वृत्रहा, वृषा, वास्तोस्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्भभेदी, हरिहयः, स्वाराट्, नमुचिसूदनः, संक्रन्दनः, दुश्च्यवनः, तुराषाट्, मेघवाहनः, आखण्डलः, सहस्त्राक्षः, ऋभुक्षा, महेन्द्रः, कोशिकः, पूतक्रतुः, विश्वम्भरः, हरिः, पुरुदंशा, शतधृतिः, पृतनाषाड्, अहिद्विषः, वज्रपाणिः, देवराजः, पर्वतारिः, पर्यण्यः, देवताधिपः, नाकनाथः, पूर्वदिक्कपतिः, पुलोमारिः, अर्हः, प्रचीनवर्हिः, तपस्तक्षः, बिडौजाः, अर्कः, उलूकः, कविः, कौशिकः, जिष्णुः
noun
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
"वेदेषु इन्द्रस्य सूक्तानि सन्ति।"
Synonyms:
ब्रह्मा, आत्मभूः, सुरज्येष्ठः, परमेष्ठी, पितामहः, हिरण्यगर्भः, लोकेशः, स्वयंभूः, चतुराननः, धाता, अब्जयोनिः, द्रुहिणः, ब्रह्मदेवः, विरिञ्चिः, कमलासनः, पङ्कजासनः, स्रष्टा, प्रजापतिः, वेधाः, विधाता, विश्चसृट्, विधिः, नाभिजन्मा, अण्डजः, पूर्वः, निधनः, कमलोद्भवः, सदानन्दः, रजोमूर्तिः, सत्यकः, हंसवाहनः, हरिः, पूर्णानन्दः
noun
देवताविशेषः यः सृष्टेः जनकः अस्ति।
"नारदः ब्रह्मणः पुत्रः अस्ति।"
Synonyms:
चन्द्रः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः, हरिः
noun
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
"अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
सूर्यः, सविता, आदित्यः, मित्रः, अरुणः, भानुः, पूषा, अर्कः, हिरण्यगर्भः, पतङ्गः, खगः, सहस्रांशुः, दिनमणिः, मरीचि, मार्तण्ड, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, विवस्वान्, सप्ताश्वः, हरिदश्वः, चित्ररथः, सप्तसप्तिः, दिनमणि, द्युमणिः, दिवामणिः, खमणिः, खद्योतः, प्रद्योतनः, अम्बरीशः, अंशहस्तः, लोकबान्धवः, जगत्चक्षुः, लोकलोचनः, कालकृतः, कर्मसाक्षी, गोपतिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, ग्रहराजः, चण्डांशु, अंशुमानी, उष्णरश्मिः, तपनः, तापनः, ज्योतिष्मान्, मिहिरः, अव्ययः, अर्चिः, पद्मपाणिः, पद्मिनीवल्लभः, पद्मबन्धुः, पद्मिनीकान्तः, पद्मपाणिः, हिरण्यरेतः, काश्यपेयः, विरोचनः, विभावसुः, तमोनुदः, तमोपहः, चित्रभानुः, हरिः, हरिवाहनः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, वृध्नः, भगः, अगः, अद्रिः, हेलिः, तरूणिः, शूरः, दिनप्रणीः, कुञ्जारः, प्लवगः, सूनुः, रसाधारः, प्रतिदिवा, ज्योतिपीथः, इनः, वेदोदयः, पपीः, पीतः, अकूपारः, उस्रः, कपिलः
noun
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
"सूर्यः सौर्याः ऊर्जायाः महीयः स्रोतः।/ सूर्ये तपत्यावरणाय दृष्टैः कल्पेत लोकस्य कथं तमित्स्रा।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
सर्पः, भुजगः, भुजङ्गः, अहिः, भुजङ्गम्, उरगः, पृदाकुः, आशीविषः, विषधरः, चक्री, व्यालः, सरीसृपः, कुण्डली, गूढपात्, चक्षुःश्रवा, काकोदरः, फणी, दर्वीकरः, दीर्घपृष्ठः, दन्दशूकः, विलेशयः, उरगः, पन्नगः, भोगौ, जिह्नगः, पवनाशनः, विलशयः, कुम्भीनसः, द्विरसनः, भेकभुक्, श्वसनोत्सुकः, फणाधरः, फणधरः, फणावान्, फणवान्, फणाकरः, फणकरः, समकोलः, व्याडः, दंष्ट्री, विषास्यः, गोकर्णः, उरङ्गमः, गूढपादः, विलवासी, दर्विभृत्, हरिः, प्रचालकी, द्विजिह्वः, जलरुण्डः, कञ्चुकी, चिकुरः, भुजः
noun
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
"सर्पाः शून्यागारे वसन्ति।"
Synonyms:
अग्निः, पावकः, पावनः, तेजः, वह्निः, ज्वलनः, अनलः, कृशानुः, वायुसखा, वायुसखः, दहनः, शिखी, शिखावान्, कृष्णवर्त्मा, अरणिः, घासिः, दावः, पचनः, पाचनः, पाचकः, जुहुवान्, वाशिः, अर्चिष्मान्, प्रभाकरः, छिदिरः, शुन्ध्युः, जगनुः, जागृविः, अपाम्पितः, जलपित्तः, अपित्तम्, हिमारातिः, फुत्करः, शुक्रः, आशरः, समिधः, चित्रभानुः, ज्वालाजिह्वा, कपिलः, विभावसुः, तमोनुद्, शुचिः, शुक्रः, दमुनः, दमीनः, अगिरः, हरिः, कविः
noun
तेजःपदार्थविशेषः।
"पर्वते दृश्यमानः धूमः अग्नेः सूचकः।"
Synonyms:
सिंहः, मृगेन्द्रः, पञ्चास्यः, हर्यक्षः, केशरी, हरिः, पारीन्द्रः, श्वेतपिङ्गलः, कण्ठीरवः, पञ्चशिखः, शैलाटः, भीमविक्रमः, सटाङ्कः, मृगराट्, मृगराजः, मरुत्ज्लवः, केशी, लम्नौकाः, करिदारकः, महावीरः, श्वेतपिङ्गः, गजमोचनः, मृगारिः, इभारिः, नखरायुधः, महानादः, मृगपतिः, पञ्चमुखः, नखी, मानी, क्रव्यादः, मृगाधिपः, शूरः, विक्रान्तः, द्विरदान्तकः, बहुबलः, दीप्तः, बली, विक्रमी, दीप्तपिङ्गलः
noun
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा बलवान् पशुः।
"अस्मिन् काव्ये कविना शिवरायस्य तुलना सिंहैः कृता।"
Synonyms:
हरित्, हरितः, हरिता, हरितरिणि, हरितम्, हरितवर्णः, हरिः, पलाशः, पलाशी, पलाशम्, पालाशः, पालाशी, पालाशम्, श्यामः, श्यामा, श्यामम्, भरितः, भरिता, भरितम्, श्यामवर्णः, श्यामवर्णा, श्यामवर्णम्, तालकाभः, तालकाभा, तालकाभम्
noun
वर्णविशेषः, शाद्वलवत् वर्णः।
"चित्रकारः शुकस्य पक्षौ हरितेन वर्णेन वर्णयति।"
वैजयन्तीकोषः
Sanskrit
Word: हरिः
Root: हरि
Gender: पुं
Number: all
अर्थः
Meaning(s):
Son of a Niṣāda and a Śūdrā
Shloka(s):
3|5|29|2 वैश्या सूचिं हरिं शूद्रा सोऽपि चायोगवः क्वचित्॥ (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
3|5|29|2 हरिः (हरि) (पुं) Son of a Niṣāda and a Śūdrā
Related word(s):
isa_k निषादपुत्राः स्युः नानायोषित्समुद्भवाः
Tamil
Tamil
ஹரி: : விஷ்ணு, இந்திரன், பிரமன், அக்னி, சிங்கம், குரங்கு, குதிரை, பாம்பு, தவளை, கிளி, மயில்.
शब्दकल्पद्रुमः
Sanskrit
हरिः,
पुं,
(हरति पापानीति हृ + “हृपिषि-रुहीति ।” उणा० १२८ इति इन् ।)विष्णुः (यथा, रघुः १० ८६ ।“हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैःपतिरवनिपतीनां तैश्चकाशे चतुर्भिः
”)सिंहः (यथा, रघुः ५९ ।“स न्यस्तगस्त्रो हरये स्वदेह-मुपानयत् पिण्डमिवामिषस्य ।”)शुकपक्षी सर्पः वानरः भेकः इत्यमरः
चन्द्रः सूर्य्यः वायुः अश्वः (यथा, महाभारते १६६ ।“ततः हरिभिर्युक्तं जाम्बनदपरिस्कृतम् ।मेघनादिनमारुह्य श्रिया परमया ज्वलन्
)यमः शिवः ब्रह्मा किरणः इन्द्रः (यथा, रघुः १२ १०३ ।“यन्ता हरेः सपदि संहृतकार्म्मुकज्य-मापृच्छ्य रावघमनुष्ठितदेवकार्य्यम्
”)वर्षविशेषः इति मेदिनी
मयरः कोकिलः ।हंसः अग्निः इति शब्दरत्नावली
भर्त्तृ-हरिः इति त्रिकाण्डशषः
पिङ्गवर्णः ।हरिद्वर्णः इति हेमचन्द्रः
*
हरेरष्टोत्तर-शतनामानि यथा, --त्रीसदावि उवाच ।श्रीकृष्णाष्टोत्तरशतं नाम मङ्गलदायकम् ।तत्शृणुष्व महाभाग ! सव्वकल्मषनाशनम्
श्रीकृष्णः पुण्डरोकाक्षो वासुदेवी जनार्द्दनः ।नारायणो हरिर्व्विष्णुर्म्माधवः पुरुषोत्तमः
गोविन्दः केशवोऽनन्तो वामनो मधुसूदनः ।दामोदरो हृषीकेशः पद्मनाभस्त्रिविक्रमः
वैकुण्ठश्चाच्युतो रामश्चक्रपाणिरधोक्षजः ।पीताम्बरो जगन्नाथो नृसिंहो गरुडध्वजः
राधिकापतिरानन्दस्वरूपो विश्वमोहनः ।यशोदानन्दनः सत्यः श्रीगोपोजनवल्लभः
गदाधरो हयग्रीबो वराहश्च गवीश्वरः ।गोवर्द्धनधरो विश्वबीजं कमललोचनः
सर्व्वान्तर्य्यामी जगदीशश्चानूरमर्द्दनः प्रभुः ।विश्वम्भरो यज्ञभोक्ता वनमाली सनातनः
पुराणपुरुषो नन्दात्मजः श्रीवत्सलाञ्छनः ।देवकीनन्दनः श्यामः श्रीश्यामाप्राणवल्लभः
अनिरुद्धः परं ब्रह्म मुरारिः श्रीधरस्तथा ।श्रीगोपीप्तोहनः शार्ङ्गधन्वा तु ब्राह्मणप्रियः
ब्रह्मण्यदेवः क्षेत्रज्ञस्तापत्रयविनाशनः ।कैटभारिर्गुणातीतो रुक्मिणीरमणो विराट्
सङ्कर्षणः शेषशायी दैत्यारिर्वकभित्तथा
सर्व्वशास्त्रप्रणेता मुकुन्दो भक्तवत्सलः
अघासुरघ्नः प्रद्युम्नो हंसश्च मुरलीधरः ।कुवलयापीडघाती पद्मधारी चतुर्भुजः
भक्तलोकैकशरणो गोपालो वैष्णवप्रियः ।वंशीपाणिर्गुणमयः कोटिकन्दर्पमोहनः
वेणुवाद्यविनोदी कंसारिर्यादवस्तथा ।चतुर्व्वेदमयो नित्यः सच्चिदानन्दविग्रहः ।दीनानाथैकशरणं भक्तानुग्रहकारकः
*
एतदष्टोत्तरशतं कृष्णनाम नृमङ्गलम् ।प्रत्यहं यः पठेत् प्रातस्त्रिसन्ध्यां वा विशेषतः
द्विजादिश्चेन्नरो भक्त्या शृणोति जपति स्मरेत् ।दुःस्वप्ननाशनं तस्य मनोमलविनाशनम् ।सर्व्वापराधशमनं सर्व्वपापक्षयो भवेत् ।पावनं शान्तिदं पुण्यं तापत्रयविनाशनम्
आयुष्यं सर्व्वसुखदं सर्व्वदुःखापहं मुने ! ।वतयज्ञतपोदानयागतीर्थफलप्रदम्
पुत्त्रदं चाशु बन्ध्यानां ग्रहपीडादिनाशनम् ।सर्व्वाभीष्टप्रदं सर्व्वैश्वर्य्यदं विघ्ननाशनम्
सर्व्वोपद्रवदारिद्य्रनाशनं मानवस्य तु ।सद्बुद्धिविद्याविज्ञानयशोधर्म्मप्रदं तथा
सर्व्वभीतिहरं भक्तिमुक्तिंधान्यधनप्रदम् ।सर्व्वरोगक्षयकरं बाह्वान्तःशुद्धिदं परम्
फलकामिनो वैष्णवस्य सर्व्वकामफलप्रदम् ।सर्व्वशत्रुक्षयो याति हरिभक्तिश्च जायते
सरस्वती वशगा कमलाविरतं भवेत् ।क्षेत्रतीर्थे मरणं गङ्गायां वा विशेषतः
मोचनं भवबन्धस्य यमभीतिविनाशनम् ।निष्कामिनस्त्वनन्यस्य प्रेमभक्तिसुखप्रदम् ।भवेदहैतुकं ज्ञानं साक्षात् कृष्णः प्रसीदति
”इति पाद्मोत्तरखण्डे १११ अध्यायः
*
श्रीहरिपादचिह्नाणि यथा, --श्रासदाशिव उवाच ।“सच्चिदानन्दरूपस्य कृष्णस्याद्भुतकर्म्मणः ।संस्मरेत् पादचिह्नानि प्रातर्भक्त्या नरोत्तमः
अतिगुह्यानि देवर्षे यानि भक्तिप्रदानि ।सर्व्वसुखप्रदानीह तव प्रोक्तानि वेधसा
मयापि भुवनेश्वर्य्यै कथितानि प्रयत्नतः ।पुरासौ तुष्टचित्ताभूत् श्रुत्वा कृष्णसुखप्रदा
दिलीप उवाच ।कानि कानि चिह्नानि कृष्णस्य पादयो-र्म्मने ।वशिष्ठ ! श्रोतुमिच्छामि कथयस्वानुपूर्व्वकम्
वशिष्ठ उवाच ।यदूचिवान् स्वयं ब्रह्मा नारदाय नराधिप ! ।तत् शृणुष्व महत् पुण्यमतिगोप्यतमं वचः
विधिर्देवर्षिणा पृष्ट उपाख्यानमिदं पुरा ।महाभागवतं पुण्वमेकदा तमुवाच
ब्रह्मोवाच ।शृणु नारद वक्ष्यामि पादयोश्चिह्नलक्षणम् ।भगवत्कृष्णरूपस्य ह्यानन्दैकरसस्य
अवताराः ह्यसंङ्ख्याश्च कथिता ये तवाग्रतः ।परं सम्यक् प्रवक्ष्यामि कृष्णस्तु भगवान् स्वयम्
देवानां कार्य्यसिद्ध्यर्थमृषीणां वा नृणां तया ।आविर्भूतस्तु भगवान् स्वानां प्रियचिकीर्षया
केनैव ज्ञायेते देवो भगवान् भक्त्वत्सलः ।तान्यहं वेद्मि नान्योऽस्ति सत्यमेतन्मयोदितम्
ऊनविंशतिचिह्नानि मया दृष्टानि तत्पदे ।दक्षिणे दश चिह्नानि वामे नव नारद !
ध्वजातपत्रं कमलं वज्राख्यमङ्कुशो यवः ।स्वस्तिकं चोर्द्धरेखा चाष्टकोणं चक्रमेव
*
नवान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ! ।चिह्नानि वामचरणे गोविन्दस्याद्भुतानि
इन्द्रचापं त्रिकोणञ्च कलसञ्चार्द्धचन्द्रकम् ।शङ्खोऽम्बरं मत्स्यचिह्नं गोष्पदं जाम्बवं स्मृतम्
अङ्कान्येतानि भो विप्र ! दृश्यन्ते यदा कदा ।कृष्णाख्यन्तु परं ब्रह्म भुवि जातं संशयः
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ।दृश्यन्ते ब्रह्मवित्श्रेष्ठ ह्यवताराः कथञ्चन
मध्ये ध्वजा तु विज्ञेया पद्मं द्व्यङ्गलमानतः ।वज्रन्तु दक्षिणे पार्श्वे चाङ्कुशो वै तदग्रतः
यवोऽप्यङ्गुष्ठमूले स्यात् स्वस्तिकं तत्र कुत्र-चित् ।आतपत्रं चोर्द्धरेखा वामे चक्रञ्च दक्षिणे
आद्यमङ्गुलिमारभ्य यावद्वै मध्यमा स्थिता ।तावद्वै चोर्द्धरेखा कथिता पद्मसंज्ञके
अष्टकोणं ततो वत्स ! समानाष्टाङ्गुलैश्च तत् ।निर्द्दिष्टं दक्षिणे पादे चेत्याहुर्म्मुनयो हरेः
*
एवं पादस्य चिह्नानि नान्यं वहति वैष्णवः ।दक्षिणेतरस्थानानि संवदामीह संस्मृरेत्
चतुरङ्गुलमानेन द्वयाङ्गुलिसमीपतः ।इन्द्रचापं ततो विद्यादन्यत्र ते क्वचित्
त्रिकोणं मध्यनिर्द्दिष्टं कलसो यत्र कुत्रचित् ।अष्टाङ्गुलप्रमाणेन तद्धरेरर्द्धचन्द्रकम्अर्द्धचन्द्रसमाकारं कलसो निर्द्दिष्टं तस्य सुव्रत ।इन्द्रं वै यच्च चिह्नन्तु ह्याद्यन्ते वै निरूपितम्
त्रिकोणं दक्षिणे भागे त्वम्बरं तदधो यवः ।जम्बूफलं त्रिकोणस्य वामपार्श्वे निरूपितम्
मोष्पदं द्विखुरं ज्ञेयं तदा द्व्यङ्गुलमानतः ।त्रिकोणाधस्तु निर्द्धिष्टमथवा कलसो यथा
श्रीनारद उवाच ।न श्रुतं दृष्टञ्च चिह्नमेतन्ममोदितम् ।रूपं वै सदृशं ब्रह्मन् वद त्वं माम्प्रतं मम
श्रीब्रह्मोवाच ।पताका ध्वजा प्रोक्ता प्रान्ते त्रैलोक्यकालयः ।पद्मं वै बाह्यपत्रञ्च ज्ञातव्यं श्रुतिनोदितम्
वज्रं खण्ड इति प्रोक्तं दृष्टं वै गोत्रभित्करे ।सहस्रारं समाख्यातं क्वचिद्वेदविदो विदुः
अङ्गुशो नागशिक्षास्त्रं निर्म्मितं यद्धि पुत्रक ।तादृशं तद्भवेच्चिह्नं विज्ञेयं वैष्णवैर्नरैः
यवोऽप्यङ्गुष्ठमूलेषु कथितो मुनिभिर्ध्रुवम् ।आतपत्रं नृपच्छत्राकारं वत्स सुशोभनम्
चक्रं सुदर्शनाकारं यच्चिह्नं तम्मनोहरम् ।वासुदेवकरे यद्वत् मुनिभिः परिकीर्त्तितम्
विवाहादौ माङ्गल्ये पुत्त्रे जाते तथैव ।स्त्रीभिश्चैव सदा कार्य्यं स्वस्तिकञ्च तदुच्यते
रेखाश्चतस्रः संख्यातास्तिर्य्यगूर्द्ध्वा यदीक्षिताः ।पल्लवेन संयुक्तमष्टकोणं तदुच्यते
दण्डाकारोर्द्ध्वरेखा स्यात् वक्रा दृश्यते यदा ।मध्यमाङ्गष्ठमानेन कथिता मुनिभिः किल
दशभिश्चिह्नितैः पादं वन्द्यं पूज्यञ्च सर्व्वदा ।चिह्नान्येतानि भो विप्र दक्षिणे चरणे विभोः ।स श्रीकृष्ण इति ज्ञेयो बुद्धिमद्भिर्नरोत्तमैः
*
यद्रूपाणि चिह्नानि वामपादे तत् शृणु
इन्द्रचापं घनुर्व्विद्यात् द्व्यङ्गुलञ्च चतुर्गुणम् ।मौर्व्वीसंयुक्तवक्रं चेत्तदाहुर्मुनयो ध्रुवम्
त्रिकोणन्तु त्रिरेखाख्यं शकटाकारकं यदा ।तदा वै तत्त्रिकोणाख्यं चिह्नन्तु मुनिनोदितम्
कलसो वर्त्तुलाकारो ग्रोवया सहितो यदा ।दृश्यते तादृशं पुत्त्र चिह्नितं सकलाधिकम्
द्वितीयायां यथा चन्द्रो दृश्यते चाम्बरे क्वचित् ।तदर्द्धं चन्द्रं विज्ञेयं श्रुतौ प्रतिपादितम्
अम्बरं बिन्दूरित्येवं द्विरेखासुसमन्वितम् ।वर्त्तुलञ्च सदा दृष्टं श्रीकृष्णे परमात्मनि ।भत्स्याकारो भवेद्यत्र तच्चिह्नं मत्स्यसज्ञकम् ।जम्बूफलसमाकारं जम्बूचिह्नं विदुर्बुधाः
एतच्चिह्नं समाख्यातमूनविंशतिमंख्यकम् ।पादयोरुभयोराहुः कृष्णस्य मुनयोऽनघाः
एवं वृन्दावनेश्वर्य्याः पादयार्म्मुनिसत्तम ! ।ऊनविंगतिचिह्नानि कथयामीह तत् शृणु
दक्षिणे नव चिह्नानि राधाया दश वामतः ।मेदोऽयं कथिता विप्र कृष्णस्यार्द्धाङ्गरूपिणी
पतानि पदचिह्नानि दृष्टानि श्रुतानि ।त्वदग्रे कथितान्येव पुनः किं कथयाम्यहम्
नारद उवाच ।चिह्नान्येतानि भो ब्रह्मन् किं कर्त्तव्यानि वैष्णवैः ।कथयस्व हि सर्व्वज्ञ युगयोः पादयोर्म्मम
ब्रह्मोवाच ।मीवणं राजतं वापि पाषाणं काष्ठजादिकम् ।युगलं युगलं पादं कृत्वा चिह्नैश्च चिह्नितम्
स्वगात्रे विभृयात्तानि पदचिह्नानि वैष्णवः ।नाभेरूर्द्धं मुनिः स्नात्वा वत्स वृन्दावनेशयोः
अथवा चिह्नितं पादं कृत्वा भागवतोत्तम ! ।पूजामारभते तावत् यावज्जीवति नारद !
पूजितो देवदेवेशः फलं भवति देहिनाम् ।तथा तच्चिह्नितं पादं अर्च्चनं कुरुते यदि
राजसूयाश्वमेधादिफलं भवति सर्व्वथा ।तदनन्तगुणं प्रोक्तं यद्येकं पूजयेत् सुधीः
”इति पाद्मोत्तरखण्डे श्रीकृष्णपदचिह्नमाहात्म्यंनाम ११२ अध्यायः
*
तन्नाममाहात्म्यं यथा, श्रीसदाविव उवाच“शृणु नारद ! भद्र ते कथयिष्यामि चानघ ।पार्व्वत्यै यदहं पृष्ठः प्रावोचन्तु यथातथम्
वेदस्याध्ययनं यज्ञं तपो योगः शमो दमः ।कृष्णनामसहस्रांशैर्देवर्षे ! नहि तुल्यकम्
ज्ञानं देवार्च्चनं ध्यानं धारणा नियमो यमः ।प्रत्याहारः समाधिश्च हरिनामसमं
गोविन्दनामसदृशं त्यागो व्रतं मुने ! ।न सङ्कल्पो नापि शौचं पुण्यं फलं तथा
वानप्रस्थं ब्रह्मचर्य्यं गार्हस्थ्यं कर्म्मन्यासकम् ।धर्म्म एव सद्राचारो हरेर्नामतुल्यकः
हरेर्नामसदृशं कर्म्म किञ्चित् तपस्तथा ।सर्व्वतीर्थाटनञ्चैव चतुर्द्धा मुक्तिरेव
कृष्णनाम परा मुक्तिः कृष्णनाम परा गतिः ।कृष्णनाम परं पुण्यं कृष्णनाम परं फलम्
कृष्णनाम परो धर्म्मः कृष्णनाम परं तपः ।कृष्णनाम परा शान्तिः कृष्णनाम परा स्तुतिः
कृष्णनाम परा भक्तिः कृष्णनाम परा स्मृतिः ।कृष्णानाम परं यज्ञं कृष्णनाम परा मतिः
कृष्णनाम परं ज्ञानं कृष्णनाम परा स्थितिः ।कृष्णनाम परं दानं कृष्णनाम जगत्प्रियम्
कृष्णनाम परं श्राद्धं पितॄणां तर्पणं सदा ।कृष्णनाम परा प्रीतिः कृष्णनाम परः प्रभुः
कृष्णनाम जगत् सत्यं जन्तूनां कारणं परम् ।जीवनं शरणं कृष्णनामैव विपुलं धनम्
कृष्णनाम जगद्बन्धुर्ज्जगद्बीजं गुणः परः ।विश्व धारं कृष्णन जगतां पावनं परम्
कृष्णनाम जगज्जन्म यत् किञ्चित् सचराचरम् ।धार्य्यते ल्यते विखं कृष्णनाम्ना प्रलीयते
यत् किञ्चित् क्रियते कर्म्म कृष्णनाम परायणः ।तत् कर्म्म कर्म्म एव स्यात् साक्षाद्गृह्वातिकेशवः
श्रीहरेर्नाम ग्रहणं प्रशस्तञ्च युगे युगे ।कुत्रापि भवेत् सिद्धिर्हित्वा तन्नाम कर्म्म
विशेषतः कलियुगे कृष्णनामैव केवलम् ।त्यक्त्वा नास्त्येव देवर्षे ! लोकस्य गतिरन्यथा
हरिनामपरः शान्तः क्षमाशीलो जितेन्द्रियः ।नीत्वा कुलसहस्राणि कृष्णं प्राप्नोति स्वानि
श्रीकृष्णहरिगोविन्ददासनामादिको जनः ।यः कञ्चिद्याति कलुषं सर्व्वं तन्नामकीर्त्तनात्
हत्यायुतं पानसहस्रमुग्रंगुर्व्वङ्गनाकोटिनिषेवणञ्च ।स्तेयान्यनेकानि हरेः प्रियेणगोविन्दनाम्ना निहतानि सद्यः
अनृच्छयापि दहति स्पृष्टो हुतवहो यथा ।हरिनाम दहेत् पापं तथाज्ञमुखनिर्गतम्
सकृदुच्चारितं येन हरे कृष्णेति निश्चयम् ।यमाधिकारं नो याति कापट्येन विना मुने
अज्ञानादथवा ज्ञानाद्दस्युभावेन वा पुनः ।कृष्णनामैव यच्चिन्ता याति परमं पदम्
ब्रह्महा मद्यपः स्तेयो ह्यज्ञानाद्गुरुतल्पगः ।भवार्णवं तरेदन्ते कृष्णनामपरायणः
पितृहा नृपहा गोघ्नः स्त्रीहन्ता पापिनोऽपरे ।गोविन्दनामोच्चारेण पश्चात्ते शुद्धिमाप्नुयुः
यद्भूतं पापमज्ञानाद्वर्त्तमानञ्च नारद ।यद्भविष्यति तत् सर्व्वं कृष्णनाम दहेद्ध्रुवम्
जीवानान्तु सदा द्रोही चात्महा निन्द्यकर्म्मकृत् ।स पूतो जायते धन्यो नामकीर्त्तनतो हरेः
क्षेत्रतीर्थतपोदानव्रतार्च्चनं फलं तथा ।शक्तिश्च सर्व्वयज्ञानां मुक्तेरध्यात्मवस्तुनः
ज्ञानञ्च दैवमहतां सर्व्वसिद्धिप्रदं फलम् ।नैमित्तिकानां नित्यानां तथा काम्यकर्म्म-णाम्
वर्णाश्रमानां योगानां स्थापितं येषु नामसु ।आकृष्य सर्व्वाघहरं पुरा कृष्णेन नारद
त्रैलोक्ये यानि पुण्यानि धर्म्मकर्म्मफलानि ।तुल्यतां तानि नो यान्ति हरिनामानुकीर्त्तने
नाम्नोऽस्य यावती शक्तिः पापनिर्हरणे हरेः ।तावत् कर्त्तुं शक्नोति पातकं पातकी जनः ।श्वपवो धृजिनं कर्त्तुं नहि शक्रोति यत्नतः
तावद्धर्त्तुं मुने यावत् कृष्णनामानुकीर्त्तनम् ।मानसं कर्म्मजं वाग्जं लोके तन्नास्ति कल्मषम् ।सर्व्वाशुभघ्नं शिवदं यद्धरेर्नामकीत्तनम् ।चान्द्रायणादिभिः कृच्छ्रैः शुद्धिर्न स्यात्तथा-नृणाम्
कीर्त्तनेन हरेर्नाम्नः सकृदेव भवेद्यथा ।सकृदाख्याततं येन कृष्णनाम सुमङ्गलम् ।तज्जिह्वा वष्णवी नान्यं वचो वक्त्यप्यकारणम्
ऋग्वेदो हि यजुर्व्वेदः सामवेदोऽप्यथर्व्वणम् ।अधीतास्तेन येनाक्तं हरिरित्यक्षरद्वयम्
पापिनोऽपि हरेर्नाम कीर्त्तयन्ति यथा यथा ।सर्व्वाघं मस्मसात् कृत्वा कृष्णभक्तिस्तथा तथा
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।गङ्गादिसर्व्वतीर्थेषु स्नातो भवति नारद !
पुराणशास्त्रागमवेदपाठ-तीर्थावगाहादिफलं यथेष्टम् ।गोविन्दानाम्नोऽपि कलाशतांशै-स्तुल्यं भवेन्नैव मुने कदाचित्
मा ऋचो मा यजुर्व्विप्र साम पठ किञ्चन ।कृष्णगोविन्दनामादि गेयं गायस्व नित्यशः
गोकोटिदाने ग्रहणे खगस्यप्रथागगङ्गाम्बुनि कल्पवासः ।यत्यायुतं मेरुसुवर्णदानंगोविन्दनाम्नो समं शतांशैः
कुरुक्षेत्रण किं तस्य किं काश्या पुष्करेण ।जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम्
विश्रुतानि बहून्येव तीर्थानि बहुधा ।कोट्यंशेनापि तुल्यानि नामकीर्त्तनतो हरेः
इष्टापूर्त्तानि कर्म्माणि सुबहूनि कृतान्यपि ।भवहेतूनि तान्येव हरेर्नाम तु मुक्तिदम्
परिहासेऽपि हासाद्यैविष्णोर्गृह्णन्ति नाम ये ।कृतार्थास्तेऽपि मनुजास्तेभ्योऽपीह नमो नमः
स्त्री,
शूद्रः पुरुषो वापि ये चान्ये पापयोनयः ।कीर्त्तयन्ति हरिं भक्त्या तेभ्योऽपीह नमो नमः
देशनियमस्तत्र कालनियमस्तथा ।नोच्छिष्टादौ निषेधश्च नामलुब्धस्य श्रीहरेः
चक्रायुधस्य नामानि सदा सर्व्वत्र कीर्त्तयेत् ।नाशौचं कीर्त्तने तस्य पवित्रकरो यतः
कालशौचनियमा देशाशौचनिर्णयः ।हरेः संकीर्त्तनादेव नाम्नो नारद मुच्यते
स्नाने कालोऽस्ति दाने कालोऽस्ति जप-यज्ञयोः ।कृष्णसङ्कीर्त्तने कालो नास्त्यत्र पृथिवीतले
किं सांख्ययोगैः किं यज्ञैस्तपोभिः किं करिष्यति ।चेन्मुक्तिमिच्छेद्भक्तिञ्च कुर्य्याद्गोविन्दकीर्त्तनम्
परदाररतः पापी परहिंसापकारकः ।मुक्तिमायाति संशुद्धो हरेर्नामानुकीर्त्तनात्
कृष्णनामधनः कृष्णनामग्राही सदा नरः ।तत्त्वतः कृष्णमाप्रोति कृष्णनामजनप्रियः
हित्वा गोविन्दनामानि सर्व्वकर्म्म करोति यः ।बन्धाय तस्य तत् कर्म्म मोक्षाय तु नारद !
सर्व्वकर्म्म परित्यज्य हरिनाम स्मरेत् सदा ।यस्तस्य कर्म्मसिद्धिः स्यात् कृष्णनामप्रसङ्गतः
कामांस्त्यक्त्वा मनोभोगान् विषयांश्च चरन्ति ये ।तेषां दद्यात् परां भक्तिं हरिनामपरायणः
हरिनामरतो भूत्वा सर्व्वकर्म्म परित्यजेत् ।स सर्व्वपापान् मुक्तो यः पद्मं हित्वोदकं यथा ।कृष्णनामैव यच्चित्ते देवर्षे तस्य कर्म्म ।स लोकान् सकलान् जित्वा तत्त्वतः कृष्ण-माप्नुयान्
हरिनाम सदा गीत्वा विचरन्ति महीतले ।न प्राप्नुवन्ति तद्भाग्यं देवा इन्द्रादंयोऽपरे
श्रद्धया हेलया ये तु हरिनाम सुमङ्गलम् ।गायन्त्येकान्तिनश्चित्तेऽच्युतस्तिष्ठति सन्ततम्
एकान्तिनः कृष्णनामाश्रया ये हरेः प्रिया ।यदि स्युरनत्यजा वेदपारगा तथा मुने !
कृणनामानि गायन्ति तस्य सेवादिकर्म्म ।सदा कुर्व्वन्ति ये विप ! तेभ्यो नित्यं नमो नमः
स्तेयी गुर्व्वङ्गनागामो ब्रह्मघ्नो मद्यपः खलः ।तत्पापेभ्यः मुक्तोऽङ्ग श्रीहरेर्नाम यत्तपः
पूर्व्वजन्मपरित्यज्यो ह्यासक्तः कृष्णनामसु ।यथात्मा भौतिकाद्देहात् मुक्तः सर्व्वपातकात्
हरिनाम व्रतं यस्य हरिनाम यत्तपः ।स्वयं भवार्णवात् त्राता गोविन्दो मुनिपुङ्गव !
श्रद्धयाविरतं कृष्णनामगानरतो जनः ।कुर्य्यात् सदैव सर्व्वत्र तच्चिन्तां कृपयाच्यतः
मात्सर्य्यलोभमोहैश्च कामक्रोधमदैर्युतः ।सर्व्वापहारी तन्मुक्तः कृष्णनामैब यत्तपः
सर्व्वदोषयुतो विप्र व्याप्तश्चाशेषपातकैः ।मुक्तः वृजिनादस्मात् कृष्णनामैव यत्तपः
स्वधर्म्मवर्ज्जितः पापो जीवद्रोही हिंसकः ।स मुक्तः सर्व्वपापेभ्यः कृष्णनामैव यत्तपः
विप्रक्षत्रियविट्शूद्राः सङ्करान्त्यजजारजाः ।कानीना गोलकाश्चैव पितुर्जाताश्च क्षेत्रजाः
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।यद्येते पापिनो विप्र ! महापातकिनोऽपि वा
उपपातकिनश्चातिपापिनो ह्यनुपापिनः ।भ्रष्टाचाराश्च पाषण्डाः स्वस्वधर्म्मविवर्ज्जिताःजीवहत्यारता व्रात्या निन्दकाश्चाजितेन्द्रिया ।पश्चाज्ज्ञानसमुत्पन्ना गुरोः कृष्णप्रसादतः
ततस्तु यावज्जीवन्ति हरिनामपरायणाः ।शुद्धास्तेऽखिलपापेभ्यः पूर्व्वजेभ्यो हि नारद !
नामादेशं रटन्तस्तु श्रीहरेः स्मृतिपूर्व्वकम् ।महद्भयं यमं जित्वा परं गोविन्दमाप्नुयुः
गृहान्धकूपपतिताः सर्व्वदोषैस्तु संप्लुताः ।संसारवासनालिप्ताः सर्व्वधर्म्मबहिष्कृताः
मुक्तास्ते सर्व्वतस्तस्मादुच्चरन्तो हरेर्द्विज ।मृत्योर्म्महद्भये नाम यान्ति गोविन्दमव्ययम्
हरिनामानि तिष्ठन्ति सन्ति वक्ताणि प्राणिनाम् ।भवन्ति कर्म्मसम्बद्धा लोका नरकगामिनः
विसृज्य कृष्णनामानि कर्म्ममार्गरता नराः ।पुनर्जन्म पुनर्मृत्युं भ्रमन्तः स्युस्ततस्ततः
कृष्णनामानि गायन्ति कुर्व्वन्ति तस्य सेवनम् !ते यान्ति वासुदेवस्य स्थानं परममव्ययम्
वर्णाश्रमस्थिता विप ! हरिनामपरायणाः ।तेषां वक्तुं शक्रोमि महिमानमहं यदि
हित्वा गोविन्दनामानि कर्म्माशेषं करोति यः ।पथमप्राप्य कृष्णस्य भ्रमते कर्म्मवर्त्मनि
मायामोहितचित्तेन पापिष्ठास्ते नराधमाः ।त्यक्त्वा कृष्णस्य नामानि भ्रमन्ते सर्व्वयोनिषु
यदृच्छयाशया नाम शिक्षया यः स्मरेद्धरेः ।सर्व्वाघमुक्तो देवर्षे ! सततं कृष्णनामतः
येन तेन प्रकारेण मुकुन्दनामजल्पकः ।घोराद्भवार्णवात् पूतो मुक्तः कृष्णानामतः ।नामाङ्किकं जनं दृष्ट्वा यस्य श्रद्धा भवेद्धरेः
याति वैष्णवं धाम परमं कृष्णनामतः
दृष्ट्वा प्रमाणं कुर्व्वन्ति हरेर्नामाश्रयं जनम् ।सकलादंहसो मुक्ता मानवाः साधुवज्जनाः
कृष्णानाम सदा नीत्वा विचरेत् कृष्णसन्निधौतथ्यं वदामि ते विप्र ! क्रीतस्तस्य जनार्द्दनः
नीत्वा करोति नामानि श्रोहरेः करतालिकाम् ।विक्रीतोऽहमृतं तस्य वदामि तव नारद !
एकान्ती नाम नीत्वा तु सन्निधौ नर्त्तयेद्धरेः ।सत्यं तस्य हरिः क्रीतो देवतानाञ्च का कथा
ये भावगद्गदा भूत्वा रुदन्त्यच्युतसन्निधौ ।तेषां कृष्णः परिक्रीतो ब्रह्मादीनाञ्च का कथा
ये पतन्त्यवनौ गीत्वा हरेर्नामानि गद्गदाः ।भावेन तेषां गोविन्दः क्रीतो नारद ! नान्यथा
जन्मना ये गृह्णन्ति कृष्णदीक्षां सतो गुरोःतेषां दर्शन कार्य्यं दूरतः परिवर्जयेत्
कदाचित् यो गृह्णाति कृष्णनाम भवामृतम् ।मृतः श्वखरकोलानां तु योनिषु जायते
देवर्षे ! हरिनामानि भवनिस्तारहेतुनि ।न गृह्णीयात्त यो मोहान्मृते स्यात्तदधोगतिः
गुणकर्म्माणि नामानि गृह्णाति यो हरेः ।दर्शनस्पर्शने चैव ध्रुवं तस्य विवर्जयेत्
मनुथजम्म संप्राप्य नामग्रहणं हरेः ।कुर्य्यात् कदापि स्वप्ने वा ह्यदृश्यः नराधमः
ध्यानं सत्ययुगे विष्णोः त्रेतायां यज्ञसाधनम् ।अर्च्चनं द्वापरयुगे हरिनाम कलौ मुने
ध्यानं तपः सत्ययुगे त्रेतायां यज्ञकर्म्म ।द्वापरे पूजनं दानं हरेर्नाम कलौ युगे
कलौ भवार्णवोत्तीर्णो मानवो मुनिपुङ्गव ! ।वर्त्तते यस्य जिह्वाग्रे हरिरित्यक्षरद्वयम्
सर्व्वलोको जितस्तेन कृष्णः प्राप्तः सनातनः ।सकृदुच्चारितं येन हरेर्नाम चिदात्मकम्
फलं नास्य क्षमो वक्तुं सहस्रवदनो विधिः ।जितं तेन जिनं तेन जितं तेनेति निश्चितम् ।वर्त्तते यस्य जिह्वाग्रे हरिरित्यक्षरद्वयम्
सत्यं कलियुगे विप्र ! श्रीहरेर्नाम मङ्गलम् ।परं स्वस्त्ययनं नॄणां नास्त्येव गतिरन्यथा
”इति पाद्मोत्तरखण्डे श्रीकृष्णनाममाहात्म्ये ९८अध्यायः
*
कलौ दशसहस्रवर्षपर्य्यन्तं पृथिव्यांतस्यावस्थितिर्यथा, --“शालग्रामो हरेर्मूर्त्तिर्ज्जगन्नाथश्च भारतम् ।कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम्
वैष्णवाश्च पुराणानि शङ्खानि श्राद्धतर्पणम् ।वेदोक्तानि कर्म्माणि ययुस्तैः सार्द्धमेव
हरिपूजा हरेर्न्नाम तत्कीर्त्तिगुणकीर्त्तनम् ।वेदाङ्गानि शास्त्राणि ययुस्तेः सार्द्धमेव
सत्त्वञ्च धर्म्मः सत्यञ्च वेदाश्च ग्रामदेवताः ।व्रतं तपश्चानशनं ययुस्तैः सार्द्धमेव
वामाचाररताः सर्व्वे मिथ्या कापट्यमेव ।तुलसीवर्ज्जिता पूजा भविष्यन्ति ततः परम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १२ -- १६
तस्य स्वरूपं यथा, --गर्ग उवाच ।“अये नन्द प्रवक्ष्यामि वचनं ते सुखावहम् ।प्रस्थापितोऽहं वसुना येन तत् श्रूयतामिति
वसुना सूतिकागारे शिशुः प्रत्यर्पणीकृतः ।पुत्त्रोऽयं वसुदेवस्य ज्येष्ठस्य तस्य ध्रुवम्
कन्या ते येन नीता मथुरां कंसभीरुणा ।अस्यान्नप्राशनायाहं नामानुकरणाय
गूढेण प्रेषितस्तेन तस्य यागं कुरु व्रज
पूणब्रह्मस्वरूपोऽयं शिशुस्ते मायया महीम् ।आगत्य भारहरणं कर्त्ता धात्रा सेवितः
गोलोकनाथो भगवान् श्रीकृष्णो राधिकापतिःनारायणो यो वैकुण्ठे कमलाकान्त एव
श्वेतद्वीपनिवासो यः पाता विष्णुश्च सोऽप्यजः ।कपिलोऽन्ये तदंशाश्च नरनारायणावृषी
एकीभूय सर्व्वेषां तजसां राशिमूर्त्तिमान् ।तं वसुं दर्शयित्वा शिशुरूपो बभूव
साम्प्रतं सूतिकागारादाजगाम तवालयम् ।अपोनिसम्भवश्चायमाविर्भूतो महोतले
वायुपूर्णं मातृगर्भं कृत्वा मायया हरिः ।आविर्भूय वसुं मूर्त्तिं दर्शयित्वा जगाम
युगे युगे वर्णभेदो नामभेदोऽस्य वल्लव ! ।शुक्लो रक्तस्तया पीत इदानीं कृष्णतां गतः
शुक्लवर्णः सत्ययुगे सुतीव्रतेजमा वृतः ।त्रेतायां रक्तवर्णोऽयं पीतोऽयं द्वापरे विभुः
कृष्णवर्णः कलौ श्रीमांस्तेजसां राशिरेव ।परिपूर्णतमं ब्रह्म तेन कृष्ण इति स्मृतः
*
तस्य कृष्णनाम्नो व्युत्पत्तिर्यथा, --“ब्रह्मणो वाचकः कोऽयमृकारोऽनन्तवाचकः ।शिवस्य वाचकः षश्च णकारो धर्म्म एव
अकारो विष्णोर्व्वचनं श्वेतद्वोपनिवासिनः ।नरतारायणोऽयंस्य विभर्गा वाचकः स्मृतः
सर्व्वेषां तेजसां राशिः सर्व्वमूर्त्तिस्वरूपकः ।सर्व्वाधारः सर्व्व बीजस्तेन कृष्ण इति स्मृतः
कृषिर्निर्व्वाणवचनो णकारो मोक्ष एव ।अकारो दातृवचनस्तेन कृष्ण इति स्मृतः
कृषिर्निश्चेष्टवचनो णकारो भक्तिवाचकः ।अकारो दातृवचनस्तेन कृष्ण इति स्मृतः
कर्म्मनिर्म्मूलवचनः कृषिर्णो दास्यवाचकः ।अकारः प्राप्तिवचनस्तेन कृष्ण इति स्मृताः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ ४५ -- ६२
तस्य नामान्तराणां व्युत्पत्तिर्यथा, --“राम नारायणानन्त मुकुन्द मधुसूदन ।कृष्ण केशव कंसारे हरे वैकुण्ठ वामन
इत्येकादश नामानि पठेद्वा पाठयेद्यदि ।जन्मकोटिसहस्राणां पातकादवमुच्यते
राशब्दो विश्ववचनो मश्चापीश्वरवाचकः ।विश्वानामीश्वरो यो हि तेन रामः प्रकीर्त्तितः
रमते रमया सार्द्धं तेन रामं विदुर्बुधाः ।रमाया रमणस्थानं रामं रामविदो विदुः
रा चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः ।लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः
ताम्नां सहस्रं दिव्यानां स्मरणे यत् फलं भवेत्
तत्फलं लभते नूनं रामोच्चारणमात्रतः
सारूप्यमुक्तिवचनो नारेति विदुर्बुधाः ।यो देवोऽप्ययनं तस्य नारायणः स्मृतः
नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् ।यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः
मकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।गङ्गादिसर्व्वतीर्थेषु स्नातो भवति निश्चितम्
नारञ्च मोक्षणं पुण्यमयजं ज्ञानमीप्सितम् ।तयोर्ज्ञानं भवेद्यस्मात् सोऽयं नारायणः प्रभुः
नास्त्यन्तो यस्य वेदेषु पुराणेषु चतुर्षु ।शास्त्रेष्वन्येषु योगेषु तेनानन्तं विदुर्बुधाः
*
मुकुमव्ययमान्तञ्च निर्व्वाणमोक्षवाचकम् ।तद्ददाति यो देवो मुकुन्दस्तेन कीर्त्तितः
मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् ।यस्तद्ददाति भक्तेभ्यो मुकुन्दस्तेन कीर्त्तितः
*
सूदनं मधुदैत्यस्य यस्मात् मधुसूनः ।इति सन्ता वदन्तीशं वेदैर्भिन्नार्थमीप्सितम्
मधु क्लीवञ्च माध्वीके कृतकर्म्मशुभाशुभे ।भक्तानां कर्म्मणाञ्चैव सूदनं मधुसूदनः
परिणामाशूभं कर्म्म भ्रान्तानां मधुरं मधु ।करोति सूदनं यो हि एव मधुसूदनः
*
कृषिरुत्कृष्टवचनो णश्च सद्भिक्तिवाचकः ।अश्चापि दातृवचनः कृष्णं तेन विदुर्बधाः
कृषिश्च परमानन्दे णश्च तद्दास्यकर्म्मणि ।तयोर्द्दाता यो देवस्तेन कृष्णः प्रकीर्त्तितः
कोटिजन्मार्ज्जिते पापे कृषिः क्लेशे वर्त्तते ।भक्तानां णश्च निर्व्वाणे तेन कृष्णः प्रकीर्त्तितः
नाम्नां सहस्रं दिव्यानां त्रिरावृत्त्या तु यत्फलम् ।एकावृत्त्या तु कृष्णस्य तत् फलं लभते नरः
कृष्णनाम्नः परं नाम भूतं भविष्यति ।सर्व्वेभ्यश्च परं नाम कृष्णेति वैदिका विदुः
कृष्ण कृष्णेति हे गोपि यस्तं स्मरति नित्यशः ।जलं भित्त्वा यथा पद्मं नरकादुद्धरत्ययम्
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते ।भस्मीभवन्ति सद्यस्तु महापातककोटयः
अश्वमेधसहस्रेभ्यः फलं कृष्णजपस्य ।वरं तेभ्यः पुनर्ज्जन्म नातो भक्तः पुनर्भवः
सर्व्वेषामपि यज्ञानां लक्षाणि व्रतानि ।तीर्थस्नानानि सर्व्वाणि तपांस्यनशनानि
वेदपाठसहस्राणि प्रादक्षिण्यं भुवः शतम् ।कृष्णनामजपस्यास्य कलां नाहन्ति षोडशीम्
तेषां भोगाद्भवेत् स्वर्गफलञ्च सुचिरं नृणाम् ।स्वर्गादवश्यं पुंसश्च जपकर्त्तुर्हरेः प्रदम्
*
के जले सर्व्वदेहेऽपि शयनं यस्य चात्मनः ।वदन्ति वैदिकाः सर्व्वे तं देवं केशवं परम्
कंसश्च पातके विघ्ने रोगे शोके दानवे ।तेषामरिर्निहर्त्ता यः कंसारिः प्रकीर्त्तितः
रुद्ररूपेण संहर्त्ता विश्वानामपि नित्यशः ।भक्तानां पालको यो हि हरिस्तेन प्रकीर्त्तितः
कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या ।विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम्
गुणाश्रयेण भगवान् तस्यां जातः स्वसृष्टये ।परिपूर्णतमं तेन वैकुण्ठश्च विदुर्बुधाः *
वामो विपत्तौ नश्छेदे साक्षाद्वेदेषु वर्त्तते ।सुराणां विपदां छेत्ता वामनस्तेन कीर्त्तितः
एवं नाम्नाञ्च सर्व्वेषां व्युत्पत्तिश्च श्रुतौ श्रुता ।यथागमञ्च कथितं सर्व्वं जानाति माधवः
*
यशोदावाच ।वासुदेवश्च गोविन्दो मुरारिर्माघवस्तथा ।नाम्नां चतुर्णां व्युत्पत्तिं वद चान्यच्च तिष्ठतु
राधिकोवाच ।वसुः सर्व्वनिवासश्च विश्वानि यस्य लोमसु ।स देवः परं ब्रह्म वासुदेव इति स्मृतः
गाञ्च विश्वसमूहञ्च विन्दते योऽवलीलया ।ज्ञानसिन्धुसमूहञ्च मोविन्दस्तेन कीर्त्ततः
मुरः क्लेशे सन्तापे कर्म्मभोगे कर्म्मिणाम् ।दैत्यभेदेऽप्यरिस्तेषां मुरारिस्तेन कीर्त्तितः
मा ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी ।नारायणीति विख्याता विष्णुमाया सनातनी
महालक्ष्मीस्वरूपा वेदमाता सरस्वती ।राधा वसुन्धरा गङ्गा तासां स्वामी माधवः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ।१९ -- ५२
५५--६०
तस्य भूषणास्त्रस्वरूपंयथा, --श्रीमैत्रेय उवाच ।“भूषणास्त्रस्वरूपेण यथैतदखिलं जगत् ।बिभर्त्ति भगवान् विष्णुस्तन्ममाख्यातुमर्हसि
श्रीपराशर उवाच ।नमस्कृत्याप्रमेयाय विष्णवे प्रभविष्णवे ।कथयामि यथाख्यातं वशिष्ठेन ममाभवत्
आत्मानमस्य जगतो निर्लेपमगुणामलम् ।बिभर्त्ति कौस्तुभमणिस्वरूपं भगवान् हरिः
श्रीवत्ससंस्थानधरमनन्ते समाश्रितम् ।प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे
भूतादिमिन्द्रियादींश्च द्विधाहङ्कारमीश्वरः ।बिभर्त्ति शङ्खरूपेण शार्ङ्गरूपेण स्थितम्
बलस्वरूपमत्यन्तजवेनान्तरितानिलम् ।चक्रस्वरूपञ्च मनो धत्ते विष्णुः करस्थितम्
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।सा भूतहेतुसंघातो भूतमाला वै द्विज
यानीन्द्रियाण्यशेषाणि बुद्धिकर्म्मात्मकानि वै ।शररूपाण्यशेषाणि तानि धत्ते जनार्द्दनः
बिभर्त्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्म्मलम् ।विद्यामयन्तु तज्ज्ञानमविद्याचर्म्मसंस्थितम्
इत्थं पुमान् प्रधानञ्च बुद्ध्यहङ्कारमेव ।भूतानि हृषीकेशे मनः सर्व्वेन्द्रियाणि ।विद्याविद्ये मैत्रेय सर्व्वमेतत् समाश्रितम्
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्ज्जितः ।बिभर्त्ति मायारूपोऽसौ श्रेयसे प्राणिनां हरिः
सविकारं प्रधानं यत् पुमांश्चैवाखिलं जगत् ।बिभर्त्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः
या विद्या या तथाविद्या यत् यच्चासदव्य-यम् ।तत् सर्व्वं सर्व्वभूतेशे मैत्रेय मधुसूदने
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।कालस्वरूपो भगवानपरो हरिरव्ययः
भूर्लोकोऽथ भुवर्लोकः स्वर्लोको मुनिसत्तम ! ।महर्जनस्तपः सत्यः सप्त लोका इमे विभुः
लोकात्ममूर्त्तिः सर्व्वेषां पूर्व्वेषामपि पूर्व्वजः ।आधारः सर्व्वविद्यानां स्वयमेव हरिः स्थितः
देवमानुषपश्वादिस्वरूपैर्ब्बहुभिर्विभुः ।स्थितः सर्वेश्वरोऽनन्तो भूतमूर्त्तिरमूर्त्तिमान् ।ऋचो यजूंषि सामानि तथैवाथर्व्वणानि ।इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः
वेदाङ्गानि समस्तानि मन्वादिगदितानि ।शास्त्राण्यशेषाण्याख्यानान्यनुवादाश्च येक्वचित्
काव्यालापाश्च ये केचित् गीतकान्यखिलानि चसर्व्वर्मूर्त्तिधरस्यैते वपुर्विष्णोर्महात्मनः
यान्यमूर्त्तानि मूर्त्तानि यान्यत्रान्यत्र वा क्वचित् ।सन्ति वै वस्तुजातानि तानि सर्व्वाणि तद्वपुः
”इति विष्णुपुणे अंशे २२ अध्यायः
*
हरि सान्निध्यस्थानानि यथा, --भरद्वाज उवाच ।“केषु केषु विभो नित्यं स्थानेषु पुरुषोत्तम ! ।सान्निध्यं भवतो ब्रूहि ज्ञातुमिच्छामि तत्त्वतः
वामन उवाच ।श्रूयतां कथमिष्यामि येषु येषु गुरो ह्यहम् ।निवसामि सुपुण्येषु स्थानेषु बहुरूपवान्
ममावतारैहुर्ब्बधा नभःस्थलंपातालमम्भोनिचयं दिवञ्च ।दिशः समस्ता गिरयोऽम्बुदाश्चव्याप्ता भरद्वाज ममानुरूपैः
ये दिव्या ये भौमा जलगगनचरा स्थावरायेऽत्र विश्वेसेन्द्राः सार्काः सचन्द्रा यमवसुवरुणाः साग्नयःसर्व्वपालाः ।ब्रह्माद्याः स्थावरान्ता द्विजखगसहिता मूर्त्ति-मन्तो ह्यमूर्त्ता-स्ते सर्व्वे मत्प्रसूता बहुविविधगुणाः पूरणार्थंपृथिव्याः
एते हि मुख्याः सुरसिद्धदानवैःपूज्यास्तथा सन्निहिता महीतले ।यैर्द्दृष्टमात्रैः सहसैव नाशंप्रयाति पापं द्विजवर्य्य कीर्त्तितैः
”इति वामने ८५ अध्यायः
*
आप ।श्रीभगवानुवाच ।आद्यं मत्स्यं महद्रूपं संस्थितं मानसे ह्रदे ।गर्व्वपापक्षयकरं कीर्त्तनस्पर्शनादिभिः
कौर्म्ममन्यत् सन्निधानं कौशिक्यां पापनाशनम् ।हयग्रीवञ्च कृष्णाङ्गे गोविन्दं हास्तिने पुरे
त्रिविक्रमञ्च कालिन्द्यां लिङ्गभेदे भवं विभुम् ।केदारे माधवं शौचं कुब्जाम्रे कृष्णमूर्द्धजम्
नारायणं वदर्य्याञ्च वाराहे गरुडासनम् ।जयेशं रुद्रकर्णे विपाशायां द्विजप्रियम्
कृतशौचे नृसिंहञ्च गोकर्णे विश्वकर्म्मिणम् ।प्राचीने कामपालञ्च पुण्डरीकं महाम्भसि
विशाखये ह्यजितं हंसं हंसपदे तथा ।पयोष्ण्याञ्च तमः खण्डं वितस्तायां स्वरूविलम्
मणिमत्पर्व्वते ब्रह्मन् ! ब्रह्माणञ्च प्रजापतिम् ।मधुनद्यां चक्रधरं शूलबाहुं हिमाचले
विद्धि विष्णुं मुनिश्रेष्ठ स्थितमौषधसद्मनि ।भृगुतुङ्गे सुवर्णाख्यं नैषधे प्रीतवाससम्
गयायां गोपतिं देवं गदापाणिनमोश्वरम् ।त्रैलोक्यनाथं वरदं गोप्रभावे कुशेशयम्
अर्द्धनारीश्वरं पुण्ये महेन्द्रे दक्षिणे गिरौ ।गोपालमुत्तरे नित्यं महेन्द्रे सोमपिण्डिनम्
वैकुण्ठमपि सह्याद्रौ पारिपात्रे पराजितम् ।कशेरुदेशे देवेशं विश्वरूपं तपोधन !
मलयाद्रौ सौगन्धिं बिन्ध्यपादे सदाशिवम् ।अवन्तिविषये विष्णुं निषेधेष्वमरेश्वरम्
पाञ्चालिकञ्च ब्रह्मर्षे पञ्चालेषु व्यवस्थितम् ।महोदये हयग्रीवं प्रयागे योगशायिनम्
स्वयम्भुवं मधुवने अयोगन्धिञ्च पुष्करे ।तथैव विप्रपवर वाराणस्याञ्च केशवम्
अविमुक्तकमत्रैव लोलश्चात्रैव गीयते ।पक्षायां पद्मकिरणं समुद्रे वडवामुखम्
कुमारवने वाह्लीशं कार्त्तिकेयञ्च बर्हिणम् ।यज्ञेशं शम्भुमनघं स्थाणुञ्च कुरुजाङ्गले
वनमालिनमाहुर्म्मां किष्किन्धावासिनो जनाः ।वीरं कुवलयारूढं शङ्खचक्रगदाधरम्
श्रीवत्साङ्कमुदाराङ्गं नर्म्मदायां श्रियः पतिम् ।माहिष्मत्यां त्रिनयनं तत्रैव हुताशनम्
अर्व्वुदेषु त्रिसौपर्णं क्ष्माधरं शूकराचले ।त्रिणाचिकेतं ब्रह्मर्षे प्रभासेषु कपर्द्दिनम्
तथैवात्रापि विख्यातं तृतीयं शशिशेखरम् ।उदये शशिनं सूर्य्यं ध्रुवञ्च त्रितयं स्थितम्
मन्दरे यज्ञपुरुषं स्कन्दं शरवणे स्थितम् ।महालये स्मृतं रुद्रं चत्वरेषु कुरुष्वथ
पद्मनाभं मुनिश्रेष्ठ सर्व्वसौख्यप्रदायकम् ।सप्तगोदावरे ब्रह्मन् विख्यातं हाटकेश्वरम्
तत्रैव महावासं प्रयागेऽपि वटेश्वरम् ।भल्लीवने महायोगं मद्रेषु पुरुषोत्तमम्
प्लक्षावतरणे श्रीमत्श्रीनिवासं द्विजोत्तमम् ।सूर्पारके चतुर्ब्बाहुं मगधायां सुधापतिम्
गिरिव्रजे पशुपतिं श्रीकण्ठं यमुनातटे ।वनस्पतिं समाख्यातं दण्डकारण्यवासिना
कालञ्जरे नीलकण्ठं शरय्वां शम्भुमुत्तमम् ।हंसयुक्तं महाकौश्यां सर्व्वपापप्रणाशनम्
गोकर्णे दक्षिणे सर्व्वं वासुदेवं प्रजामुखे ।बिन्ध्यशृङ्गे महासौरिं कथायां मधुसूदनम्
त्रिकूटशिखरे ब्रह्मंश्चक्रमाणिनमीश्वरम् ।लौहदण्डे हृषीकेशं कौशलायां मनोहरम्
महाबाहुं सुराष्ट्रे नवराष्ट्रे यशोधरम् ।भूधरं देविकानद्यां महोदायां कुशप्रियम्
गोमत्यां छादितगदं शङ्कोद्धारे शङ्खिनम् ।सुनेत्रं सैन्धवारण्ये शूरं शूरपुरे स्थितम्
भद्राक्षञ्च हिरण्वत्यां वीरभद्रं त्रिपिष्टपे ।शङ्कुकर्णञ्च भीमायां भीमं शालवने विदुः ।विश्वामित्रञ्च गदितं कैलासे वृषभध्वजम् ।महेशं महिलाशैले कामरूपे शशिप्रभम्
वडभ्यामपि गोमित्रं पटहे पङ्कजप्रियम् ।उपेन्द्रं सिंहलद्वीपे शक्राख्ये कुन्दमालिनम्
रसातले विख्यातं सहस्रशिरसं मुने ! ।कालाग्निरुद्रं तत्रैव तथान्यं कीर्त्तिवाससम्
सुतले कूर्म्ममचलं वितले पङ्कजासनम् ।महातले गुरो ख्यातं देवेशं छागलेश्वरम्
तले सहस्रचरणं सहस्रभुजमीश्वरम् ।सहस्राक्षं परिख्यातं मुषलाकृष्टदानवम्
पाताले योगिनामीशं स्थितञ्च हरिशङ्करम् ।धरातले कोकनदं मेदिन्याञ्चक्रपाणिनम्
भुवर्लौके गरुडं स्वर्लोके विष्णुमव्ययम् ।मर्त्त्यलोके तथागस्त्यं कपिलञ्च जले स्थितम्
तपोलोके स्थितं ब्रह्मन् ! वाङ्मयं सत्यसंयुतम् ।ब्रह्माणं ब्रह्मलोके तु सप्तमे वै प्रतिष्ठितम्
सनातनं तथा शैवे परं ब्रह्म वैष्णवे ।अप्रतर्क्यं निरालम्बे निराकाशे तपोमयम्
जम्बद्वीपे चतुर्ब्बाहुं कुशद्वीपे कुशेशयम् ।प्लक्षद्वीपे मुनिश्रेष्ठ ख्यातं गरुडवाहनम्
पद्मनाभं तथा क्रौञ्चे शाल्मले वृषभध्वजम् ।सहस्रांशुः स्थितः शाके धनराट् पुष्करे स्थितः
तथा पृथिव्यां ब्रह्मर्षे ! शालग्रामे स्थितोऽस्म्य-हम् ।सजलस्थलपर्य्यन्तं चरेषु स्थावरेषु
एतानि पुण्यानि ममालयानिब्रह्मन् पुराणानि सनातनानि ।धर्म्मप्रधानानि महौजसानिसंकीर्त्तनीयान्यघनाशनानि
सङ्कीर्त्तनात् स्मरणाद्दर्शनाच्चसंस्पर्शनादेव देवताद्याः ।धर्म्मार्थकामान्यपवर्गमेवलभन्ति दैत्या मनुजाः ससाध्याः ।एतानि तुभ्यं विनिवेदितानिममालयानीह स्वनिष्ठितानि
”इति वामनपुराणे स्वस्थानोक्तिर्न्नाम ८६ अः
हरिहरयोरभेदो यथा, --“या श्रीः सा गिरिजा प्रोक्ता यो हरिः सत्रिलोचनः ।एवं सर्व्वेषु शास्त्रेषु पुराणेषु पठ्यते
एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक् तया ।तं नास्तिकं विजानीयात् सर्व्वधर्म्मबहिष्कृतम् ।इति वाराहे सौभाग्यव्रतनामाध्ययः
*
ब्रह्मविष्णुमहेश्वरणामेकत्वं सत्त्वादिरूपञ्चयथा, --महेश्वर उवाच ।“नारायणः परो देवः सत्त्वरूपो जनार्दनः ।त्रिधात्मानं भगवान् ससर्ज परमेश्वरः
रजस्तमोभ्यां युक्तोऽभूद्रजःसत्त्वाधिकं विभुः ।ससर्ज नाभिकमलात् ब्रह्माणं कमलासनम्
रजसा तमसा युक्तं सोऽपि मां त्वसृजत् प्रभुः ।यत् सत्त्वं हरिर्देवो यो हरिस्तत् परं पदम्
ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसम्भवः ।यो ब्रह्मा सैव देवस्तु यो देवः चतुर्म्मुखः
यद्रजस्तमसोपेतं सोऽयं नास्त्यत्र संशयः ।सत्त्वं रजस्तमश्चैव तृतीयं चैतदुच्यते
सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।न तस्मात् परतो देवो भविता भविष्यति
यो विष्णुः स्वयं ब्रह्मा यो ब्रह्मा सोऽह-मेव ।वेदत्रयेऽपि यज्ञेऽस्मिन् पण्डितेष्वेष निश्चयः
यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम ।स पापकारी दुष्टात्मा दुर्गतिं समवप्नुयात्
इति तत्रेव रुद्रगीतानामाध्यः
*
तद्गुणा यथा, --“ब्रह्मादयः सुराः सर्व्वेये चान्ये देवदानवाः ।मनुष्याः पक्षिवृक्षाद्याः सर्व्वे तद्ब्रह्मसंभवा
तत्र योऽसौ परो देवो व्यापदो मुनिमत्तम ।निर्लक्षो ह्यचलः सूक्ष्मः कारणैः परिवर्जितः
अनौपम्यस्त्वनिर्देश्यो ह्यक्षरादक्षरं परम् ।निष्प्रपञ्चो निरालम्बो विषयातीतगोचरः
सर्व्वज्ञः सर्व्वकर्त्ता प्रत्यज्ञं सर्व्वदाक्षरम् ।अनामा नामकोटीनां गीयते तदने कधा
अगम्यमथवा गम्यमदृश्यं दृश्यमेव ।अस्वरं स्वरसंयुक्तमघोषं घोषरूपकम्
सकलं निष्कलं चैव निर्म्मलं मलसंयुतम् ।हरिमेतद्गुणैर्युक्तं मया ते परिकीर्त्तितम्
*
मरीचिरुवाच ।अक्षयं चाव्ययं चैव यद्वह्ने ते प्रकीर्त्तितम् ।कथं तस्य विनाशोऽस्ति सर्व्वज्ञः केन हेतुना
अगम्यं कीर्त्तितं वह्ने गम्यं चैव कथं भवेत् ।अवर्णञ्च समाख्यातं वर्णयुक्तं हि कारणम्
अस्वरं स्वरसंयुक्तं कथं तद्गम्यते हरिः ।अप्रमाणं त्वया प्रोक्तं प्रमाणञ्च कथं भवेत्
अनादेस्तु कयं चादिर्लभ्यते किं विभावसो ।कथयस्वविशेषेण येन सम्पद्यते सुखम्
*
वह्निरुवाच ।स्थावरं जङ्गमञ्चैव अण्डजं स्वेदजं तथा ।विनश्यन्तीह भूतानि विनाशी तेन कथ्यते
अगम्यमप्रबुद्धानां कामाद्यासक्तचेतसाम् ।स्वकर्म्मविनिवृत्तानां गम्यं तच्छुभकर्म्मणा
ज्ञानचक्षुर्विहीनानामदृश्यं सर्व्वजन्तुषु ।ज्ञानचक्षुःसमायुक्ताः ख्यितं पश्यन्ति नित्यशः
अन्धकारे यथा दीपो दर्शयेत् गृहमेधिनाम् ।विद्याचक्षुस्तथा विप्रो दर्शयेत् परमं पदम्
ये नरा वेद सिद्धान्तैर्ब्बोधिता गुरुणा ये ।अनेकरूपसंयुक्तं पश्यन्ति परमेश्वरम्
ये स्वकर्म्मतपोहीनविषयासक्तचेतसः ।वर्णरूपं जानन्ति वेदसिद्धान्तवर्जिताः ।भ्रान्तिं पश्यन्ति सर्व्वत्र सविकल्पाश्च मानवाः
जीवाख्यं वर्णनिर्मुक्तं शून्यसंज्ञन्तु कथ्य ते
यदा वर्णसमायुक्तस्तदा वर्णस्तु जायते
स्वरं तु गृह्णते यावत्तावद्घोषस्तु कीर्त्त्यते ।बिन्दुहीनस्तु निर्घोषो निराकारः एव तु
यदा सृजति भूतानि प्रकृतिस्थो हरिः स्वयम् ।तावत् कर्त्ता वै ज्ञेयः कर्त्ता प्रकृतिवर्जितः
नासारन्ध्रेण निर्याति अङ्गुलानि दशद्वयम्
निर्म्मलः विभुर्ज्ञेयः समलो देहवर्द्धितः
अप्रमाणं भवेत्तावत् यावत् शास्त्रं विन्दति ।शास्त्रज्ञानमधीते यः प्रमाणं तस्य लभ्यते
तेन सर्व्वमिदं विश्वं व्यापितं सचराचरम् ।सूक्ष्मः सर्व्वगतस्तृप्तो लक्षणोपायवर्ज्जितः
”इत्याद्ये वह्निपुराणे सर्गकथननामाध्यायः
*
पूजितविष्णुदर्शनादिफलं वह्निपुराणे शुद्धिव्रत-नामाध्याये क्रियायोगनामाध्याये द्रष्टव्यम् ।तस्य यमाष्टकस्तोत्रं नृसिंहपुराणे अध्यायेतत्पूजायां द्रव्यविशेषदानफलञ्च तत्रैव ३२अध्याये द्रष्टव्यम्
*
शिवस्य हरेराराधन-प्रमाणं यथा, --ब्रह्मोवाच ।“अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह ।तत्र दृष्टो महारुद्रो ध्यायमानः परं पदम्
पृष्टो नमस्कृतो देवः किं त्वं ध्यायसि शङ्कर ।त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ।सारात् सारतरं तत्त्वं श्रोतुकामः सुरैः सह
रुद्र उवाच ।अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ।सर्व्वगं सर्व्वदं सर्व्वं सर्व्वप्राणिहृदि स्थितम्
भस्मोद्धूनितदेहस्तु जटामण्डलमण्डितः ।विष्णोराराधनार्थं मे व्रतचर्य्या पितामह
तमेव गत्वा पृच्छामः सारं यच्चिन्तयास्यहम् ।विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्ज्जितम्
शुचिं शुचिपदं हंसं तत्परं परमेश्वरम् ।युक्त्वा सर्व्वात्मनात्मानं तं देवं चिन्तयाम्यहम्
यस्मिन् विश्वानि भूतानि तिष्ठन्ति विशन्तिच ।गुणभूतानि भूतेशे सूत्रे मणिगणा इव
सहस्राक्षं सहस्राङ्घ्रिं सहस्रोरुकराननम् ।अणीयसामणीयांसं स्थविरञ्च स्थवीयसाम्
गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ।यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु
गृणन्ति सत्यकर्म्माणं सत्यं सत्येषु साममु ।पुराणे पुरुषः प्रोक्तो ब्रह्म प्रोक्तो द्विजादिषु
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ।यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा
ऋतमेकाक्षरं ब्रह्म यत्तत् सदसतः परम् ।अर्च्चयन्ति यं देवा यक्षराक्षसकिन्नराः
यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौक्षितिः ।चन्द्रादित्यौ नयने तं देवं चिन्तयास्यहम्
यस्य त्रिलोकौ जठरे यस्य काष्ठाः सुबाहवः ।यस्योच्छासश्च पवनस्तं देवं चिन्तयाम्यहम्
यस्य कुशेषु जीमूता नद्यः सर्व्वाङ्गसन्धिषु ।कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम्
परः कालात् परो यज्ञात् परः सदमदश्च यः ।अनादिरादिर्विश्वस्य तं देवं चिन्तय म्यहम्
मनसश्चन्द्रमा यस्य चक्षुषश्च दिवाकरः ।मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम्
पद्भ्यां यस्य क्षितिर्ज्जाता श्रोत्राभ्याञ्च तथादिशः ।मूर्द्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि ।वंशानुचरितं यस्मात् तं देवं चिन्तयाम्यहम्
यं तं ध्यायाम्यहं यस्माद्व्रजामः सार-मीक्षितुम्
”इति गारुडे -- २७
तद्भक्तिर्यथा, --सूत उवाच ।“विष्णुभक्तिं प्रवक्ष्यामि यया सर्व्वमवाप्यते ।यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित्
महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः ।जीवितस्य फलं स्वादु ददाति स्मरणं हरेः ।भज इत्येष बै धातुः सेवायां परिकीर्त्तितः ।तस्मात् सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी
ते भक्ता लोकनाथस्य नामकर्म्मादिकीर्त्तने ।मुञ्चन्त्यश्रूणि संहर्षात् ये हृष्टतनूरुहा
जगद्धातुर्महेशस्य दिव्याज्ञाचरणाव्ययाः ।इह नित्यक्रियाः कुर्य्युः स्निग्धा ये वैष्णवास्तु ते
प्रणामपूर्व्वकं क्षान्त्या यो वदेत् वैष्णवो हि सः ।तद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम्
तत्कथाश्रवणे प्रीतिः स्वरनेत्राङ्गविक्रिया ।येन सर्व्वात्मना विष्णौ भक्त्या भावो निवेशितः
विप्रेष्वीश्वरदृष्टिश्च महाभागवतो हि सः ।विष्णोश्च कारणं नित्यं तदन्नं दम्भवर्ज्जितम्
स्वयमभ्यर्च्चनञ्चैव यो विष्णुं वोपजीवति ।भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते
विप्रेन्द्रो मुनिः श्रीमान् जातः चपण्डितः ।तस्मै देयं ततो ग्राह्यं पूज्यो यथा हरिः
स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः ।पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया
प्रणताय प्रपन्नाय तवास्मीति यो वदेत् ।अभयं सर्व्वभूतेभ्यो दद्यादेतद्व्रतं हरेः
मन्त्रयाजिसहस्रेभ्यः सर्व्ववेदान्तपारगाः !सर्व्ववेदान्तवित्कोट्या विष्णुभक्तो विशिष्यते
ऐकान्तिकाश्च पुरुषाः गच्छन्ति परमं पदम् ।ऐकान्तिना समो विष्णुर्यस्मादेषां परायणः ।तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ।प्रियाणामपि सर्व्वेषां देवदेवस्य प्रियः ।आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी ।या प्रीतिरविवेकानां विषयेष्वनपायिनी ।विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पतु
अन्तर्गतोऽपि वेदानां सर्व्वशास्त्रार्थवेद्यपि ।यो सर्वेश्वरे भक्तस्तं विद्यात् पुरुषाधमम्
नाधीतवेदशास्त्रोऽपि कृतं चापसव्यवत् ।यो भक्तिं वहते विष्णौ तेन सर्व्वं कृतं भवेत्
यज्ञानां क्रतुमुख्यानां सर्व्वेषां पारगा अपि ।न तां यान्ति गतिं भक्त्या यां यान्ति मुनिसत्तम
यः कश्चित् वैष्णवो लोके मिथ्याचारोऽप्यना-श्रमी ।पुनाति सकलान् लोकान् सहस्रांशुरिवोदितः
ये नृ शसा दुरात्मानः पापाचाररतास्तथा ।तेऽपि यान्ति परं स्थानं नारायणपरायणाः
दृढा जनार्द्दने भक्तिर्यदैवाव्यभिचारिणी ।तदा कियत् स्वर्गसुखं सैव निर्व्वाणहैतुकी
भ्राम्यतां तत्र संसारे नराणां कर्म्मदुगमे ।हस्तावलम्बनो ह्येको भक्तितुष्टो जनार्द्दनः
शृणोति गुणान् दिव्यान् देवदेवस्य चक्रिणःस नरो वधिरो क्षेयः सर्व्वधर्म्मबहिष्कृतः
नाम्नि संकोर्त्तिते विष्णोर्यस्य पुंसो जायते ।शरीरं पुलकोद्भासि तद्भवेत् कुणपोपसम्
यस्मिन् स्मृते द्विजश्रेष्ठ ! मुक्तिरप्यचिराद्भवेत् ।विष्णौ निविष्टमनसां किं पुनर्वृजिनक्षयः
स्वपुरुषमभिवोक्ष्य पाशहस्तंवदति यमः किल तस्य कर्णमूले ।परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणां वैष्णवानाम्
अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।साधुरेव मन्तव्यः सम्यग्व्यवसितो हि सः
क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं नियच्छति ।विप्रेन्द्र ! प्रतिजानीहि विष्णुभक्तो नश्यति
धर्म्मार्थकामैः किन्तस्य मुक्तिस्तस्य करे स्थिता ।समस्तजगतां मूले यस्य भक्तिः स्थिरा हरौ
दैवी ह्येषा गुणमयी हरेर्म्माया दुरत्यया ।तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते
कियदाराधने पुसां शिष्यते हरिमेधसः ।भक्त्यैवाराध्यते विष्णुर्नान्यं तत्रोपकारकम्
दानैर्व्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।कदाचित् केशवे भक्तिस्तद्भक्तैर्व्वा समागमः
पत्रेषु पुष्पेषु फलेषु सत्सुतोयेषु लभ्येषु सदैव सत्सु ।भक्त्यै कलभ्ये पुरुषे पुराणेमुक्त्यै कथं नु क्रियते प्रयत्नः
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः ।वैष्णवोऽस्मत्मकुले जातः नः सन्तारयिष्यति ।अज्ञानिनः सुरवरं समधिक्षिपन्तिये पापिनोऽपि शिशुपालसुयोधनाद्याः ।मुक्तिं गताः स्मरणमात्रविधूतपापःकः संशयः परमभक्तिमतां जनानाम्
शरणं तं प्रपन्ना ये ध्यानयोगविवर्ज्जिताः ।तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्
भवोद्भवक्लेशशताहतस्तथापरिभ्रमन्निन्द्रियबन्धकैः पथैः ।नियम्यतां माधव ! मे मनोहय-स्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने
विष्णुरेव पर ब्रह्म ह्यभेद इह पट्यते ।वेदसिद्धान्तमार्गेषु तं जानन्ति मोहिताः
वसति हृदि सनातने तस्मिन्भवति पुमान् जगतोऽस्य सौम्यरूपः ।क्षितिपसुमतिरम्यमात्मनोऽन्तःकथयति चारुतयैवमालपते
”इति गारुडे भगवद्भक्तिः २३१ अध्यायः
*
तस्य नमस्कारादिकं तत्रैव २३२ २३३ २३४अध्यायेषु द्रष्टव्यम्
*
तस्य द्वादशमासकृत्यंयथा, --“मासकृत्यं प्रवक्ष्यामि विष्णोः प्रीतिकरं परम् ।ज्यैष्ठे तु स्नापनं कुर्य्यात् श्रीविष्णोः स्नानवासरे
दैनन्दिनन्तु दुरितं पक्षमासाहवर्षजम् ।ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि
स्वर्णस्तेयसुरापानगुरुतल्पायुतानि ।कोटिकोटिसहस्राणि ह्युपपापानि यानि
सर्व्वाण्यपि प्रणश्यन्ति पौर्णमास्यान्तु वासरे ।अभिषिञ्चेच्च तन्मूर्द्ध्नि तदेतत् कलसोदकम्
पुरुषसूक्तेन मन्त्रेण पावमानी ऋचा तथा ।नारिकेलोदकेनाथ तथा तालफलाम्बुना
रत्नोदकेन गन्धेन तथा पुष्पोदकेन ।पञ्चोपचारैराराध्य यथाविभवविस्तरैः
घं घण्टायै नम इति घण्टावाद्यं निवेदयेत्
पादे तस्य महाध्वानं ध्वस्तपातकपञ्चके ।पाहि मां पापिनं घोरं संसारार्णवपातितम्
एवं कुरुते विद्वान् ब्राह्मणः श्रोत्रियः शुचिः ।सर्व्वपापैः प्रमुच्येत विष्णुलोकं गच्छति
आषाढशुक्लै कादश्यां कुर्य्यात् स्वापमहोत्सवम् ।आषाढे रथं कुर्य्यात् श्रावणे श्रवणा-विधिम्
भाद्रे जन्मदिवसे उपवासपरो भवेत् ।प्रसुप्तञ्च पारिवर्त्तमाश्विने मासि कारयेत्
उत्थानञ्च हरेः कुर्य्यादन्यथा विष्णुद्रोहकृत् ।शुभे चैवाश्विने मासि महामायां प्रपूजयेत्
कार्त्तिके मासि यत् कृत्यं शृणु देवि वरानने ! ।सप्तवर्त्याः प्रमाणेन दीपः स्याच्चतुरङ्गुलः
पक्षान्ते प्रकर्त्तव्या दीपमालावलिः शुभा
मार्गशीर्षे सिते पक्षे षष्ठ्याञ्च सितवस्त्रकैः ।पूजयेज्जगदीशञ्च तूलवस्त्रैर्विशेषतः
पौषे पुण्याभिषेकञ्च वर्ज्जयेच्चन्दनं यथा
संक्रान्त्यां माघमासे साधिवासिततण्डुलान् ।निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत्
जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! ।त्वन्मायालीनतां प्राप्ता त्वयैव जनिता प्रभो !
कर्पूराकृतिद्रव्याणि घृताक्तानि निवेदयेत् ।ब्राह्मणान् भोजयेद्भक्त्या देवदेवपुरस्थितान्
अभ्यर्च्य भगवद्भक्त्या द्विजांश्च भगवद्धिया ।एकस्मिन् भोजिते भक्ते कोटिर्भवति भक्तितः ।विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेत् ध्रुवम्
पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा केशवम् ।पूजयेद्भगवद्भक्त्या चूतपल्लवसम्मितैः
फल्गुचूर्णैश्च विविधैर्व्वासितैः पटवासितैः ।काननं रमणीयञ्च प्रदीप्तदीपदीपितम्
द्राक्षेक्षुरम्भाजम्वीरनागरङ्गकपूगकम् ।नारिकेलञ्च धात्री वंशतालहरीतकी
अन्यैश्च वृक्षषण्डैश्च सर्व्वर्त्तुकुसुमाचितम् ।पुष्पैश्च विविधैश्चैव फलपुष्पसमन्वितम्
वितानैः कुसुमोद्यानैर्व्वारिपूर्णघटैस्तथा ।चूतशाखोपशाखाभिः शोभितं छत्रचामरैः
विशेषतः कलियुगे दोलोत्सवो विधीयते ।फाल्गुने चतुर्द्दश्यामष्टमे यामसंज्ञके
अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ ।पूजयेद्विधिवद्भक्त्या फल्गुचूर्णैश्चतुर्व्विधैः
सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः ।हरिद्राक्षारयोगाच्च रङ्गरम्यैर्म्मनोहरैः
अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम्
एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत्
पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते ।दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः
दृष्ट्वावराधनिचयैर्म्मुक्तास्तु नात्र संशयः
१०
निःक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते ।सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा
तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् ।प्रत्यहं मां महाभागे तस्य पुण्यं गण्यते
दमनारोपणं कृत्वा श्रीविष्णौ समर्पयेत् ।वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम्
११
वैशाखे तृतीयायां जलमध्ये विशेषतः ।अथवा मण्डपे कुर्य्यात् मण्डले वा वृहद्ध्वुजे
सुगन्धचन्दनेनाङ्गं सुपुष्टाङ्गो दिने दिने ।यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः
चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना ।जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा ।एतैर्गन्धयुतैश्चापि अङ्गानि विलेपयेत्
घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।अथवा केशरैर्योज्यं हरिचन्दनमच्युते
अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः ।न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
सुगन्धिमिश्रितैस्तोयेः स्नापयित्वा जगद्-गुरुम् ।अथवा पुष्पमध्यं स्थापयेज्जगदीश्वरम्
वृन्दावनं तत्र कृत्वा उपस्कृतफलानि ।विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः
नारिकेलं फलं नीर कोषञ्चोद्धृत्य दापयेत् ।कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते
यथा पचेत्तथा दद्याद्यथाशक्तिनियोगतः ।दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत्
पाचितं पिष्टकं धातुरष्टादश घृतेन ।तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत्
यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ।दत्त्वा नैवेद्यवस्त्रत्तादीन्नाददीत कथञ्चन
त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ।इति ते कथितं किञ्चित् समासेन महेश्वरि ! ।गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति !
१२
श्रीकृष्णरूपगुणवर्णनशांस्त्रवर्गेबोधाधिकार इह चेदलमन्यपारैः ।तत्प्रेमभावबलभक्तिविलासनाम-हासेषु चेद्यदि रतिः किमु कामिनीभिः
तञ्चेतसा विभजतां व्रजबालकेन्द्रवृन्दावनं क्षितितलं यमुनाजलञ्च ।तल्लोकनाथपद पङ्कजधूलिभिश्चे-ल्लिप्तं वपुः किल वृथागुरुचन्दनाद्यैः
”इति पाद्मे पातालखण्डे १२ अध्यायः
हरिः, त्रि, (हरति नेत्रदुःखमिति हृ + इन् ।)पिङ्गलवर्णः हरिद्वर्णः इति मेदिनी
(यथारघुः ४३ ।“शतैस्तमक्ष्णामनिमेषवृत्तिभि-र्हरिं विदित्वा हरिभिश्च वाजिभिःअवोचदेनं गगनस्पृशा रघुःस्वरेण धीरेण निवर्त्तयन्निव
”)पीतवर्णः इत्यनेकार्थकोषः
कृदन्तरूपमाला
Sanskrit
1 {@“शकॢ शक्तौ”@} 2 ‘शङ्कते शकि शङ्कायां शक्तौ शक्नोति मर्षणे।’ 3 इति देवः।
‘शकॢञ्--’ इति काशकृत्स्नः।
‘उभयपदी’ इति कातन्त्रशाकटायन- वोपदेवादयः।
शाककः-किका, शाककः-किका, शिशक्षकः-क्षिका, शाशककः-शिका
शक्ता-त्री, शाकयिता-त्री, शिशक्षिता-त्री, शाशकिता-त्री
शक्नुवन्-ती, शाकयन्-न्ती, शाकयमानः, 4 शिक्षमाणः, शाशक्यमानः
शक्तम्-क्तः, शक्तवान्, शकितः, हरिः द्रष्टुं शकितः, शक्तो वा, शाकितः, शिक्षितः, शाशकितः-तवन्
5 इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकशक्यतिवत् 6 ज्ञेयानि।
शक्यम्, 7 शक्नुवानः, शक्तिः, 8 शका, 9 शेकिवान्, 10 शकः 11, शक्तिः, 12 शाकः, शकटम्, शकृत्, शक्वा-शक्वरी, शक्या, शक्रः, शकलम्, शक्लम्, शकुनः-शकुनिः-शकुन्तः-शकुन्तिः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
एतेषां रूपाणां निष्पत्तिप्रकारो दैवादिकधातावेव लिखितः।
तत्रैव द्रष्टव्यः।
प्रासङ्गिक्यः
01
=>
(१६७२)
02
=>
(५-स्वादिः-१२६१। अक। अनि। पर।)
03
=>
(श्लो। ४३)
04
=>
[[६। ‘शिक्षेर्जिज्ञासायाम्’ (वा। ३-२-१) इति सन्नन्तात् जिज्ञासार्थे तङेव। ‘पूर्ववत् सनः’ (१-३-६२) इत्यस्यापवादः। अभ्यासलोपादिकं शकधातुवत् बोध्यम्।]]
05
=>
[पृष्ठम्१२८१+ २७]
06
=>
(१६७०)
07
=>
[[१। शतरि स्वादित्वात् श्नुप्रत्ययः। उवङादेशः।]]
08
=>
[[२। स्त्रियां भिदादिपाठात् (३-३-१०४) अङ्।]]
09
=>
[[३। लिटः क्वसुप्रत्यये, ‘अत एकहल्मध्ये--’ (६-४-१२०) इति एत्वाभ्यासलोपयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमः। छान्दसोऽपि क्वसुः लोके बहुलं प्रयुज्यते इत्यसकृदधस्तात् प्रतिपादितमस्माभिः। काशिकायाम् (७-२-६७) उदाहृतोऽयं शब्दः।]]
10
=>
[[४। पचाद्यचि रूपमेवम्। शकः देशविशेषः। राजविशेषो वा।]]
11
=>
[देशः]
12
=>
[[५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। शाकः = वार्ताकादिः।]]