| YouTube Channel

हरगौरी (haragaurI)

 
शब्दसागरः
English
हरगौरी
f.
(-री) One of the forms of ŚIVA and PĀRVATĪ conjoined.
Spoken Sanskrit
English
हरगौरी haragaurI
f.
one of the forms of ziva or of ziva and pArvatI conjoined
Monier Williams Cologne
English
हर—गौरी
f.
one of the forms of Śiva or of Śiva and Pārvatī conjoined (= अर्धनारीश)
Apte Hindi
Hindi
हरगौरी
स्त्री*
हर-गौरी -
शिव और पार्वती का एक संयुक्त रूप(अर्धनारीश्वर)
L R Vaidya
English
hara-gOrI {% f. %} one of the forms of Śiva and Pārvatī conjoined.
शब्दकल्पद्रुमः
Sanskrit
हरगौरी,
स्त्री,
(हरेण सह गौरी ।) अर्द्ध-नारोश्वरमूर्त्तिः यथा, --देव्युवाच ।“यथा तवाहं सततं छायेवानुगता हर ।भवेयं साहचर्य्येण तथा मां कत्तुमर्हसि
मव्वगात्रेण संस्पर्शं नित्यालिङ्गनविभ्रमम् ।अहमिच्छामि भवतस्तत्त्वं चेत् कर्त्तुमर्हसि
श्रीभगवानुवाच ।रोचते तन्मह्यमपि यत्त्वमिच्छसि भाविनि ! ।तत्रोतायमहं वक्ष्ये यदि शक्नोषि तत् कुरु
अद्धं मम शरीरस्य गृहाश त्वं मनोहरे ।अद्धं भवा मे नारी तथैवार्द्ध पुमानिति
यदि त्वं हि शक्नोषि हर्त्तुं तत्त्वर्द्धमीदृशम् ।तदाहं ते हरिष्यामि शरीरार्द्धं वरानने !
तवैवार्द्धं तथा नारी अर्द्धं भवतु पूरुषः ।विद्यते तत्र शक्तिर्मे त्वमनुज्ञातुमर्हसि
श्रीदेव्युवाच ।“तवेवाहं हारष्यामि शरीरार्द्धं वृषध्वज ! ।किन्त्वहं त्वेकमिच्छामि यच्चेत्त्वं हर इच्छसि
तथाहमर्द्धं भवतो हृत्वा तिष्ठामि तावता ।त्यजाम्यहं यदा तेऽर्द्धं सम्पूर्णं स्यात्तदा द्वयम्
इत्यर्द्धभागहरणं भवेद्यदि यथेप्सितम् ।तदैवाहं तदा शम्भोः शरीरार्द्धं हराम्यहम्
”ईश्वर उवाच ।एवमस्तु भवेन्नित्यं यथा त्वं कर्त्तुमिच्छसि ।शरीरार्द्धस्य हरणं भूयात्तव यथेप्सितम्
श्रीऔर्व्व उवाच ।अथ गौरी तदा पूर्व्वमनुभूतं तपःस्थितौ ।योगनिद्रास्वरूपं तदात्मानोऽचिन्तयद्धिया
हरं प्रणम्य प्रथमं ब्रह्माणञ्च ततः परम् ।ततस्त्रिजगतामीशं हरिं नारायणं प्रभुम्
चिन्तयित्वा तथा तेषामेकतां सा जगन्मयी ।आत्मानं यागनिद्राञ्च चिन्तयित्वा मनस्विनी
दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः ।शरीरस्य तथा वाममतिप्रेम्णा निजं हरे
हरोऽपि स्वशरीरार्द्धं गौरीकाये तदा स्वयम् ।प्रेम्णानिवेशयत्तस्याश्चिकीर्षुः प्रियमद्भुतम्
अथ स्थित्वा तदा भर्गः काल्या सह चिरंतदा ।परित्यज्य शरीरार्द्धं पृथगेव बभौ रुचा
काली भूत्वा स्वर्णगौरी शरीरार्द्धन्तु शाङ्करम् ।प्राप्य मोदात्तदात्मानं सन्तुष्टा जगम्भयी
एवं यदा शरीरार्द्धमादाय परमेश्वरी ।हरस्य तिष्ठति तदा राजतेऽतीवशोभना ।अर्द्धं धम्मिलसंयुक्तं जटाजूटार्द्धयोजितम् ।एकस्मिन् श्रवणे भोगी भागे जाम्बृनदाचितम् ।कुण्डलं श्रवणेऽन्यस्मिन् शीर्षे तस्या व्यराजत
अर्द्धं मृगाक्षि चास्यार्द्धं वृषभाक्षि व्यराजत ।अर्द्धं स्थूलनसं चारु तिलपुष्पनसं परम्
दोर्घश्मश्रु तथैवार्द्धमर्द्धं श्मश्रुविवर्ज्जितम् ।आरक्तचारुदशनं रक्तौघमेकतस्तथा
अपरं शुक्लविपुलदीर्घाकृति रदं परम् ।अर्द्धं नीलगलञ्चाद्धमपरं हारसंयुतम्
अर्द्धं कङ्कणकेयूरयुक्तबाहु तथापरम् ।नागकेयूरसंयुक्तस्थूलबाहु निरूर्म्मिकम्
अर्द्धं विषायतभुजं करिहस्तभुजं परम् ।एकत्र सोर्म्मिकाः शाखाः करस्यान्यत्र तांविना
एकस्तनन्तु हृदयं रोमावल्यर्द्ध्वसंयुतम् ।रम्भास्तम्भसमानोरु सुपार्ष्णि मृदुपादकम्
एकं तथापरं स्थूलसंहतोरु पदाम्बुजम् ।एकञ्चारु मृदु स्थूलजघनं सुमनोहरम्
तथापरं दृढकटि संहतोर्द्ध्वपदाम्बुजम् ।एकं वैयाव्रचर्म्मोपयुक्तं भूतिविलेपनम्
अपरं मृदुकौषेयवसनं चन्दनोक्षितम् ।एवमर्द्धं तथा जातं यीषिल्लक्षणसंयुतम्
अपरं बलवद्भूरि सुदृढं पुरुषाकृतिएवमर्द्धं स्मररिपार्ज्जहार गिरिजा सती
हिताय सर्व्वजगतां कामाख्या कालिकोपमा ।तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् ।येनोपमेयं तन्नास्ति मार्गितं भुवनत्रये
सन्तानः पारिजातो वा एकान्तविषदस्तरुः ।अमोघया तथा वन्द्यौ तौ चापि ययतुर्नहि
बहुधा पृथक्त्वेन तौ रेमाते नरेश्वर ।अर्द्धनारोश्वरो भूत्वा तु रम कदाचन
इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् ।गौरीं कर्त्तुं तदा सर्व्वभूतकारणकारणः
तथापि तां गिरिसुतां संयोज्य विविधैः पुरा ।तपस्ययोजयद्देव क्रियो पायैरनेकशः
तपोनिर्धूतसर्व्वाङ्गीं पश्चाद्गौरीमथाकरोत् ।अर्द्धञ्च प्रददौ तस्यं शरीरस्य महेश्वरः
नैवास्य तत्त्वं जानन्ति शक्राद्याः सकलाःसुराः ।शरीरार्द्धप्रदानस्य तपसो योजनस्य
एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः ।नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा ।अङ्गभूता महेशस्य वीतभीतास्तपोधनाः
ये मानुषशरीरेण प्रापिरे तपसो बलात् ।गणानामाधिपत्यन्तु ते जानन्ति हरं परम्
एवं सदा त्वया योज्याः सानुगा नृपसत्तम ! ।वनिताः सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि
इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् ।शिवयोः प्रीतिकरणं शरीरार्द्धं ग्रहं तथा
गौरीत्वापादनञ्चैव कालिकायाः शुभावहम् ।न तस्य विघ्ना जायन्ते पुण्यतमो मतः ।दीर्घायुः सुखी भूयात् पुत्त्रपीत्त्रसमन्वितः
सततं परिशृण्वानः शिवयोश्चरितं महत् ।शिवलाकमवाप्नोति सुचिरं शिवल्लभः
”इति श्रीकालिकापुराणे ४४ अध्यायः