| YouTube Channel

हयग्रीवः (hayagrIvaH)

 
Apte Hindi
Hindi
हयग्रीवः
पुं*
हयः-ग्रीवः -
विष्णु का एक रुप
हयग्रीवः
पुं*
हयः-ग्रीवः -
एक राक्षस का काम
Wordnet
Sanskrit
Synonyms:
हयग्रीवः, हयशीर्षः
noun
विष्णोः चतुर्विंशतिषु अवतारेषु एकः।
"आसामे हयग्रीवस्य मन्दिरम् अस्ति।"
Synonyms:
हयग्रीवः, ब्रह्मवेदप्रहर्ता
noun
एकः असुरः।
"हयग्रीवः कल्पान्ते सुप्तात् ब्रह्मदेवात् वेदान् गृहीत्वा पलायितः।"
Synonyms:
हयग्रीवः
noun
तान्त्रिकाणां बौद्धानाम् एका देवता।
"तान्त्रिकः हयग्रीवस्य उपासनायां रतः।"
Synonyms:
हयग्रीव उपनिषद्, हयग्रीवः
noun
एका उपनिषद्।
"हयग्रीव-उपनिषद् अथर्ववेदेन सम्बन्धिता।"
शब्दकल्पद्रुमः
Sanskrit
हयग्रीवः,
पुं,
(हयस्य ग्रीवा इव ग्रीवा यस्य ।)मधुकटभहृतवेदोद्धारार्थं विष्णारवतारविशेषः ।तस्य रूपं यथा, --“सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा ।कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः
तस्य मूर्द्धा समभवत् द्यौः सनक्षत्रतारका ।केशाश्चास्याभवद्दीर्घा रवेरंशुसमप्रभाः
कर्णावाकाशपाताले ललाटं भूतधारिणी ।गङ्गा सरस्वती श्रोण्यौ भ्रुवावास्तां महोदधी
चक्षुषी सोमसूर्य्यौ ते नासा सन्ध्या पुनः स्मृता ।प्रणवस्त्वथ संस्कारो विद्युज्जिह्वा निर्म्मिता
दन्ताश्च पितरो राजन् सोमपा इति विश्रुताः ।गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः
ग्रीवा चास्याभवद्राजन् कालरात्रिर्गुणोत्तरा ।एतद्धयशिरः कृत्वा नानामूर्त्तिभिरावृतम्
”इति महाभारतम्
*
(हवग्रीवदैत्यवधार्थमेव भगवान् हयग्रीवमूर्त्ति-रभवत् इति देवीभागवतमतम्
अस्यविवरणन्तु तत्रैव स्कन्धे अध्याये द्रष्टव्यम् ।)विष्णुवध्यदैत्यविशेषः इति हेमचन्द्रः
चकल्पान्ते ब्रह्माणि प्रसुप्ते वेदं हृतवान् तद्वेदो-द्धारणार्थं विष्णुना मत्स्यावतारेण हतः ।इति केचित्
*
आप ।“वृद्धगङ्गाजलस्यान्तन्तीरे ब्रह्मसुतस्य ।विश्वनाथाह्वयो देवः शिवलिङ्गममन्वितः ।विश्वदेवी महादेवी योनिमण्डलरूपिणी
हयग्रीवेण युयुधे तत्र देवो जगत्पतिः ।हयग्रीवं यत्र हत्वा मणिकूटं तथागमत्
”इति कालिकापुराणे ८२ अध्यायः