हयः (hayaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishहयः [hayḥ], [हय्-हि-वा अच्]
A horse
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ 1.14
8.296
9.1
A man of a particular class
see under अश्व.
The number 'seven'.
of Indra.
(In prosody) A foot of four short syllables.
The zodiacal sign Sagittarius.
The Yak (Bos Grunniens). -अङ्गः Sagittarius (धनुराशि). -अध्यक्षः a superintendent of horses. -अरिः the fragrant oleander. -आनन्दः green grain of Phaselous Mungo (Mar. हिरवे मूग). -आयुर्वेदः veterinary science. -आरूढः a horseman, rider.
आरोहः a rider.
riding (also आरोहम् in this sense). -आलयः a horse-stable. -आसनी the gum-olibanum tree. -इष्टः barley -उत्तमः an excellent horse. -कर्मन् knowledge of horses. -कातरा, -कातरिका of a plant
(Mar. घोडे काथर). -कोविद versed in the science of horses-their management, training -गन्धः of a plant (Mar. आसंध).
ग्रीव of a form of Viṣṇu.
of a demon
ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् 8.24.9. (-वा) of Durgā. -च्छटा a troop of horses. -ज्ञः a horse-dealer, groom, jockey. -द्विषत् the buffalo.-पः, -पतिः a groom. -पुच्छिका, -पुच्छी Glycine Debilis (Mar. रानउडीद). -प्रियः barley. -प्रिया the Kharjuri tree. -मारः, -मारकः the fragrant oleander. -मारणः the sacred fig-tree. -मुखः of a form of Viṣṇu
* 1.23.16. -मेधः a horse sacrifice
सर्वान् कामानवाप्नोति हय- मेधफलं तथा 1.181.
वाहनः an epithet of Kubera.
Revanta, the son of the sun. -शाला a stable for horses. -शास्त्रम् the art or science of training and managing horses. -शिक्षा hippology. -संग्रहणम्, -संयानम् the restraining or curbing of horses
driving horses
पश्य मे हयसंयाने शिक्षां केशवनन्दन * 3.19.5.
Apte 1890
Englishहयः [हय्-हि-वा अच्] 1 A horse
Bg. 1. 14
Ms. 8. 296, R. 9. 10.
2 A man of a particular class
see under अश्व.
3 The number ‘seven’.
4 N. of Indra.
5 (In prosody) A foot of four short syllables.
Comp.
अध्यक्षः a superintendent of horses.
अरिः the fragrant oleander.
आयुर्वेदः veterinary science.
आरूढः a horseman, rider.
आरोहः {1} a rider. {2} riding.
आसनी the gum-olibanum tree.
इष्टः barley.
उत्तमः an excellent horse.
कोविद a. versed in the science of horses-their management, training &c.
ग्रीवः N. of a form of Viṣṇu. (
वा) N. of Durgā.
ज्ञः a horse-dealer, groom, jockey.
द्विषत् m. the buffalo.
प्रियः barley.
प्रिया the Kharjūrī tree.
मारः,
मारकः the fragrant oleander.
मारणः the sacred fig-tree.
मेधः a horse-sacrifice
Y. 1. 181.
वाहनः an epithet of Kubera.
शाला a stable for horses.
शास्त्रं the art or science of training and managing horses.
संग्रहणं the restraining or curbing of horses.
Apte Hindi
Hindiहयः
- हय् (हि) + अच्
घोड़ा
हयः
- -
एक विशेष श्रेणी का मनुष्य
हयः
- -
‘सात’ की संख्या
हयः
- -
इन्द्र का नाम
हयः
- हयः+अच्
धनुराशि
हयः
- हयः+अच्
घोड़ा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit अश्वः, तुरगः, तुरङ्गः, तुरङ्गमः, वाजी, हयः, पीतिः, पीती, वीतिः, घोटः, घोटकः, वाहः, अर्वा, गन्धर्वः, सैन्धवः, सप्तिः, हरिः
ग्राम्यपशुः- नरजातीयः यः वेगवान् अस्ति।
"अश्वः रथाय युज्यते।"
व्यजनिन्, वालधिप्रियः, वालमृगः, हयः
वन्यपशुः।
"व्यजनिनः पुच्छात् चमरं निर्मीयते।"
अश्वः, वाजी, हयः, तुरगः, तुरङ्गः, तुरङ्गमः, सैन्धवः, पीतिः, पीती, घोटकः, घोटः, वीतिः, वाहः, अर्वा, गन्धर्वः, सप्तिः, हरिः
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।
"राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।"
Tamil
Tamilஹய: : குதிரை.
शब्दकल्पद्रुमः
Sanskritहयः, (हयति गच्छतीति । हय + अच् ।हिनोतीति । हि + अच् वा ।) घोटकः ।इत्यमरः । २ । ८ । ४४ ॥
अथ हयायुर्व्वेदः ।धन्वन्तरिरुवाच ।“हयायुर्व्वेदमाख्यास्ये हयैः सर्व्वार्थरक्षणम् ।काकुटी कृष्णजिह्वश्च कृष्णाख्यः कृष्णतालुकः ॥
कराली हीनदन्तश्च शृङ्गी चाधिकदन्तकः ।एकाण्डश्चैव जाताण्डः कञ्चुकी द्विखुरी स्तनी ॥
मार्जारपादो व्याघ्राभः कुष्ठविद्रुधिसन्निभः ।यमजो वामनश्चैव मार्जारकपिलोचनः ॥
एतद्दोषी हयस्त्याज्य उत्तमोऽश्वश्चतुष्करः ।एते दोषाश्च कथिता हयहस्त्यादिषूत्तमाः ॥
मध्योऽर्द्धहस्तहीनोऽश्वो मुष्टिहस्तविहीनकः ।कनीयांश्चार्द्धमानः स्यादर्द्धसप्तस्तु दीर्घतः ॥
षण्मुष्टिहीनः पञ्चोन उत्तमाद्यास्तु दीर्घतः ।असंहता ये च वाहा ह्रस्वकर्णास्तथैव च ॥
स्वरनेत्रप्रभावेषु न दीनाश्चिरजीविनः ।रेवन्तपूजनाद्धोमाद्रक्षा स्यात् द्विजभोजनात् ॥
लोहकं निम्बपत्राणि गुग्गुलुसर्षपा घृतम् ।तिलञ्चैव वचा हिङ्गु वघ्नीयाद्वाजिनां गले ॥
आगन्तुकं दोषजन्तु व्रणं द्विविधमीरितम् ।चिरपाकं खरं वातात् पित्तजं क्षिप्रपाकिकम् ॥
कण्डुदाहात्मकं पित्तात् सोन्मादं मन्दवेदनम् ।घनं कफात् सन्निपातात् सर्व्वरूपं द्विदोषजम् ॥
आगन्तुकन्तु शस्त्राद्यैर्दुष्टव्रणविशोधनम् ।दन्तीमूलं हरिद्रे द्धे चित्रकं विश्वभेषजम् ॥
रसोनं सैन्धवं वापि तक्रकाञ्जिकपेषितम् ।तिलशक्तुकपिण्डोका दधियुक्ता ससैन्धवा ॥
निम्बपत्रयुतं पिण्डं तिलैः शोधनरोपणम् ।करबीरकदल्यर्कस्नुहीकुटजचित्रकैः ॥
भल्लातस्य पचेत्तैलं नाडीव्रणहरं परम् ।पङ्कवल्कलकल्केन घृतेन च प्रलेपयेत् ॥
द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् ।पटोलं निम्बपत्रञ्च वचा चित्रक्रमेव च ॥
पिप्पली शृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ।एतत्पानं कृमिश्लेष्ममदानिलविनाशनम् ॥
निम्बपत्रं पटोलञ्च त्रिफला खदिरं तथा ।क्वाथयित्वा ततो वाहं शृतरक्तं विचक्षणः ।त्र्यहमेव प्रदातव्यं पानं कुष्ठोपशान्तये ॥
व्रसणेषु च कुष्ठेषु तैलं सर्षपजं हितम् ।पञ्चवल्कलतैलं वा दशमूलञ्च शोपनुत् ॥
लशुनादीन् वदे कल्पान् मुक्तिपानान्तलेपतः ।मातुलुङ्गरसोपेतं मांसलारसकेन वा ॥
”मांसलास्याने मांसानामिति च पाठः ।“रसं दद्यादसोनस्य अन्यैर्व्वा तैलसंयुतैः ।पलद्वय प्रथमेऽह्नि एकैकपलवृद्धितः ॥
यावद्धि शान्तिपूर्णा स्यात्तन्मात्रेत्युत्तमात्मकेमध्यमे चतुर्द्दश स्युरधमेऽष्टपलानि च ॥
शरन्निदाघयोर्न्नैव देयो नैव तु दापयेत् ।तैलेन वातिके पित्ते शर्कराज्यपयोऽन्वितैः ॥
कटुतैलैः कफे व्योषैः कफे मुद्गान् कुलत्थकान् ।शालिषष्टिकदुग्धाशी हयोऽखिलजुगुप्सितः ॥
पक्वजम्बूनिभो हेमवर्णः श्रेष्ठश्च गुग्गुलुः ।ग्रर्द्धप्रहरणे सूर्य्ये गुग्गुलुं पाययेद्धयम् ॥
भोजने पायसं दुग्धं नाडीस्तिस्रस्तनोति सः ।विकाले भोजयेदश्वं शाल्यन्नं वातुले ददेत् ॥
मांसानाञ्च रसैः पित्ते मधुमुद्गरसाज्यकैः ।कफे मुद्गान् कुलत्थान् वा कटुतिक्तान् शृतान्हये ॥
व्याधिते व्याधिते श्वासे त्रिदोषादौ तु गुग्-गुलुम् ।घामैर्दूर्व्वा सर्व्वरोगे प्रथमेऽह्रि पलं ददेत् ॥
विवर्द्धयेत् ततो वर्षमेकादिपलपञ्चकम् ।उत्तमे स्याच्च चत्वारि त्रीणि मध्यजघन्ययोः ॥
पानेन भोजनेनैव अशीतिपलकं वरे ।मध्ये षष्टिश्चाधमेऽथ चत्वारिंशच्च भोगिषु ॥
व्रणे कुष्ठेषु खञ्जेषु त्रिफलाक्वाथसंयुतम् ।मन्दाग्नौ शोथरोगे च गवां मूत्रेण योजयेत् ॥
वातपित्तोल्वणे व्याधौ गोक्षीरघृतसंयुतम् ।देयं कृषाणां पुष्ट्यर्थं माषैर्यक्तञ्च भोजनम् ॥
सुपिष्टायाः प्रदातव्यं गुडूच्याः पलपञ्चकम्प्रभाते घृतसंयुक्तं शरद्ग्रीष्मेषु वाजिनाम् ॥
रोगघ्नं पुष्टिदञ्चापि बलतेजोविबर्द्धनम् ।तदेवाश्वाय दद्याद्वै क्षीरयुक्तमथापि वा ॥
गुडूचीकल्कयोगेन शतावर्य्यश्वगन्धयोः ।चत्वारि त्रोणि मध्यस्य जघनस्य पलानि हि ॥
अकस्माद्यत्र वाहानामेकरूपं यदा भवेत् ।म्रियते च तदा क्षिप्रं उपसर्गं तमादिशेत् ॥
होमाद्यैरक्षया विप्रभोजनैर्बलिकर्म्मणा ।शान्त्योपसर्गशान्तिः स्याद्धरीतक्यादिकल्पतः ॥
हरीतको सगोमूत्रा तैलेन लवणान्विता ।आदौ पञ्च ततः पञ्चवृद्ध्या पूर्णा शतावधि ।उत्तमाश्वे शतं प्रोक्तमशातिः षष्टिरुत्तरे ॥
* ॥
गजायुर्व्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।गजे चतुर्गुणा मात्रा ताभिर्गजरुगर्द्दनम् ॥
गंजोपसर्गव्याधौनां शमनं शान्तिकर्म्म च ।पूजयित्वा सुरान् विप्रान् ब्राह्मणे कपिलां ददेत् ॥
दन्तिदन्तद्वये मालां विवध्नीयादुपोषितः ।मन्त्रणं मन्त्रिता वेद्यो वचासिद्धार्थकामले ॥
सूर्य्याद्याः शिवदुर्शाश्रीर्विष्णुता रक्षसां गणः ।बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥
भोजनं मन्त्रितं दद्यात् भस्मनोद्भूनयेद्गजम् ।भूती रक्षा शुभा मेध्या वारुणी रक्षसां सदा ॥
त्रिकला पञ्चकोले च दशमूलं विडङ्गकम् ।शतावरी गुडूची च निम्बवासककिंशुकाः ॥
गजरोगविनाशाय प्रोक्तः कल्कः कषायकः ।आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥
”इति गारुडे हयायुर्व्वेदः २०७ अध्यायः ॥
युक्तिकल्पतरूक्तहयपरीक्षा घोटकशब्दे द्रष्ट-व्या ॥
* ॥
हये वर्णनीयानि यथा । वेगः १औन्नत्यम् २ तेजः ३ सल्लक्षणस्थितिः ४ खुरोत्-खातरजः ५ रूपम् ६ जातिः ७ गतिविचि-त्रता ८ । इति कविकल्पलता ॥
* ॥
अथहयशकुनः ।“हेषारवं मुञ्चति वामतो यःक्षुण्णक्षितिर्दक्षिणपादघातैः ।कण्डूयते दक्षिणमङ्गभागतुङ्गं तुरङ्गः स पदं ददाति ॥
”इति वसन्तराजे हयशकुनः १३ वर्गः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
