हन्ता-त्री (hantA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“हन हिंसागत्योः”@} 2 3 घातकः-तिका, 4 घातकः-तिका, 5 जिघांसकः-सिका, 6 जेघ्नीयकः-यिका, 7 8 जङ्घनकः-निका
हन्ता-त्री, घातयिता-त्री, जिघांसिता-त्री, जेघ्नीयिता-जङ्घनिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगच्छतिवत् 9 बोध्यानि।
10 हनिष्यन्- न्ती-ती, 11 आहनिष्यमाणः, 12 प्रणिघ्नन्- 13 व्यतिघ्नन्-आघ्नन्-चौरस्य 14 निप्रघ्नन्- न्ती, 15 हत्वा-हतः-हतवान्-हतिः, 16 पद्धतिः, पदोपहतः, 17 पुत्त्रहतः-पुत्रहतः, 18 कुमारिहता, 19 20 स्त्रीहता-स्त्रिहता-ब्रह्मबन्धूहता-ब्रह्मबन्धुहता, 21 लक्ष्मीहता, 22 विदुषिहता- विदुषीहता-श्रेयसीहता-श्रेयसिहता, विद्वद्धता-श्रेयोहता, 23 महद्धता, 24 अन्तर्हत्य, 25 कणेहत्य-मनोहत्य, 26 घात्यः-वध्यः, 27 ब्रह्महत्या-असिहत्या, 28 अश्वहत्या, 29 हत्याशतं पानसहस्रम्’ 30 31 घनाघनः, 32 शत्रुहः, 33 दार्वाघाटः, 34 दार्वाघातः, 35 चार्वाघाटः-चार्वाघातः, 36 वर्णसंङ्घाटः-वर्णसङ्घातः, 37 क्लेशापहः-तमो- ऽपहः, ‘स्रगियं यदि 38 जीवितापहा’ ज्वरापहा, निश्शेषजाड्यापहा, 39 जघ्निवान्- जघन्वान्, 40 तिमिहः-अरातिहः, वराहः-पटहः-कलहः, 41 अभ्याघाती, 42 कुमारघाती-शीर्षघाती, 43 ज्यायाघ्नः, पतिघ्नी, 44 45 श्लेष्मघ्नम्-मधु, 46 आखुघातः, 47 कृतघ्नः, 48 गोघ्नः, 49 हस्तिघ्नः-कपाटघ्नः- कवाटघ्नः, 50 पाणिघः-ताडघः, 51 पितृव्यघाती, 52 ब्रह्महा-भ्रूणहा-वृत्रहा, 53 वृत्रघ्नः- वृत्रघ्णः, 54 घातुकः-घातुकी, 55 वधकः, 56 57 वधः, 58 विघ्नः, 59 अब्भ्रघनः, 60 अन्तर्घनः-अन्तर्घणः, 61 प्रघणः-प्रघाणः, 62 उद्धनः, 63 अपघनः, 64 अयोघनः, विघनः, द्रुघनः-द्रुघणः, 65 स्तम्बघ्नः-स्तम्बघनः, 66 परिघः- पलिघः, 67 प्रतिघः, 68 69 पर्वतोपघ्नः, उपघ्नः, 70 सङ्घः-उद्धः, 71 सङ्घातः, 72 हेतिः, 73 निघः, 74 निघ्नः, 75 समूलघातं हन्ति, 76 पाणिघातं वेदिं हन्ति, 77 दण्डोपघातं गाः शातयति, 78 प्रहणनम्, इतीमानि विशेषरूपाणि।
जङ्घा, जघनम्, परिघातनः, हनुः, हनु79मान्, हनूः, हिमम्, हेमन्तः, अंहतिः, घातिः, अहिः, अनेहा, घोरः, हंसः, इमे औणादिकाः।
01 (१९९२)
02 (२-अदादिः-१०१२। सक। अनि। पर।)
03 [[३। ‘ण्वुल्तृचौ’ (३-१-१३३) इति ण्वुल्। ‘हो हन्तेर्ञ्णिन्नेषु’ (७-३-५४) इति हन्तेर्हकारस्य कुत्वम्। सोष्मणो घोषवतो नादवतो महाप्राणस्य हकारस्य तादृश एव घकार आदेशो भवति। इदमुत्तरत्रापि ञित्-णित्-प्रत्ययेषु नकारे च परत्र भवति। ‘हनस्तोऽचिण्णलोः’ (७-३-३२) इति धातुनकारस्य तकारः।]]
04 [[४। णिजन्तेऽपि सर्वत्र हन्तेर्हकारस्य कुत्वं घकारः, नकारस्य तकारश्च पूर्ववत् बोध्यः।]]
05 [[५। सन्नन्ते ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः, द्विर्वचनादिकम्, अभ्यासे ‘कुहोश्चुः’ (७-४-६२) इति चुत्वेन जकारः, ‘अभ्यासाच्च’ (७-३-५५) इति उत्तरखण्डे कुत्वम्। नकारस्यानुस्वारः। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
06 [[६। ‘हन्तेर्हिंसायां यङिघ्नीभावो वक्तव्यः’ (वा। ७-१-३०) इति वचनात् यङि विवक्षिते सति हिंसार्थेऽस्य घ्नीभावः, द्विर्वचनादिकम्। हलादिशेषः। ‘अभ्यासे चर्च’ (८-४-५४) इति अभ्यासे जकारः। ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः।]]
07 [पृष्ठम्१४०६+ ३१]
08 [[१। गत्यर्थत्वे तु धातोः ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। नुकः ‘पदान्तवत्’ इत्यतिदेशात् अनुस्वारः उपलक्ष्यते। ‘अभ्यासाच्च’ (७-३-५५) इत्युत्तरखण्डेऽपि हकारस्य कुत्वेन घकारः। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
09 (३७६)
10 [[२। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः स्यप्रत्यये परतः।]]
11 [[३। ‘आङो यमहनः’ (१-३-२८) इति अकर्मकादस्मात् आत्मनेपदम्। ‘अकर्मकात्’ (१-३-२६) इत्युक्तेः ‘चोरमाघ्नन्’ इत्यत्र पस्स्मैपदमेव। ‘आजघ्ने विषमविलोचनस्य वक्षः’ (किरातार्जुनीये १७-६३) ‘आहध्वं रघूत्तमम्’ (भट्टिकाव्ये) इत्यादिषु सकर्मकस्थलेषु आत्मनेपदं चिन्त्यमेवेति माधवाचार्याः। परे तु पाठान्तरं तत्र- तत्राश्रित्य समाहितवन्तः। ‘एत्य’ इति अध्याहृत्य वक्षः, रघूत्तमं वा एत्य--इति हरदत्तो व्याचख्यौ।]]
12 [[४। शतरि, शपो लुकि, शतुः सार्वधातुकत्वेन ङिद्वद्भावात् ‘गमहनजनखनघसां लोपः क्ङिति अनङि’ (६-४-९८) इति हन्तेरुपधाकारस्य लोपः। ‘हो हन्तेः--’ (७-३-५४) इति कुत्वेन घकारः। ‘नेर्गदनदपतपदघुमास्यतिहन्ति--’ (८-४-१७) इति उपसर्गस्थान्निमित्तादुत्तरस्य नेः णत्वम्।]]
13 [[५। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतीहारात्मनेपदनिषेधः, धातोः हिंसार्थकत्वात् गत्यर्थत्वात् च।]]
14 [[६। ‘जासिनिप्रहण--’ (२-३-५६) इति चोरस्य षष्ठी।]]
15 [[७। ‘अनुदात्तोपदेश--’ (६-४-३७) इत्यादिना झलादिषु क्ङित्प्रत्ययेषु क्त्वा-क्तिन्-क्त- क्तवतुप्रभृतिषु अनुनासिकलोपः।]]
16 [[८। पादाभ्यां हन्यते = गम्यते इति पद्धतिः। अत्र धातोर्गत्यर्थकम्। क्तिन्। ‘हिमकाषि- हतिषु च’ (६-३-५४) इति पादशब्दस्य पद्भावः। बाह्वादित्वात् (४-१-९६) ङीषि पद्धती इत्यपीति माधवः। ‘पदोपहतः’ इत्यत्र तु ‘पादस्य पद् आज्यातिगो- पहतेषु’ (६-३-५२) इति पदादेशः।]]
17 [[९। ‘वा हतजग्धपरेषु’ (वा। ८-४-४८) इति पुत्रतकारस्य हतशब्दे परे वा द्वित्वम्।]]
18 [[१०। कुमारी चासौ हता चेति कर्मधारये ‘घरूपकल्पचेलड्ब्रुवगोत्रहतेषु--’ (६-३-४३) इति कुमारीशब्दस्य ह्रस्वः। कुमार्या हता इति समासे तु न ह्रस्वः--कुमारीहता इत्येव।]]
19 [पृष्ठम्१४०७+ ३३]
20 [[१। ‘नद्याः शेषस्यान्यतरस्याम्’ (६-३-४४) इति ह्रस्वविकल्पः।]]
21 [[२। ‘कृन्नद्याः प्रतिषेधः’ (वा। ६-३-४४) इति प्रतिषेधान्न ह्रस्वः।]]
22 [[३। ‘उगितश्च’ (६-३-४५) इति पूर्वपदस्य ह्रस्वविकल्पः। विद्वच्छ्रेयसोः पुंवद्भावोऽपि वृत्तिकारवचनादत्रेति बोध्यम्।]]
23 [[४। महच्छब्दस्यापि पुंवद्भावोऽत्र आत्रेयेणोक्त इति माधवः।]]
24 [[५। ‘अन्तरपरिग्रहे’ (१-४-६५) इति ‘अन्तर्’ इत्यस्य गतित्वम्। ‘कुगतिप्रादयः’ (२-२-१८) इति समासे ल्यपि ‘वा ल्यपि’ (६-४-३८) इति व्यवस्थितविभाषा- विज्ञानात् नान्तानिटोऽस्य धातोर्नकारलोपो नित्यः। अन्तर्हत्य मध्ये हत्वा इत्यर्थः। परिग्रहार्थे तु ‘अन्तर्हत्वा मूषिकां गतः श्येनः’ इत्यत्र न गतित्वम्। तेन न ल्यप्। स्वभावादयं योगः हन्तिविषयकः।]]
25 [[६। ‘कणेमनसी श्रद्धाप्रतीघाते’ (१-४-६६) इति कणे, मनसि इत्यनयोः गतित्वम्। सप्तम्यन्तप्रतिरूपके इमे। पूर्ववत् समासे ल्यप्। कणेशब्दोऽभिलाषार्थकः, मन- सिशब्दोऽपीति न्यासपदमञ्जर्यौ। ‘कणेहत्य मनसिहत्य वा पयः पिबति।’ अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः। निरुक्तभिन्नार्थत्वे तु कणे हत्वा, मनसि हत्वा इत्येव। इदमपि सूत्रं स्वभावात् हन्तिविषय एव प्रवृत्तम्।]]
26 [[७। ‘हनो वा वध च’ (वा। ३-१-९७) इति कर्मणि यत्, प्रकृतेर्वधादेशश्च। वध्यः वधकर्मीभूतः। पक्षे ण्यति, कुत्वे तकारे च घात्यः। दिगादित्वात् (४-३-५४) यतैव सिद्धमिति भगवान् कात्यायनः।]]
27 [[८। ‘हनस्त च’ (३-१-१०८) इति भावार्थे सुप्यनुपसर्गे उपपदे हन्तेः क्यप्। नकारस्य तकारश्च। एवं भ्रूणहत्या इत्यादिकमपि। स्त्रीत्वं स्वभावात्।]]
28 [[९। अश्वहत्याशब्दोऽपि पूर्ववत् हन्तेः क्यपि नकारस्य तकारादेशे सिद्धः। केचिन्नेदं पठन्तीति माधवः।]]
29 [[१०। अत्र श्रुतिवाक्ये छान्दसत्वात् निरुपपदादपि हन्तेः क्यप् इति माधवीये स्पष्टम्।]]
30 (श्रुतिः)
31 [[११। ‘हन्तेर्घत्वं च’ (वा। ६-१-१२) इति वचनात् हन्तेः पचाद्यचि द्वित्वम्, पूर्वोत्तर- खण्डयोर्घकारो हकारस्य, पूर्वखण्डे आक् आगमश्च। ‘घनाघनः = वर्षुकमेघः, हन्ता च’ इति प्रक्रियासर्वस्वम्। ‘घनाघनः क्षोभणश्चर्षणीनाम्’ (तै। सं। ४-६-४-१)।]]
32 [[१२। शत्रुं वध्यात् इत्याशीरर्थे गम्ये ‘आशिषि हनः’ (३-२-४९) इति कर्मण्युपपदे डप्रत्ययः। डित्त्वात् टिलोपः। एवं तिमिरहः, अरातिहः इत्याद्यपि।]]
33 [[१३। ‘दारावाहनोऽण् अन्तस्य च टः संज्ञायाम्’ (वा। ३-२-४९) इति दारुशब्द उपपदे आङ्पूर्वात् हन्तेः कर्तरि अण्, नकारस्य टकारः--संज्ञायाम्। अन्त्यस्य प्रत्ययस्य णित्त्वात् धातोर्घः। दार्वाघाटः पक्षिविशेषः, यस्य चञ्चूरुभयत्र प्रतिरूढा कुद्दालवत्। अन्यत्र तु दार्वाघातः इत्येव।]]
34 [पृष्ठम्१४०८+ ३२]
35 [[१। चारु आहन्तीति चार्वाघाटः--चार्वाघातो वा। ‘चारौ वा’ (वा। ३-२-४९) इति पूर्ववत् कर्तरि अण्, अन्त्यस्य टकारविकल्पः। प्रत्ययस्य णित्त्वात् धातोर्घकारः।]]
36 [[२। वर्णान् संहन्तीति वर्णसंघाटः वर्णसंघातो वा। ‘कर्मणि समि च’ (वा। ३-२-४९) इति पूर्ववत् अणादिकम्।]]
37 [[३। ‘अपे क्लेशतमसोः’ (३-२-५०) इति क्लेशतमसोरुपपदयोः अपपूर्वकात् हन्तेः डः। डित्त्वात् टिलोपः।]]
38 [[४। अत्र ‘क्विप् च’ (३-२-७६) इति क्विप्। सुपि ‘सौ च’ (६-४-१३) इति दीर्घे, नलोपः। स्त्रियाम्, ‘ऋन्नेभ्यः--’ (४-१-५) इति नान्तत्वलक्षणङीब् न भवति, ‘बह्वादिषु (ग। सू। ४-१-४५) ङीष्विकल्पार्थं ‘हन्’ इति पाठात्’ इति माधवः। इयमेव गतिः ज्वरापहा, निश्शेषजाड्यापहा इत्यादिष्वपि। क्षीरस्वामी तु ‘अन्येभ्योऽपि’ इति डप्रत्यये परिखेत्यादिवत् साधितवान्।]]
39 [[५। लिटः क्वसौ, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति वा इडागमः। इट्पक्षे जघ्निवान् इति, इडभावपक्षे जघन्वान् इति च रूपम्। घत्वोपधाकार- लोपादिकं पूर्ववत् बोध्यम्।]]
40 [[६। ‘अन्येभ्योऽपि--’ इति डप्रत्यये क्षीरस्वामी एतान् साधयति। तादृशं वचनं न दृश्यते। गमेर्डप्रत्ययविधायकं वचनमस्य विवक्षितमिति भाति। वरं आहन्तीति वराहः। पटे हन्यते इति पटहः। कलं = माधुर्यं हन्तीति कलहः।]]
41 [[७। ‘सम्पृच…मुषाभ्याहनश्च’ (३-२-१४२) इति ताच्छीलिको घिनुण्। घत्वतत्वे च।]]
42 [[८। ‘कुमारशीर्षयोर्णिनिः’ (३-२-५१) इति णिनिप्रत्ययः। घत्वतत्वे च। अत्रैव निपातनात् शिरसः शीर्षादेशः। ‘कुत्सित इति वक्तव्यम्’ (वा। ३-२-९३) इति वचनादत्र कुत्सा द्योत्या।]]
43 [[९। ‘लक्षणे जायापत्योष्टक्’ (३-२-५२) इति टक्प्रत्ययो लक्षणवति कर्तरि। सूत्रे ‘लक्षणे’ इति लक्षणवतो निर्देशः। ‘गमहन--’ (६-४-९८) इति उपधाकारलोपः। घत्वम्। जायाघ्नः तिलकालकविशेषवान्। यस्य हस्तादिषु जायामरणलक्षयितृ तिलाकारं कालकं विद्यते स एवमुच्यते। एवं यस्याः स्त्रियाः पाणौ पतिहननसूचिका रेखा विद्यते सोच्यते पतिघ्नी पाणिरेखा इति। जायाघ्नः पतिघ्नी इत्यत्र विशेष्यवशात् नियतलिङ्गता।]]
44 [पृष्ठम्१४०९+ ३४]
45 [[१। ‘अमनुष्यकर्तृके च’ (३-२-५३) इति टक्। पूर्ववत् प्रक्रिया। श्लेष्मघ्नम् मधु, पित्तघ्नं जम्बीरफलम्, वातघ्नः शाकविशेषः।]]
46 [[२। आखुं हन्तीत्यर्थे ‘कर्मण्यण्’ (३-२-१) इत्यण्। घत्वतत्वे च।]]
47 [[३। अत्र ‘कप्रकरणे मूलविभुजादिभ्यः--’ (वा। ३-२-५) इति कप्रत्यये, उपधाकारलोपे, घत्वे च रूपमिति केचित्। माधवस्तु कृतं हन्तीत्यर्थे ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् टक्प्रत्ययमवादीत्। एवमेव क्रियमाणघ्नः, करिष्यमाणघ्नः, शत्रुघ्नः इत्यादिष्वपि गतिः। टकि कृतघ्नी इति
\n\n के कृतघ्ना इति च स्त्रियां भवेत्।]]
48 [[४। गौर्हन्यतेऽस्मै इति गोघ्नः = अतिथिः। ‘दाशगोघ्नौ सम्प्रदाने’ (३-४-७३) इति सूत्रे निपातनादेव सम्प्रदाने टक्प्रत्ययः। अजन्तोऽयमिति प्रक्रियासर्वस्वम्।]]
49 [[५। हस्तिहनने शक्त एवमुच्यते। ‘शक्तौ हस्तिकपाटयोः’ (३-२-५४) इति हन्तेष्टक्। हस्तिघ्नो भटः। कपाटघ्नः चोरः। अशक्तौ यो विषादिभिर्हस्तिं हन्ति सः हस्तिघातः। एवम्--यः कुठारादिभिर्बहुभिः साधनैः कपाटं हन्ति स उच्यते कपाटघात इति। उभयत्र ‘कर्मण्यण्’ (३-२-१) इत्यण्। ‘--कवाटयोः’ इति सूत्रे पाठभेदः।]]
50 [[६। ‘पाणिघताडघौ शिल्पिनि’ (३-२-५५) इति निपातनात् हन्तेष्टकि टिलोपे, घत्वे च रूपम्। पाणिं हन्तीति पाणिघः हस्तेनैव तालवाद्यप्रावीण्यप्रदर्शयिता। ताडं = हनुं हन्तीति ताडघः मुखेनैव वाद्यविशेषवादयिता।]]
51 [[७। पितृव्यं हतवान् पितृव्यघाती। ‘कर्मणि हनः’ (३-२-८६) इति हन्ते- र्भूते णिनिः।]]
52 [[८। हन्तेः ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ (३-२-८७) इति क्विप्। हन्तेरेव, ब्रह्मादिष्वेव, क्विबेव, भूते एव इति चतुर्विधोऽत्र सूत्रे नियमः। ब्रह्म हतवान् ब्रह्महा। भ्रूणं = गर्भं हतवान् भ्रूणहा। वृत्रं हतवान् वृत्रहा इन्द्रः। ‘सौ च’ (६-४-१३) इति दीर्घः। एवं नियमाङ्गीकारात् हिमहा, केशिहा, कालनेमिनिहा इत्यादिषु ‘क्विप् च’ (३-२-७६) इति सार्वत्रिकः क्विप्।]]
53 [[९। द्वितीयाबहुवचनान्तमिदम्। अत्र ‘प्रातिपदिकान्तनुम्विभक्तिषु च’ (८-२-१५४) इति णत्वविकल्पः।]]
54 [[१०। ‘लषपतपदस्थाभूबृषहन--’ (३-२-१५४) इति उकञ् ताच्छीलिकः। घत्वतत्वे। स्त्रियां घातुकी।]]
55 [[११। ‘बहुलं तण्यन्नवधक--’ (वा। २-४-५४) इति वचनात् ण्वुलि प्रकृतेः वधादेशः। सोऽयमकारान्तादेशः। यद्वा हलन्तत्वेऽपि ‘जनिवध्योश्च’ (७-३-१५) इति वृद्धिनिषेधः।]]
56 [पृष्ठम्१४१०+ ३३]
57 [[१। ‘हनश्च वधः’ (३-३-७६) इति भावेऽप्प्रत्यये प्रकृतेर्वधादेशः।]]
58 [[२। ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्’ (वा। ३-३-५८) इति कप्रत्ययः। विशेषेण हन्तीति विघ्नः।]]
59 [[३। ‘मूर्तौ घनः’ (३-३-७७) इति हन्तेरप्प्रत्यये प्रकृतेर्घनादेशः
\n\n काठिन्ये गम्ये। मूर्तिः = काठिन्यम्। अब्भ्रघनः = अब्भ्रस्य काठिन्यमित्यर्थः। घनं दधि। विशेषणविशिष्टवस्तुनोऽपि मूर्तिशब्देन ग्रहणमिति प्रक्रियासर्वस्वम्।]]
60 [[४। ‘अन्तर्घनो देशे’ (३-३-७८) इति निपातनात् देशे वाच्ये अन्तःपूर्वकादस्मात् अप्प्रत्यये प्रकृतेर्घनादेशः। अन्तर्घनः = वाहीकग्रामविशेषः। अन्तः मध्ये हन्यते- ऽत्रेति वृत्तिः। ‘अन्तर्घणः’ इति कृतणत्वं केचित् सूत्र एव पठन्ति। तेषां, ‘अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-६५) इत्युक्त्यैव सिद्धं णत्वम्-इति भावः।]]
61 [[५। ‘अगारैकदेशे प्रघणः प्रघाणश्च’ (३-३-७९) इति निपातनात् साधुः। बाह्य- प्रकोष्ठकेऽलिन्दे वा वाच्ये प्रपूर्वकाद्धन्तेः अप्प्रत्यये प्रकृतेः घनादेशः ‘प्रघाणः’ इत्यत्र दीर्घः, णत्वं च निपातनलभ्यानि। ‘प्रघणः’ इत्यत्र तु ‘हन्तेरत्पूर्वस्य’ (८-४-२२) इति णत्वं सिद्धमेव।]]
62 [[६। उत् उपरि यस्य निधाय अन्यत् काष्ठादिकं तक्ष्यते तस्मिन् = अत्याधाने विवक्षिते ‘उद्घनोऽत्याधानम्’ (३-३-८०) इति निपातनात् पूर्ववत् घनादेशादिकम्।]]
63 [[७। अप हन्यते इति ‘अपघनोऽङ्गम्’ (३-३-८१) इति निपातनात् साधुः।]]
64 [[८। अयः हन्यते येन सः अयोघनः कूटः। विहन्यते येन सः विघनः = समीकरणसा- धनम्। द्रुः हन्यते येन सः द्रुघनः = कुठारादिः। ‘करणेऽयोविद्रुषु’ (३-३-८२) इति हनोऽप्प्रत्यये घनादेशः। ‘द्रुघणः’ इति केचित्। तदानीम्, ‘पूर्वपदात् संज्ञायामगः’ (८-४-३) इति, अरीहणादिषु (४-२-८०) ‘द्रुघणः’ इति पाठाद्वा णत्वमत्रेति ज्ञेयम्।]]
65 [[९। स्तम्बशब्द उपपदे करणे हनः कप्रत्ययः
\n\n अप् च। ‘स्तम्बे क च’ (३-३-८३) इति कप्रत्यये स्तम्बघ्नः। अप्प्रत्यये तु स्तम्बघनः इति। दात्रादिकमेवमुच्यते--येन स्तम्बः तृणविशेषो हन्यते। विस्तरस्तु माधवीये द्रष्टव्यः।]]
66 [[१०। ‘परौ घः’ (३-३-८४) इति परावुपपदे करणे हन्तेरप्प्रत्ययः, घश्च प्रकृतेः सर्वादेशः। परि हन्यते इति परिघः = अर्गलम्। ‘परेश्च घाङ्कयोः’ (८-२-२२) इति लत्वविकल्पः। तेन पलिघः इत्यपि।]]
67 [[११। ‘प्रतिघः’ इति बाहुलकात्-इत्यात्रेयः--इति माधवः। प्रतिघः कोपः। ‘अन्येभ्योऽपि--’ (३-२-१०१) इति डप्रत्यये न्यड्क्वादित्वात् कुत्वमिति’ भानुदीक्षितः।]]
68 [पृष्ठम्१४११+ २८]
69 [[१। उपघ्नः = प्रत्यासन्नः ‘उपघ्न आश्रये’ (३-३-८५) इति निपातनात् हन्तेरप्प्रत्यये उपधालोपः। पर्वतेनोपहन्यते = गम्यते इति पर्वतोपघ्नः। अत्र धातोः गत्यर्थकत्वम्।]]
70 [[२। समुद्भ्यां परस्य हन्तेः अप्प्रत्यये संघे प्रशंसायां च गम्यमाने सति ‘संघोद्धौ गण- प्रशंसयोः’ (३-३-८६) इति निपातनात् घत्वम्। संहननं संघः = प्राणिसमुदायः। भावेऽप्। अन्यत्र संघातः। उद्धन्यते = उत्कृष्टतया ज्ञायत इति गत्यर्थानां ज्ञानार्थत्वात् उद्घः = प्रशस्तः, कर्मण्यण्। अन्यत्र उद्घातः।]]
71 [[३। संपूर्वकात् अस्मात् घञि घत्वतत्वयोः संघातशब्दः साधुः। घ-घञोः प्रत्यययोरप- वादोऽत्रेति मन्वान आत्रेयः ‘हन्त्यर्थाश्च’ (ग। सू। चुरादिः) इति चुरादिपाठात्, णिजन्तात् संघातशब्दनिष्पत्तिमाहेति माधवः।]]
72 [[४। हन्तीति हेतिः। हन्यतेऽनेनेति वा ‘ऊतियूतिजूतिसातिहेति--’ (३-३-९७) इति निपातनात् नलोपे, प्रकृत्यकारस्येकारे च हेतिः इति माधवः।]]
73 [[५। ‘निघो निमितम्’ (३-३-८७) इति निपातनात् निपूर्वकादस्मात् अप्प्रत्यये साधुः। निमितम् = समन्तात् मितम्, समारोहपरिणाहमित्यर्थः। निर्विशेषं हन्यन्ते इति निघाः वृक्षाः, शालयश्च।]]
74 [[६। निघ्नः आयत्तः, अधीनः। निपूर्वकादस्मात्, बाहुलकात्, ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति वा कप्रत्ययः।]]
75 [[७। ‘समूलाकृतजीवेषु हन्--’ (३-४-३६) इति यथासंख्यं समूले उपपदे णमुल्। ‘कषादिषु यथाविधि--’ (३-४-४६) इति वचनात् णमुल्प्रयोजकस्येव हन्तेरनु प्रयोगः। ‘कृन्मेजन्तः’ (१-१-३९) णमुलन्तमव्ययम् इति।]]
76 [[८। ‘करणे हनः’ (३-४-३७) इति णमुल्। पाणिना हन्तीत्यर्थः। कषादित्वात् (३-४-४६) पूर्वप्रयुक्तस्यैवानुप्रयोगः।]]
77 [[९। ‘हिंसार्थानां च समानकर्मकाणाम्’ (३-४-४८) इति णमुल्।]]
78 [[१०। ‘हन्तेरत्पूर्वस्य’ (८-४-२२) इति णत्वम्।]]
79 [नू]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
