| YouTube Channel

हन्तकारः (hantakAraH)

 
Apte Hindi
Hindi
हन्तकारः
पुं*
हन्त-कारः -
‘हन्त’ विस्मयादिबोधक अव्यय
हन्तकारः
पुं*
हन्त-कारः -
किसी अतिथि को दी जाने वाली भेंट
शब्दकल्पद्रुमः
Sanskrit
हन्तकारः,
पुं,
(हन्त इत्यस्य कारः करणम् ।)अतिथिदेयतण्डुलम् इति केचित्
हन्त-शब्दः यथा यत्तु ।“निवीती हन्तकारेण मनुष्यांस्तर्पयेदथ ।कुशस्य मध्यदेशेन नृतीर्थेन उदङ्मुखः
”इति लघुविष्णूक्तम्
हन्तप्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येक-तर्पणे यथा सनकस्तृप्यतां तस्यैतदुदकं हन्तइत्यादौ तु पद्मपुराणीयमिलिततर्पणे ।इत्याह्रिकाचारतत्त्वम्
*
अतिथये दानार्थ-षोडशग्रासाः यथा, --“पूजयेदतिथिं नित्यं नमस्योदर्च्चयेद्घिजम् ।मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्ततः
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम्
भिक्षामाहुर्ग्रासमात्रमग्रञ्च स्याच्चतुर्गुणम् ।पुष्कलं हन्तकारञ्च तच्चतुर्गुणमुच्यते
”इति कूर्म्मपुराणे उपविभागे १८ ११३-११५
अपि ।“भिक्षाञ्च याचतां दद्यात् परिव्राड्ब्रह्मचारि-णाम् ।ग्रामप्रमाणं भिक्षा स्यादग्रं ग्रासचतुष्टयम्
अप्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ।भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ।अदत्त्वा तु भोक्तव्यं यथाविभवमात्मनः
”इति मार्कण्डेयपुराणे मदालसोपाख्याने २९ ।३४ -- ३६