हन (hana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wilson
Englishहन r. 2nd cl. (हन्ति pl. घ्नन्ति)
1 To hurt, to strike, to injure, to do any act which tends to the destruction
of life, to kill.
2 To go, to move.
3 To put an end to in any manner.
With अभि, To sound a musical instrument.
With आङ्, To smite.
With नि or परि, To destroy, entirely.
With प्र,
1 To strike.
2 To place upon.
With प्रति, To refute or destroy, an opposite argument.
With वि and आङ्, To obstruct, to prevent, to hinder.
With सम्, To slaughter: (घन् or ध्न is substituted for the radical letters of this verb in many of its inflections and derivatives
the root also takes most of the prefixes with little or no variation of the sense.)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishहनः [hanḥ], Killing, slaying.
Monier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiहनः
- हन् + अच्
"वध, हत्या"
धातुपाठः (Krishnacharya)
Sanskrit हन्
हन
हिंसा-गत्योः
अदादिः
सकर्मकः
अनिट्
परस्मैपदी
हन्ति
धातुप्रदीपः
Sanskritहनँ हन हिंसा, गत्योः
- हन्ति (2) । आहते । हतः । घ्नन्ति । जघान । जघ्नतुः । हन्ता । हतात् । हन्तु । जहि । अहन् । हन्यात् । वध्यात् । अवधीत् । घातयति । जेघ्नीयते । जङ्घन्यते । जिघांसति । ब्रह्महत्या । अश्वहत्या । वृत्रहा, वृत्रहणौ-एकाजुत्तरपदे णः (8/4/12) जङ्घा । अहल्या ।। 2 ।।
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritहन बधे गतौ च प० अनिट् । हन्ति प्रणिहन्तिप्रहन्व (ण्वः) जहि अवधीत् । जथान कर्मणि अघानिअवधि । णिच् घातयति जिघांसति जघंन्यते” “कुञ्जंहन्ति कुशादरि” इत्यादावालङ्कारिकाः गतौ निह-तार्थतामाहुः ।अभि + आघातभेदे केनचित् पदार्थेन संयोगभेदे अभिघातः ।अव + तुपाद्यपसरसार्थव्यापारभेदे व्रीहीनवहन्ति ।आ + केनचित् पदार्थेन संयोगानुकूलव्यापार आहन्ति आघातः ।स्वाङ्गकर्मणि अकर्मत्वे च आत्म० वक्ष आहते ।प्रति + आ + प्रत्याघाते प्रतिबन्धे प्रत्याहन्ति ।वि + आ परस्परेण विरोधे बिगेषेण ताडिते च व्याहन्ति व्याघतःउद् + ऊर्ध्वं गतौ उत्तोल्य हनने च ।उप + उद् + आरम्भे उपोदथातः आरम्भार्थः सङ्गतिभेदः ।नि + निशेषेण हनने स्वरान्तरथातेन उदात्तस्वरसम्पादने चनिर् + निःशेषेण हनने वज्रादिशब्दे च । “निर्घाते भूमि-चसने मनुः ।परा + प्रतिबन्धे निरोधे ।प्रति + प्रतिराधे प्रतिकूलगतौ च ।वि + अति + परस्परहनने व्यतिहारेऽपि न आत्म० । व्यतिघ्नन्ति योधाः ।सम् + सम्यक् हनने समूहभावे अक० ।हन् हन--भावे विच् । १ रुषाक्तौ २ अनुनये च मेदि० ।कर्त्तरि विच् । ३ हननकर्त्तरि वृत्रहा ब्रह्महा ।
क्षीरतरङ्गिणी
Sanskritहनँ हन हिंसा, गत्योः
- हन्ति हन्ता ऋद्धनोःस्ये (7270) इतीट्-हनिष्यति हो हन्तेञ्णिन्नेषु (7354) इति घः- अघानि, ध्नन्ति नेर्गद (8417) इति णत्वम्-प्रणिहन्ति हन्तेरत्पूर्वस्य (8422) प्रहणनम् व्मोर्वा (तु0 8423) प्रहण्वः प्रहन्मः, प्रहण्मः प्रहन्मः आङो यमहनः (1328) इत्यकर्मकात् तङ् आहते स्वाङ्गकर्मकाच्च (1328 वा0) आहते शिरः, नेह आहन्ति शिरः शत्रो, व्यतिहारे-न गतिहिंसार्थेभ्यः (1315) व्यतिघ्नन्ति गमहन (6495) इति अल्लोपः, अभ्यासाच्च (7355) इति घः-जघान, जघ्नुः विभाषा गमहनविदविशाम् (7268) इति वेट्-जघन्वान्, जघ्निवान् स्यसिच्सीयुट्तासिषु (6462) इति चिण्वदिट् च-घानिष्यते हन्तेर्जः (6436) जहि शत्रुम् हनो वध लिङि (2442) वध्यात् वधिभावात् सीयुट्चिण्वद्भावौ विप्रतिषेधेन (तु0 6450 वा0) वधिषीष्ट, घानिषीष्ट लुङि च (2443) अवधीत् आत्मनेपदेष्वन्यतरस्याम् (2444) आहत, आवधिष्ट, हनः सिच् (1214) इति कित्त्वम् अज्झनगमां सनि (6416) दीर्वः-जिघांसति यङ्-जङ्घन्यते, हन्तेर्हिसायां घ्नी (7430 वा0) जेघ्नीयते हनस्तोऽचिण्णलोः (7332) घातयति, अजीघतत् हनो वा वध च (3197 वा0) इति वा यत् -वध्यः घात्यः हनस्त च (31108) इति भावे क्यप्-ब्रह्महत्या लषपतपद (32154) इत्युकञ् घातुकः हनश्च वधः (3376) वध, घातो वा मूर्तौ घनः (3377) दधिघनः अन्तर्घनोदेशे (3378), अगारैकदेशे प्रघणः प्रघाणश्च (3379) उद्घनोऽत्याधानम् (3380), निधाय तक्ष्यते यत्र काष्ठं काष्ठं स उद्घनः (अमर 3235) अपघनोऽङ्गम् (3381) करणेऽयोविद्रुषु (3382) अयोघनः स्तम्बे क च (3383) स्तम्बघ्नः, स्तम्बघनः परौ घः (3384) परिघः उपघ्न अश्रये (3385) संघोद्घौ गणप्रशंसयोः (3386) निघो निमितम् (3387) घञर्थे कविधानाद् (द्र0 3358 वा0 विघ्नः, निघ्न आयत्ते (तु0अमर 3116) करणे हनः (3437) इति णमुल् उपलघातं हन्ति समूलाकृतजीवेषु हन्कृञ्ग्रहः (3436) समूलघातं हन्ति हिंसार्थानां च समानकर्मकाणाम् (3448) दण्डघातं गाः कालयति चरिचलिपतिवदीनां वा द्वे आक् चाभ्यासस्य, हन्तेर्घत्वं च (6112 वा0 काशिका) घनाघनः अशिषि हनः (3249) डः-अरातिहः, तिमिहः अपे क्लेशतमसोः (3250) क्लेशापहः, तमोपहः अन्येभ्योऽपि इति वरमाहन्ति-वराहः, पटे हन्यते-पटहः, कलं हन्ति-कलहः कुमारशीर्षयोर्णिनिः (3259) कुमारघाती, शीर्षघाती लक्षणे जायापत्योष्टक् (3252) जायाघ्नस्तिलकः, पतिघ्नः शक्तौ हस्तिकपाटयोः (3254) हस्तिघ्नः, कपाटघ्नः पाणिघताडघौ शिल्पिनि (3255) वक्तव्याद् (द्र03355 वा0) राजघः दारावाहनोऽण् अन्त्यस्य च टः संज्ञायाम् (3249 वा0) दार्वाघाटः, दार्वाघातः चारौ च (तु0 3249 वा0) चार्वाघाटः, चार्वाघातः समि च वर्णे (तु0 3249 वा0) वर्णसंघाटः, वर्णसंघातः कर्मणि हनः (3386) णिनिः-पितृघाती ब्रह्मभ्रूणवृत्रेषु क्विप् (3287) ब्रह्महा सम्पृच (32142) इत्यभ्याघाती शृस्वृस्निहि (उ0 110) इत्युः-हनुः हन्तेर्हि च (द0 उ0 734) हिमम् हनो वधः क्वुश्च (तु0 उ0 236) वधकः वॄतॄवदि (तु0 उ0 362) इति सः-हंसः हन्तेर्मुट् च हिश्च (तु0 उ0 3129) हेमन्तः हन्तेरंह च (उ0 462) अंहतिः वसिवपि (उ0 4115) इतीञ्-घातिः आङि श्रिहनिभ्यां ह्रस्वश्च (उ0 4138) अहिः नञ्याहन एह च (तु0 उ0 4224) इत्यसुन्-अनेहा कालः, उशनस्पुरुदंसोऽनेहसां (7194) सावन् हन्तेर्घुर च (तु0 श्वेत0 उ0 470) इति घोरः हन्तर्घ च इति युः-जघनम् हन्तेर्युड् आद्यन्तयोर्घत्वतत्वे च (तु0 उ0 542 द0 उ0 684) परिघातनः, परिघः (तु0 अमर 2992) 2
धातुवृत्तिः
Sanskritहनँ हन (अर्थः) हिंसा, गत्योः
(हन्ति हतः, घ्नन्ति हंसि हथः हथ हन्मि, हन्वः हन्मः) झलादौ क्ङित्यनुदात्तोपदेशेत्यनुनासिकलोपः झावन्तरङ्त्त्वादन्तादेशेऽजादित्वात्"गमहन'' इत्युपधालोपे "हो हन्तेर्ञ्णिन्नेषु '' इति ञिति णिति प्रत्यये नकारे च परे कुत्वविधानात्सोष्मणो घोषवतो नादवतो महाप्राणस्य हकारस्य तादृशो घकारः अत्रोपधालोपस्य स्थानिवत्त्वं नकारे परतः कुत्वविधानसामर्थ्यान्न्भवति, सत्यपि वा स्थानित्त्वे वचनसामर्थ्यादीदृशं व्यवधानमाश्रयिष्यते ( जघान, जघ्नतुः जघ्निथ जघन्थ जघ्न, जघान, जघन जघ्निव ) क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः, यत्रोपधालोपस्तत्र "द्विर्वचनेऽचि'' इति स्थानिवत्त्वाद् द्विर्वचनं, (जघ्निवान्, जघन्वान् ) "विभाषा गमहनविदविशाम्'' इति क्वसोरिड्विकल्पः, इति "गमहन'' इत्युपधालोपे "हो हन्ते'' इति कुत्वम्, अनिटि तु "अभ्यासाच्च'' इत्यभ्यासादुत्तरस्य हन्तिहकारस्य कुत्वम् चान्द्रास्तु भाषायामस्य प्रयोगमिच्छन्ति, (हन्ता, हनिष्यति) "ऋद्धनोःस्ये'' इतीट् ( हन्तु, हतात् हताम्, घ्नन्तु जहि, हतं, हनानि) तातङितस्य ङित्त्वादनुनासिकलोपः हौ "हन्तेर्जः'' इति जादेशः अस्य"असिद्धवदत्राभात्''इत्यसिद्धत्वात् "अतो हेः''इति लुङ् न भवति हतात्त्वमित्यत्र जादेशात्परत्वात्तातङि तस्य स्थानिवद्भावेन हित्वात्प्राप्तो( 1 ) ( 1 ) पुनरिति पुस्तकान्तरे पाठः जादेशःसकृद्गतिपरिभाषया न भवति (अहन् अहताम् अघ्नन्, अहन् अहतम् अहत अहनम् अहन्व) हल्ङ्यादिना तिस्योर्लोपः ( हन्यात् हन्याताम् हन्युःहन्याम हन्याव आशिषि (वध्यात् वध्यास्ताम् वध्याः वध्यासम् ) "हनोवध लिङि'' "आर्द्धधातुके'' इतिवधादेशे "ण्यल्लोप''इत्यादिना "अकृत्सार्वधातुकयोः'' इति दीर्घ( 2 ) ( 2 ) दीर्घौऽतो लोपेन बाध्यते इति पुस्तकान्तरे पाठः मतो लोपो बाधते ( अवधीत् अवधिष्टाम् अवधिषुः अवधीः अवधिषमवधिष्ट "लुङि च'' इति वधादेशः अल्लोपस्य स्थानिवत्त्वाद्धलन्तलक्षणा वृद्धिर्नं भवति, वधादेशस्यानेकाच्त्वादुदात्तत्त्वनिपातनादनुदात्तत्वाभावात्सिचो वलादिलक्षण इड् भवति यङ्लुगन्तस्यापि हन्तेर्लिङ्लुङोः प्रकृतिग्रहणन्यायेन वधादेशे वध्यादवधीदित्येव रूपम् अत्रादेशस्य स्थानिवत्त्वेन यङ्न्तत्वाद् द्विर्वचनं स्यादिति न वाच्यम् एवं हि प्रकृतिगतं साभ्यासत्वमप्यतिदिश्येत, ततश्चानभ्यासस्येति निषेधः स्यात् (आहते आघ्नाते, आघ्नते आहसे आघ्नाथे अहध्वे आघ्ने आहन्वहे आहन्महे ) पूर्व्ववज्झलादा( 3 ) ( 3 ) किङित्यधिकं क्कचित् वनुनासिकलोपः अजादौ तूपधालोपः "आङो यमहनः'' इत्यकर्म्मकात् [स्वाङ्गकर्म्मकाच्च] इति तङ् ( आजघ्ने आजघ्नाते आजघ्निषे, आहन्तासे, आहनिष्यते आहताम् आघ्नाताम् आहन्व आहनै) आटि पित्वान्नोपधालोपः (आहत, आघ्नाताम्, आहथाः आघ्नि आहन्वहि आघ्नीत आघ्नीयाताम् आघ्नीथाः आघ्नीय ) लिङस्सलोपः आशिषि ( आवधिषीष्ट, आवधिषीयास्ताम् ) "हनो वध लिङि'' इति वधादेश इडागमः (आवधिष्ट, आवधिषाताम् आवधिष्टाः आवधिषिढ्वम् आवधिषि) "आत्मनेपदेष्वन्यतरस्याम्'' इति पक्षे वधादेशः (अन्यदा आहत आहसाताम् आहसत आहथाः आहध्वमाहसि आहन्वहि) अत्र "हनः सिच्'' इति झलोदरात्मनेपदपरस्य "सिचः' कित्वादुननासिकलोपे "ह्रस्वादंगात्'' इति झलि सिचो लोपः "आङो यमहनः'' इति तङ् अकर्मकात्स्वाङ्गकर्मकाच्चेत्युक्तम् अथ कथमाजघ्ने विषमविलोचनस्य वक्ष इति अत्र केचिदाज इति पदं छित्त्वा घ्न इति भावे क्विपि चतुर्थ्येकवचनान्तमुक्त्वा घ्ने हन्तुमाज आजगामेत्यर्थ इति समर्थयन्ते तदयुक्तम् "अजेर्व्यघञपोः'' इति लिट्यार्द्धधातुके वीभावेन ( 4 ) ( 4 )भवितव्यमिति कुत्रचित् भाव्यत्वात् अन्येतु विषमविलोचनस्य समीपमेत्य स्वं वक्ष आस्फालितवानित्यर्थ इति मल्लो ह्युत्साहाविष्करणाय स्वं वक्षा आस्फालयतीति भागवृत्तौ तु नैवायं साधुरित्या( 5 ) ( 5 ) आयोधे युद्धे, आपेदे इति पुस्तकान्तरे पाठः योध इति पाठान्तरमुक्तम्, एवं च अहध्वं मा रघूत्तममिति भट्टिप्रयोगोऽपि चिन्त्यः तथा मदर्थेऽरीन् विजघ्निथेति च अत्र सिपः पित्त्वात् " असंयोगाल्लिट्कित्'' इत्यत्र चापिदित्यधिकारात् कित्त्वाभावादुपधालोपोऽपि दुर्लभः अपिदधिकारश्च "इन्धिभवतिभ्यां च'' इत्यत्र भवतिग्रहणाज्ज्ञायते तथाच तत्र वार्त्तिकमिन्धेः संयोगार्थं वचनं भवतेः पिदर्थमिति "आङो यमहनः'' इति तङ् प्रकृतिग्रहणन्यायेन यङ्लुगन्तादपि भवति ( आजङ्घते आजङ्घांचक्रे इत्यादि ) भवति अत्रापि लिङ्लुङोर्वधादेशे प्रकृतिवदेव रूपम् (आवधिषीष्ट आवधिष्ट) इति लुङि वधादेशाभावे आजङ्घनिष्टेत्यादि, "हनः सिच्"इत्यत्र झलीत्यधिकारा( 1 ) ( 1 ) इडादेरकित्वादिति पुस्तकान्तरे दिडागमे कित्त्वाभावादुपधालोपाभावः ( जिघांसति ) "अज्झनगमां'' इति दीर्घः "अभ्यासाच्च'' इति कुत्वं, (जङ्घन्यते ) "नुगताऽनुनासिकान्तस्य'' इति नुक् इदं चानुस्वारोपलक्षणार्थं पदान्तवदिति च प्रागेवोक्तम् तेन "वापदान्तस्य'' इति परसवर्णो विकल्पेनोदाहार्यः [ यङि हन्तर्हिंसायां घ्नीभावो वक्तव्यः ] इति घ्नीभावविधानाद् हिंसायां (जेघ्नीयत) इति भवति जङ्घनाति, जङ्घन्ति जङ्घतः जङ्घ्नति ) अत्र सुधाकरः के पुनरनुदात्तोपदेशायम्यादय इति व्याख्यातृभिर्गणत्वेन निर्द्देशान्निर्दिष्टं यद्गणेन चेति यङ्लुकि अनुनासिकलोपाभावादनुनासिकस्येति दीर्घ जङ्घात इत्युक्त्वा न क्वचिदाचार्येणानुदात्तोपदेशानां गणेन निर्द्देशः कृत इति भवितव्यमेवानुनासिकलापेनेत्याह "हन्तेर्जः'' इत्यत्र च न्यासे हन्तेरिति तिपा निर्देशाद् यङ्लुकि जभावाभावाज्जङ्घहीति भवतीति कृतानुनासिकलोपः प्रत्युदाहृतः, अत्र "असिद्धवदत्र'' इत्यनुनासिकलोपस्यासिद्धत्वाद्धि लुङ् न भवति अत्रात्रेयः-न्यासे प्रत्युदाहरणं जङ्घनीहि इति पठन् भाषायां हेरपित्त्वादीडभावाच्छान्दसमुदाहरणमित्याह (घातयति) (अजीघतत्)"हनस्तो चिण्णलोः'' इति हन्तेञिति णिति प्रत्यये चिण्णल्वर्जिते परे नकारस्य तकारः प्रकृतिग्रहणन्यायेन यङलुगन्तेऽपि तत्त्वे (जङ्घातयति) कर्म्मणि (हन्यते जघ्ये, हन्ता घानिता हनिष्यते घनिष्यते हन्यताम् अहन्यत हन्येत ) आशिषि (घानिषीष्ट, वधिषीष्ट अवधि अघानि अवधिषाताम् अहसाताम् अघानिषातामित्यादि) स्यादिषु चिण्वद्भावपक्षे वृद्धिकुत्वे नन्ववधीत्यत्र चिणि वधभावो दृश्यतइति चिण्वद्भावेन स कस्मान्नातिदिश्यते उच्यते नात्र चिणि दृष्टमात्रमतिदिश्यते किन्त्वाङ्गं चिणि दृष्टमिति वधादेशो न भवति लिङ्लुङोः कर्तृवद्वधादेशतद्विकल्पौ, लिङि चिण्वत्पक्षे वधादेशो न भवति, यतश्चिण्वदिट्परत्वेन पूर्वं वधादेशं बाधते, कृते तु सकृद्गतिपरिभाषया न भवति, ननु द्वितीयाध्याये "आर्द्धधातुके'' इति विषयसप्तमी, तेन प्रागेव प्रत्ययोत्पत्तेर्वधभावेन भाव्यं, चिण्वद्भावस्तु भावकर्म्मविषयेषु स्यादिषु परतो विधियत इति कथमन्तरङ्गबहिरङ्गयोर्विप्रतिषेधः नैष दोषः यत्रार्द्धधातुकसामान्यं निमित्तत्वेनोपादीयते "अस्तेर्भूः'' इत्यादौ तत्रैव विषयसप्तम्याश्रयणात्, न पुनर्यत्र विशेष उपादीयते "हनो वध लिङि''इत्यादौ तत्रापीति उक्तं चैवं चिण्वत्सूत्रे व्याख्यातृभिः वार्त्तिकं च [वधभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन ] इति कैयटेन तु विषयसप्तम्याश्रयणेनापि परिहार उक्तः यथा "एकाच उपदेशेनुदात्तात्'' इत्यत्र वक्ष्यति भाष्यकारः वधिषीष्टेत्यत्र निपातनस्वरं प्रत्ययस्वरो बाधिष्यते आर्धधातुकीयाः सामान्येन भवन्त्यनव( 2 ) ( 2 ) अनवस्थितेषु प्रत्ययेष्विति बहुषु पुस्तकेषु नास्ति स्थितेषु प्रत्ययेष्वित्येवं ब्रुवता लिङीति विषयसप्तम्येवाभ्युपगता, ततश्चान्तरङ्गत्वाद्वधभावः प्राप्रोति, प्रतिपदविधेर्बलीयस्त्वाच्चिण्वद्भावो भवतीति, कर्म्मकर्तरि आहते माणवकः स्वयमेव, आवधिष्ट माणवकः स्वयमेवेत्यत्र (यक्चिणोः प्रतिषेध) इत्यादिना यक्चिणोर्न्निषेधात् शप्सिचौ भवतः अत्र हरदत्तेनात्मनेपदविधावकर्म्मका ये धातवः निर्दिष्टास्ते यदान्तर्भावितण्यर्थाः सकर्म्मका भवन्ति तदा आत्मनेपदाकर्म्मका आहन्ति माणवकमिति तदा सकर्म्मकत्वादनुदाहरणमिति केचित् अन्ये त्वात्मनेपदाकर्म्मकेति धातूपलक्षणत्वात्कर्म्माविवक्षायामात्मनेपदस्य निमित्तत्वात्सकर्म्मकेऽप्यविरुद्धमुदाहरणमित्याहुः इत्ये( 1 ) ( 1 ) इदमत्राविगीतमुदाहरणमिति पुस्तकान्तरे पाठः तन्नाविगीतमुदाहरणम् "वेः शब्दकर्म्मणः'' "अकर्म्मकाच्च' विकुर्व्वते सैन्धवाः, वल्गन्तीत्यर्थः, तान्यदा ऽन्यो वल्गयति तदा तेषां कर्म्मकत्वं, पुनः सौकार्यातिशयाय कर्तृत्वविवक्षायां विकुर्वते सैन्धवाः स्वयमेव वल्गतीत्युक्तं, चोरस्य निप्रहन्ति, चोरस्य निहन्ति, चोरस्य प्रहन्ति, चोरस्य प्रणिहन्ति, अत्र "नेर्गद'' इति णत्त्वं, "जासिनिप्रहण'' इति कर्म्मणि शेषषष्ठी, तत्र निप्रग्रहणं संघातविगृहीतविपर्यस्तार्थमित्युक्तं, ( प्रहण्मि प्रहन्मि प्रहन्वः प्रहण्वः प्रहन्मः, प्रहण्मः ) अत्र "हन्तेरत्पूर्वस्य'' इत्युपसर्गस्थान्निमितात्परस्यात्पूर्वस्य हन्तिनकारस्य विधीयमानं णत्वं प्रहण्यते प्रहणानीत्यादाविव नित्यप्राप्तं "वमोर्वा'' इति नकारवकारयोः परयोर्विकल्प्यते प्राघानीत्यत्र "अत्पूर्वस्य'' इति तपरकरणाण्णत्वस्य न प्रसङ्गः, प्राहन्नित्यत्र तु ''पदान्तस्य'' इति निषेधः, प्रहन्तीत्यत्रानुस्वारे कर्त्तव्ये णत्वं पूर्व्वत्रासिद्धमिति न भवति, वृत्ते तु परसवर्णं तस्यासिद्धत्वात्पुनर्णत्वं न भवति, [ अन्तः शब्दस्याङ्किविधिणत्वेषूपसंख्यानम् ] इत्युपसर्गसंज्ञोपसंख्यानात्तत्पूर्वस्यापि सर्वमिर्द णत्वं द्रष्टव्यम्, अन्तर्णिहन्तीत्यादि एवं च "अन्तरदेशे'' इति हनो नकारस्य णत्ववचन प्रथांद्देशे णत्वनिषेधार्थं भवति अन्तर्हननो नाम वाहीकेषु ग्रामेषु देशविशेषः, अन्यत्रान्तर्हणनसिमति णत्वं भवति, मध्ये हननमित्यर्थः सर्वमिदं णत्वं तिपा निर्द्देशाद्यङ्लुकि न भवति प्रतिजङ्घतीत्यादि "जासिनिप्रहण'' इति षष्ठी तु भवत्येव चोरस्य प्रणिजंघतीत्यादि अन्तर्हत्य मध्ये हत्वेत्यर्थः, "अन्तरपरिग्रहः'' इत्यन्तरो गतित्वात् "कुगतिप्रादयः''इति तत्पुरुषे ल्यपि "वा ल्यपि'' इत्यनुनासिकलोपे तुक् वाग्रहणस्य व्यवस्थितविभाषात्वान्मान्तेषु विकल्पितो ऽनुनासिकलोपो ऽन्यत्र नित्यमित्युक्तम् परिग्रहेऽग्रतित्वादन्तर्हत्वा मूषिकां श्येनो गत इति भवति, परिगृह्येत्यर्थः अत्र न्यासोद्योते अन्तश्शब्दो धातोः परिग्रहे वृत्ति करोतीति, एवं चान्तरपि परिग्रहस्यैव द्योतक इत्युक्तं भवति, कणेहत्य पयः पिबति, मनोहत्य पयः पिबति ( सूत्रम्) कणेमनसीश्रद्धाप्रतीघाते (इति सूत्रम्) इति कणेमनःशब्दयोर्गतित्वे समासादिपूर्ववत्, अत्र कणेशब्दः सप्तमीप्रतिरूपको निपातो ऽभिलाषातिशये वर्तते, मनश्शाब्दोऽपि साहचर्यादभिलाषा वृत्तिरेवेति न्यासपदमञ्जर्याः, हन्तिरत्रावधीकरणाङ्गे निवृत्तौ वर्त्तते, सा च सन्निधानात्कणेमनश्श्ब्दार्थयोस्तौ च निवर्त्यमानतया ऽवधीति तयोश्च प्रतिघातो विषयतया विशेषणं, तदयमर्थः अभिलाषनिवृत्ति( 2 ) ( 2 ) मवधीकृत्येति क्कचित् पर्यन्तं पयः पिबतीति उक्तञ्च न्यासोद्योते, प्रतीघाते हन्तिरवधिकरणाङ्गे निवृत्तौ वर्त्तत इति अभिलाषनिवृत्तिमवधीकृत्य पयः पिबतीति, हरदत्तोऽपि अतिशयेन अभिलष्य तन्निवृत्तिपर्यन्तं पयः पिबतीत्यर्थः एवं चात्राभिलाषनिवृत्तेरबधीकरणस्य पयः पानात्पूर्वत्वात् क्वोपपत्तिः, श्रद्धाप्रतीघातादन्यत्र कणे हत्वामनो हत्वा, कणशब्दः सूक्ष्मे तण्डुलावयवे वर्त्तते, मनःशब्दस्तु चेतसि, योगद्वयमिदं ( 3 ) ( 3 ) अर्थस्वभावादिति क्कचित् स्वभावाद्धन्तिविषयं, (वध्यः ) "हनोवध च''इति कर्म्मणि यत्, तत्संनियोगेन वधादेशश्र, घात्य इति ण्यति (ब्रह्महत्या, ) "हनस्त च'' इत्यनुपसर्गे उपपदे क्यप् तत्संन्नियोगेननकारस्य तकारः सोपसर्गादनुपपदाच्च नायं विधिरिति ( 4 ) ( 4 ) सेघात इति अधिकम् घात इति घञ् भवति तयोरवेति भावलक्षणो ण्यदत्रानभिधानान्न भवतीत्यात्रेयः असिहत्यायां भवमासिहात्यम्, "अनुशतिकादीनां च'' इत्युभयपदवृद्धिः अत्र केचिदश्वहन्येति पठन्ति ततो विमुक्तादित्वादश्वहत्त्याशब्दो ऽस्मिन्नध्यायेस्तीत्यण्याश्वहात्यमिति भवति, हत्याशतं पानसहस्रमित्यादावनुपपदे क्यबार्षः घनाघनः [हन्तेर्घत्वं च] इत्यचि द्विर्वचनमभ्यासस्यागमो हकारस्य घकारः, परस्य "अभ्यासाच्च'' इति कुत्वम्, आको दीर्घोच्चारणसामर्थ्यान्न हलादिशेषः, यदिस्यादकमात्रं विदध्यात्सवर्णदीर्घेणाकारो भविष्यति, पररूपं त्वग्विधान( 1 ) ( 1 ) सामथ्यीदिति पुस्तकान्तरे पाठः वैयर्थ्यान्न भविष्यति शत्रुहः शत्रुं वध्यादित्यर्थः "आशिषि हन'' इत्याशिषि गम्यमानायां कर्म्मण्युपपदे डप्रत्ययः डित्त्वसामर्थ्याट्टिलोपः दार्वाहन्तीति दार्वाघाटः, [ दारावाहनो ण्यन्तस्य चटः संज्ञायाम् ] इत्याङ्पूर्वाद्धन्तेः कर्त्तर्यण्, नकारस्य च टकारः चार्वाहन्तीति चार्वाघाटः चार्वाघातो वा [ चारौ वा ] चारौ कर्म्मण्युपपदेऽण्प्रत्यये नकारस्य वा टकारः तदभावे "हनस्तोऽचिण्णलोः'' इति तत्वं, क्रियाविशेषणत्वाच्चारोः कर्म्मत्वं, वर्णान्संहन्तीति वर्णसंघाटो वर्णसंघातो वा, [ कर्म्मणि समि च ] इति कर्म्मणि समि चोपपदेऽण् वा ऽन्त्यस्य च टकारः क्लेशापहः, तमोपहः "अपेः क्लेशतमसोः'' इति क्लेशतमसोः कर्म्मणोरुपपदयोरपपूर्वाद्धन्तेर्डः, "स्रगियं यदि जीवितापहा' इति प्रयोगस्तु"क्विप् च'' इति सार्व्वकालिके क्विपि, "ऋन्नेभ्य'' इति ङीब् न भवति, बह्वादिषु ङीष्विकल्पार्थं हन्निति पाठात् यदि हि ङीषभावेङीप्स्याद् गौरादिष्वेव हन्तिति पठित्त्वा नित्यं ङीषमेव विदध्यात्, अथवा तदपि न कुर्यात्, ङीपैव सिद्धत्वात् नात्र ङीष्ङीपो रूपे विशेषोऽस्ति, नापि स्वरे जीवितापहशब्दस्य "गतिकारकोपपदात् कृत्'' इत्युत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वेऽन्तोदात्तस्य ङीपो "अल्लोपोऽनः'' इत्युदात्तलोपनिमित्तस्य"अनुदात्तस्यच यत्रोदात्तलोपः'' इत्युदात्तत्वात्, तस्माद्बह्वादिषु हन्निति ङीष्विकल्पसामर्थ्यात्तदभावे ङीब् न भवति, ज्वरापहादिवत् "अन्यष्वपि दृश्यते'' इति डो वा कुमारघाती शीर्षघाती, "कुमारशीर्षयोर्षयोर्णिनिः'' इत्यनयोः कर्म्णोरुपपदयोर्हन्तेः कर्त्तरि णिनिः अस्मादेव निर्द्देशात्प्रत्ययसंनियोगे शिरसः शीर्षभावः जायाघ्नो ब्राह्मणो, जायाहननहेतुलक्षणयुक्त इत्यर्थः एवं पतिघ्नी वृषली "लक्षणे जायापत्योष्टक्" इत्यनयोः कर्म्मणोरपपदयोर्हन्तेर्हननलक्षणवति कर्त्तरि ट्क, लक्षणमात्रे उत्तरसूत्रेण सिद्धत्त्वाद्वान्निहलक्षणशब्देनोच्यते कित्त्वात् "गमहन'' इत्युपधालोपः, टित्त्वान्डीप् (जायघ्नः ) तिलकालकः पतिघ्नी पाणिरेखा श्लेष्मघ्नं मधु "अमनुष्यकर्तृके च'' इति कर्म्मण्युपपदे मनुष्यादन्यकर्तृके हन्त्यर्थे टक् मनुष्ये त्वणेव, आखुघातः शूद्रः कृतघ्नो ब्राह्मणो गोघ्नो( 2 ) ( 2 ) शत्रुध्न इत्यघिकं कुत्रचित् ब्रह्मध्न इति पुस्तकान्तरे आधेकं ब्राह्मण इति च नास्ति ब्राह्मण इत्यादिषु "कृत्यल्युटो बहुलम्'' इति बहुलवचनाट्टकृ, मूलविभुजादित्वात्क इत्येके अनयोः स्त्रियां विशेषो ङीप्टाब्भ्यां चोरघातो हस्तीत्यत्रामनुष्ये कर्तर्यप्यस्मादेव बहुलवचनादण् भवति, हस्तिघ्नो भटः, हस्तिहनने शक्त इत्यर्थः एवं कपाटघ्नश्चोरः "शक्तौ हस्तिकपाटयोः'' इत्यनयोः कर्म्मणोरुपपदयोश्शक्तौ गम्यमानायां हन्ते ष्टक् अशक्तौ विषेण हस्तिनं हन्ति हस्तिघात इत्यण् भवति, पाणिघस्ताडघः, शिल्पिविशेषौ "पाणिघताडघौ शिल्पिनि'' इति पाणिताडयोः कर्म्मणोरुपपदयोर्हन्तेष्टकि टिलोपघत्वे च निपात्येते, शिल्पिनोऽन्यत्र पाणिघातः सूत्रद्वयमिदं मनुष्यकर्त्रर्थं( 3 ) ( 3 ) कर्तृकार्यमिति क्कचित् पाठः राजानं हन्तीति राजघस्तीक्ष्णुच्यते [ राजघ उपसंख्यानम् ] इति पूर्व्ववन्निपात्यते पितृव्यं हतवान् पितृव्यघाती "कर्म्मणि हनः'' इति कर्मण्युपपदे कुत्सिते कर्त्तरि भूते णिनिः अकुत्सिते चौरघात इत्यणेव, ब्रह्माणं हतवान् ब्रह्महा, एवं भ्रूणहा वृत्रहा, ब्रह्मभ्रूणवृत्तेषु क्विप्'' इति हन्तेर्ब्रह्मादिषूपपदेषु भूते क्विप् "क्विप् च'' इति सामान्येन क्विपि सिद्धे नियमार्थ सूत्रं, चतुर्विधश्चात्र नियमः धातूपपदप्रत्ययकालविषयः, तेन हिमहेत्यादौ "क्विब् च'' इति क्विप् सार्वकालिकः "सौ च'' इति दीर्घः ब्रह्महणावित्यादिषु "इन्हन्पूषार्यम्णांशौ'' इति शावेव प्रत्ययउपधालक्षणमात्रो दीर्घो नान्यत्रेति नियमात्सर्व्वनामस्थाने दीर्घो न भवति, नापि क्विपमाश्रित्यानुनासिकस्य क्विप्झलोरिति ननु सर्वनामस्थानदीर्घनिषेधसामर्थ्यादेव क्विबाश्रयोऽपि दीर्घो न भविष्यति, सत्यमिह वृत्रहणी ब्राह्मण कुले इति वृत्रहणि ब्राह्मणइति नपुंसकद्विर्वचनसप्तेकवचनान्तयोश्च "अल्लोपोऽनः'' इत्यनन्तस्य भस्य विधीयमाने लोपे"विभाषा ङिश्योः'' इति विकल्पिते क्विपमाश्रित्यानुनासिकस्य क्विः'' इति दीर्घः स्यात् अयं दीर्घनियम उपधालक्षणस्यैव नान्यस्येति वृत्रहेवाचरतिवृत्रहायत इत्यत्र "अकृत् सार्वधातुकयोः'' इति दीर्घो भवति, वृत्रहणावित्यादौ ( सूत्रम्) एकाजुत्तरपदेणः (इति सूत्रम्) इति णत्वम्, एकाजुत्तरपदं यस्य तत्र समासे उत्तरपदप्रातिपदिकान्तनुम्विभक्तिस्थनकारस्य पूर्व्वपदस्थान्निमित्तात्परस्य नित्यं ण इति सूत्रार्थः भसंज्ञायामल्लोपउत्तरपदस्यानच्कत्वात् स्थानिवद्भावश्चाल्विधित्वान्नेत्येकाजुत्तरपदत्त्वाभावादिति"प्रातिपदिकान्तनुम्बिभक्तिषु च'' इति विकल्पो भवति वृत्रहणो वृत्रघ्न इति अत्राधिकृतस्य पूर्व्वपदस्य सम्बन्धिशब्दत्वात्तेनाक्षिप्तेनोत्तरपदेन प्रातिपदकिस्य विशेषणादुत्तरपदप्रातिपदिकान्ते नुमि विभक्तौ च स्थितस्य नकारस्य पूर्वपदस्थान्निमित्तादुत्तरस्य वा ण इति सूत्रार्थः तेन गर्गाणां भगिनी गर्गभगिनीत्यत्र यदुत्तरपदं भगिनीशब्दो न तत्प्रातिपदिकं नापि नान्तम् यन्नान्तं भगिन्निति प्रातिपदिकं न तदुत्तरपदमिति णत्त्वं न भवति गर्गभगिणीशब्दस्तु गर्गाणां भगो गर्गभगः सोऽस्यास्तीतीन्प्रत्यये "रषाभ्याम्'' इति णत्वे नन्वस्य, पूर्व्वपदात्संज्ञायामगः'' इति पूर्व्वपदस्थान्निमित्तादुत्तरे यदि भवति संज्ञायामेवेति नियमात्कुतो णत्वप्रसङ्गः नैष दोषो, यतो ऽत्र पूर्वपदग्रहणेन सम्बन्घिन उत्तरपदस्याक्षेपात्तत्स्थस्यैवायं नियम इति अत्र च नकारो नोत्तरपदस्थः किन्तु समासप्रातिपदिकाद्विहितेनिप्रत्ययस्थः, एवं च मातृभोगीणइत्यादौ भोगोत्तरपदलक्षणे खे नित्यं णत्त्वं भवति माषानभीक्ष्णं वपति माषवापिणी माषवापिनीत्यत्र"बहुलमाभीक्ष्णे''इति सुप्युपपदे आभीक्ष्णे गम्यमाने णिनौ "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सबुत्पत्तेः'' इति कृदन्तावस्थायामेव समासे पश्चात्ततो ङीबितिणिनेर्नकार उत्तरपदप्रातिपदिकान्तस्य इति णत्त्वविकल्पः (अभ्याघाती) "सम्पृच'' आदिना घिणुन् (घातुकः) "लषपत्'' इत्यादिनोकञ् (विघ्नः) [ घञर्थे कविधानम् ] इति कः (वघः) ( सूत्रम्) हनश्च वधः (इति सूत्रम्) इत्यनुपसृष्टाद्धनो भावेऽप्रत्ययस्तत्सन्नियोगेन वधादेशश्च, "हनश्च'' इति चकारो भिन्नक्रमोनुवृत्तस्यापोनन्तर इति घञपि भवति घात इति, भावादन्यत्रोसृष्टात् भावे च घञेव, हन्यत इति घातः आहन्यते आहननमिति वाअघातः, ननु वधिःप्रकृत्यन्तरमस्ति तस्मात्सिद्धं घञि "जनिवध्योश्च'' इति ञिति णिति कृति यदुक्तं तन्नेति वृद्धिनिषेधाद्वध इति भविष्यति हन्तेश्च घात इति किं "हनश्च वधः'' इत्यनेन, उक्तं च जनिवध्योरित्यत्र वृत्तौ, वधिः प्रकृत्यन्तरं व्यञ्जनान्तमप्यस्ति तस्यायं प्रतिषेधो विधीयतइति, तथा च हरदत्तोऽपि वध हिंसायामिति भ्वादौ पाठादिति, सत्यमेवं, वध इति रूपं सिध्यति स्वरस्तु न ( 1 ) ( 1 ) भिद्यते इति पुस्तकान्तरे पाठः सिध्यति अयं ह्यादेशो ऽकारान्तोदात्तः, तत्रापमाश्रित्यातोलोपउदात्तनिवृत्तिस्वरेणाप उदात्तत्वादन्तोदात्तो वधशब्दः, घञि त्वाद्युदात्तः, एवं च कर्म्मण्युपसर्गेऽपि हनो वधादेशाभावस्य प्रयोजनमन्तोदात्तवधशब्दनिवृत्तिर्भवति प्रकृत्यन्तरेणाद्युदात्तो भवत्येव ( अभ्रघनः) अभ्रस्य काठिन्यमित्यर्थः "मूर्त्तो घनः'' इति हनोऽप्प्रत्ययेऽपि घनादेशः, मूर्त्तिरिह काठिन्यं, घनं दधीत्यादौ धर्मशब्देन धर्मी भण्यते अन्तर्घणो वाहीकदेशविशेषः "अन्तर्घनो देशे'' इत्यन्तःपूर्वस्य हनोऽपि घनादेशो निपात्यते, केचिदन्तर्घणइति णकारं पठन्ति तदपि ग्राह्यमेवेति वृत्तितद्व्याख्यानेषु देशादन्यत्रान्तर्घातः, प्रघणः प्रघाणः ( सूत्रम्) अगारैकदेशे प्रघणप्रघाणश्चः (इति सूत्रम्) इति प्रपूर्व्वस्य हनोऽपि घनादेशो वा वृद्धिश्च निपात्यते अत्रागारैकदेशशब्दो निपातनस्य रूढ्यर्थत्वाद्वाह्ये द्वारप्रकोष्ठके वर्त्तते, प्रघाण इत्यत्र णत्वमपि निपात्यते, "हन्तेरत्पूर्व्वस्य'' इति तपरकरणान्न प्राप्नोति अगारैकदेशादन्यत्र प्रघातः (उद्धनः) ( सूत्रम्) उद्वनोत्याधानम् (इति सूत्रम्) इति निपात्यते तदुपरि यस्य निधायान्यत्काष्टं तक्ष्यते तदिहात्याधानम्, अपघनःपाणिःपादश्च, ( सूत्रम्) अपघनोऽङ्गम् (इति सूत्रम्) इत्यपपूर्व्वस्य हनोपि घनादेशो निपात्यते अयो हन्यते येन सोऽयोघनः विहन्यते येन स विघनः समीकरणसाधनम् द्रुर्हन्यते येन स द्रुघनः, ( सूत्रम्) करणेयोविद्रुषु (इति सूत्रम्) इत्ययोविद्रुषूपपदेषु हनोऽपि घनादेशः अत्र वृत्तौ द्रुघण इति केचिदुदाहरन्ति तत्र कथं णत्त्वमरीहणादिपाठात्"पूर्वपदात्सञ्ज्ञायाम्'' इति वेति अन्यत्रायोघात इत्यादि भवति, स्तम्बघ्नः स्तम्बघनः दात्रादिः ( सूत्रम्) स्तम्बे कच (इति सूत्रम्) इति स्तम्बशब्दउपपदे करणे हनः कः प्रत्ययः, चकारादप्, तत्संनियोगेन घनादेशश्च अत्र स्त्रियां विप्रतिषेधेन क्तिन् प्राप्रोति तं बाधित्त्वा "करणाधिकरणयोः'' इति ल्युड् भवति, अत्र भाष्यम्., अथ यया इषीकया स्तम्बो हन्यते कथं तत्र भवितव्यं, के चिदाहुः स्तम्बघ्नेति भवितव्यम् अपरे आहुः स्तम्बहेतिरिति, "ऊतियूतिजूतिसातिहेतिकीर्तयश्च''इति निपातनादिति अपर आहुः स्तम्बहननीति भवितव्यं वक्ष्यत्येतत् "अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन'' इति, अत्र कैयटे स्तम्बघ्नेति कप्रत्यये रूपं, तस्य सर्वापवादत्त्वादिति भावः, स्तम्बहेतिरिति निपातनस्य सर्व्वापवादत्त्वादिति भाव इति, अत्र हरदत्तः कापोः सर्वापवादत्वात् "कृत्यल्युटो बहुलम्'' इति बहुलवचनाद्वेति स्त्रियां स्तम्बघ्ना स्तम्बहनेति भवति इति (परिघः) ( सूत्रम्) परौ घः (इति सूत्रम्) इति परावुपपदे करणे हनीप्प्रत्ययो घश्चादेशः ( सूत्रम्) परेश्च घाङ्कयोः (इति सूत्रम्) इति परे रेफस्य वा लत्वं, (पलिघः प्रतिघः) इति बाहुलकादित्यात्रेयः उपघ्नः प्रत्यासन्नः ( सूत्रम्) उपघ्न आश्रये (इति सूत्रम्) इत्युपपूर्वाद्धनोऽप्युपधालोपो निपात्यते, इहाश्रयशब्दः प्रत्यासन्नवचनः, संघः प्राणिसमुदायः, उद्धः प्रशस्तः, ( सूत्रम्) संघोद्धौ गणप्रशंसयोः (इति सूत्रम्) इति समुद्भ्यां हनोपि टिलापो घत्त्वं च गणेऽभिधेये प्रशंसायां च गम्यमानायां, हनो गत्यर्थत्त्वाद्गत्यर्था बुद्ध्यर्था इत्युक्तम्, उद्धन्यते( 1 ) ( 1 ) उत्कटमिति कुत्रचित् पाठः उत्कर्षण ज्ञायते इति व्युत्पत्य प्रशंसावगतिः, इह गणशब्देन प्राणिनां गण उच्यते संघशब्दस्य तत्रेव प्रसिद्धत्वात्तेनान्यत्र समूहे सङ्खात इति भवति ब्राह्मणसङ्घात इत्यादौ प्राणिविषयत्वं पदान्तरकृतं न तु स्वाभाविकमित्यदोषः आत्रेयस्तु हन्त्यर्थश्चेति चुरादिपाठाद् णावेव सङ्घातशब्दमाह सङ्घस्य पूरणः सङ्घतिथः "तस्य पूरणे' इति डटि "बहुपूगगणसंघस्य तिथुक्'' इति तिथुगागमः (निघः) समारोहपरिणाहः, आरोह उच्छ्रायः, परिणाहा विस्तरः "निघो निमित्तम्'' इत्यपि निपात्यते, निमित्तं समन्तान्मितम् आरोहपरिणाहाभ्यां तुल्यत्वेन ज्ञातमिति व्युत्पत्तिः, पूर्व्ववद्धनो ज्ञानार्थत्वं, हेतिः, "ऊतियूति'' इत्यादिना क्तिनि नलोप एत्वं च निपात्यते, "हिनोतेर्वा'' गुण एतन्निपातनं, केचिदनुशतिकादिष्वस्य हेतिरिति पठन्ति, ततः प्रयोजनमिति ठकि आस्यहैतिक इति भवति अत्रैव पाठाद्वाक्यादपि प्रत्ययः समूलवातंहन्ति "समूलाकृतजीवेषु हन्कृञग्रहः'' इति समूलादिषु कर्म्मसूपपदेषु यथासङ्खं हनादिभ्यो णमुल् प्रत्ययो भवति कषादित्वाद्यथाविध्यनुप्रयोगः पाणिघातं वेदिं हन्ति पाणिना हन्तीत्यर्थः, ( सूत्रम्) करणे हनः (इति सूत्रम्) इति णमुल्, पूर्व्ववदनुप्रयोगः, अहिंसार्थोऽयमारम्भो हिंसायां तु पाण्युपघातः अत्रापि हिंसार्थानामिति णमुलं बाधित्वा पूर्व्वविप्रतिषेधेनानेनैव णमुलिष्यते अन्यथाऽसिघातं हन्तीत्यादौ "तृतीयाप्रभृतीन्यन्यतरस्याम्'' इति समासविकल्पः स्यात्, कथं तहिं हिंसार्थानामित्यत्र वृत्तौ दण्डोपघातं गाः शात( 2 ) ( 2 ) यति दण्डेनोपघातमिति चेत्युदाहृतम् कालयतीति कुत्रचित् पाठः हृतम् उच्यते, हिंसार्थानां चेति चकारेण पुनर्विधानार्थम् पूर्व्व विप्रतिषेधेन प्राप्तस्य "करणे हनः'' इति णमुलो बाधात्, एवं च पूर्वविप्रतिषेधवचनं तस्यैवानुप्रयोगे नित्यसमासार्थं भवति, गौर्यस्मै दातुं हन्यते स गोघ्नो अतिथिः "दाशगोघ्नौ सम्प्रदाने'' इत्युपधालोपो निपात्यते, केचित् टकिं निपातयन्ति तन्मते स्त्रियां गोघ्नीत्यात्रेयः, (जङ्घा) यङ्लुगन्तात्पचाद्यचि "नासिकोदरौष्ठज'' इति निपातनाट्टिलोप इत्यात्रेयः कण्ठपृष्ठकटिग्रीवेत्यत्र न्यासे तु यङ्लुगन्तादेवाचि टिलोपमुक्त्वा "हन्तेर्जङ्घ च''इत्यपि जङ्घादेशे व्युत्पादितं, जङ्घाभ्यां स्वाहेत्यादावाद्युदात्तत्वं व्यत्ययेनात एवाद्युदात्तत्वदर्शनात् घञि निपातनमस्त्विति न वाच्यं, कण्ठपृष्ठग्रीवाजङ्घञ्चेति बहुव्रीहौ संज्ञायां जङ्घाशब्दस्योत्तरपदाद्युदात्तत्ववचनात् घञि ह्युत्तरपदप्रकृतिस्वरमेव विदध्यात्, विस्तीर्णजङ्खा विस्तीर्णजङ्खी "नासिकोदरौष्ठ'' इत्यादिना वा ङीष् वधमर्हति ( वध्यः ) "दण्डादिभ्य'' इति यत्, अत्र केचित् य इत्यतकारान्तं पठन्ति तत् "अचो यत्'' इत्यत्र [ हनो वध च तद्धितो वा ] इति वार्त्तिंकविरोधादुपेक्ष्यं, तदिदं ( 1 ) ( 1 ) तदिदानीमिति क्कचित् किमर्थं "कर्तृकरणे कृता बहुलम्'' इति समासेऽसिवध्य इति यथा स्यादिति दण्डादियता तु न सिध्यति तत्र केवलस्य वधशब्दस्य पाठात्तदन्तविध्यभावाच्च, अयं तर्हि किमर्थः, न वध्यः अवध्य इत्यत्र "ययताश्चातदर्थ'' इति नञः परस्यातदर्थयत्तद्धितान्तस्योत्तरपदस्य विधीयमानमाद्युदात्तत्वं यथा स्यादिति, कृदन्तेन तु समासे "तत्नपुरुषे तुल्य'' इति पूर्व्वपदाद्युदात्ततृवं स्यात् ( पुत्रहतः ) वा हतजन्घपरेष्विति पुत्रतकारस्य वा द्वित्वं, कुमारिहता, "कुत्सितानि कुत्सनैः''इति कर्म्मधारये "घरूप'' इत्यादिना ह्रस्वः कुमार्या हतेत्यत्र तु वैयधिकरण्यान्न ह्रस्वः तेन कुमारीहतेति भवति, ( स्त्रीहता स्त्रिहता, ब्रह्मबन्धूहता ब्रह्मबन्धुहता ) "नद्याश्शेषस्य'' इति वा ह्रस्वः लक्ष्मीहतेत्यत्र तु [ कृव्रद्याः प्रतिषेधः ] इति प्रतिषेधान्न ह्रस्वः ( विदुषीहता विदुषिहता, श्रेयसाहता श्रेयसिहता, ) "उगितश्च'' इति वा ह्रस्वः, विद्वच्छ्रेयसोः पुंवद्भावश्च वृत्तावुक्तं ( विद्वद्घता, श्रेयाहता ) आत्रेये तु महच्छब्दस्य पुंवद्भाव उच्यते महद्धतेति पादाभ्यां हन्यते इति ( पद्धतिः ), "हिमकाषिहतिषु च'' इति पादस्य पद्भावः ( पद्धती ) बाह्वादित्वाद्वाङीष् ( वार्त्रघ्नः ) "तस्येदम्'' इत्यादिनाणि "षपूर्वहन्धृतराज्ञामणि'' इत्यल्लोपः "धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्' "हनस्त'' इति तत्त्वं न भवति, ( भ्रौणहत्यं ) "दाण्डिनायनहास्तिनायनाथर्व्वणिक जैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि'' इति नकारस्य तत्वं ष्यञि निपात्यते (हथो) विषण्णः "हनिकुषि'' इत्यादिना क्थनि "अनुदात्तोपदेश'' इत्यनुनासिकलोपः (हिमम्) "हन्तेर्हि च'' इति मकि हि भावः, हिमं न सहते (हिमेलुः) [ हिमाच्चेलुर्वक्तव्यः ] इति तन्न सहते इति विषये चेलुः (महद्धिमं हिमानी) "इन्द्रवरण'' इत्यादिना ङीषानुकौ तत्र [ हिमारण्ययोर्महत्वे ] इति पठ्यते ( हेमन्तः ) "हन्तेर्मुट् हि च'' इति झच्प्रत्यये मुडागमः, धातोर्हिभावे गुणः, झस्य चान्तादेशः हेमन्ते भवं ( हैमन्तिकं ) "हेमन्ताच्च'' इति शैषिकस्ठञ् यद्यप्यत्र सूत्रे छन्दोग्रहणमनुवर्त्तितं वृत्तौ तथाप्युत्तरसूत्रे सर्वत्र ग्रहणादयं भाषाविषयोऽपीति वृत्तावेवोक्तं, ( हैमनं ) "सर्वत्राण् च तलोपश्च'' इत्यणि तलोपः, अत्र चकारेण ऋत्वणोभ्यनुज्ञानाद्धैमन्तमित्यपि भवति, तलोपोऽत्र न भवति, सर्वत्राणिति विधीयमानाण्संनियोगशिष्टत्वात्तस्य, (हनुः) "शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिवन्धिमनिभ्यश्च'' इत्युप्रत्ययः ( परिहनुभवं पारिहनव्यम् ) "अव्ययीभावाच्च'' इति भवार्थे ञ्यः तत्र [ परिमुखादिभ्य उपसंख्यानम्] इति परिमुखादिरेवाव्ययीभावः परिगण्यते ( हनुलः ) "सिध्मादिभ्यश्च'' इति मत्वर्थे लच् ( हनूमान् ) "शरादीनाच्च'' इति संज्ञायां मतौ दीर्घः अत्रैव पाठान्मतुपः "संज्ञायाम्'' इति वत्वं यवादेराकृतिगणत्वान्न भवति ( हंसः ) वृतॄवदि'' इत्यादिना सः आगत्य हन्तीति ( अहिः ) "आङि श्रिहन्तिभ्यां ह्रस्वश्च'' इतीण् प्रत्ययः स च डित् पूर्वपदस्य च ह्रस्वः, डित्त्वाट्टिलोपः, आङो ह्रस्वः अहौ भवमाद्देयं, "दृतिकुक्षि'' इत्यादिना ठञ् ( अहीवती ) शरादित्वाद्दीर्घः, "संज्ञयाम्'' इति वत्वम् ( उपहत्नुः ) "कृहनिभ्यां क्त्नुः'' इति क्त्नुः कित्त्वादनुनासिकलोपः, ( अनेहा अनेहसौ ) "नञि हन एह च'' इति नञ्युपपदे असुन् एहादेशश्च हनः, "नलोपो नञ'' इति उत्तरपदे नञोः न लोपः, "तस्मान्नुडचि' इति लुप्तनकारानञः परस्याजादेरुत्तरपदस्य नुडागमः "ऋदुशन'' इत्यादिनाऽङादेशः, सावसम्बुद्धौ "सर्वनामस्थाने च'' इति दीर्घः, सम्बुद्धौ तु हे अनेहः, (जघनं) "हन्तेर्द्वेच'' 1 ) ( 1 ) हन्तेर्द्वित्वचेति क्वचित्पाठः इत्यलचोरन्यतरस्मिन् द्वित्वम्, "अभ्यासाच्च'' इति कुत्वं, जघने भवं, तस्मै हितं वा जघन्यं, "दिगादिभ्यो यत्'' "शरीरावयवाच्च'' इति योगाभ्यां यत् दिगादावस्य पाठोऽशरीरावयवार्थः (प्लीहा) "श्वन्नुक्षन्'' इत्यादिना कनिनन्तो निपातितः "उणादयोऽव्युत्पन्नानि प्रातिपदिकानि' इति व्युत्पत्तिकार्याभावात् "इन्हन्पूषा'' इति नियमाभावात्सर्वत्र सर्वनामस्थाने दीर्घो भवति ( प्लीहा प्लीहानौ ) इत्यादि अदिहनी अनुदात्तावुदात्तेत्तौ 2
कृदन्तरूपमाला
Sanskrit1 {@“हन हिंसागत्योः”@} 2 3 घातकः-तिका, 4 घातकः-तिका, 5 जिघांसकः-सिका, 6 जेघ्नीयकः-यिका, 7 8 जङ्घनकः-निका
हन्ता-त्री, घातयिता-त्री, जिघांसिता-त्री, जेघ्नीयिता-जङ्घनिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगच्छतिवत् 9 बोध्यानि।
10 हनिष्यन्- न्ती-ती, 11 आहनिष्यमाणः, 12 प्रणिघ्नन्- 13 व्यतिघ्नन्-आघ्नन्-चौरस्य 14 निप्रघ्नन्- न्ती, 15 हत्वा-हतः-हतवान्-हतिः, 16 पद्धतिः, पदोपहतः, 17 पुत्त्रहतः-पुत्रहतः, 18 कुमारिहता, 19 20 स्त्रीहता-स्त्रिहता-ब्रह्मबन्धूहता-ब्रह्मबन्धुहता, 21 लक्ष्मीहता, 22 विदुषिहता- विदुषीहता-श्रेयसीहता-श्रेयसिहता, विद्वद्धता-श्रेयोहता, 23 महद्धता, 24 अन्तर्हत्य, 25 कणेहत्य-मनोहत्य, 26 घात्यः-वध्यः, 27 ब्रह्महत्या-असिहत्या, 28 अश्वहत्या, 29 हत्याशतं पानसहस्रम्’ 30 31 घनाघनः, 32 शत्रुहः, 33 दार्वाघाटः, 34 दार्वाघातः, 35 चार्वाघाटः-चार्वाघातः, 36 वर्णसंङ्घाटः-वर्णसङ्घातः, 37 क्लेशापहः-तमो- ऽपहः, ‘स्रगियं यदि 38 जीवितापहा’ ज्वरापहा, निश्शेषजाड्यापहा, 39 जघ्निवान्- जघन्वान्, 40 तिमिहः-अरातिहः, वराहः-पटहः-कलहः, 41 अभ्याघाती, 42 कुमारघाती-शीर्षघाती, 43 ज्यायाघ्नः, पतिघ्नी, 44 45 श्लेष्मघ्नम्-मधु, 46 आखुघातः, 47 कृतघ्नः, 48 गोघ्नः, 49 हस्तिघ्नः-कपाटघ्नः- कवाटघ्नः, 50 पाणिघः-ताडघः, 51 पितृव्यघाती, 52 ब्रह्महा-भ्रूणहा-वृत्रहा, 53 वृत्रघ्नः- वृत्रघ्णः, 54 घातुकः-घातुकी, 55 वधकः, 56 57 वधः, 58 विघ्नः, 59 अब्भ्रघनः, 60 अन्तर्घनः-अन्तर्घणः, 61 प्रघणः-प्रघाणः, 62 उद्धनः, 63 अपघनः, 64 अयोघनः, विघनः, द्रुघनः-द्रुघणः, 65 स्तम्बघ्नः-स्तम्बघनः, 66 परिघः- पलिघः, 67 प्रतिघः, 68 69 पर्वतोपघ्नः, उपघ्नः, 70 सङ्घः-उद्धः, 71 सङ्घातः, 72 हेतिः, 73 निघः, 74 निघ्नः, 75 समूलघातं हन्ति, 76 पाणिघातं वेदिं हन्ति, 77 दण्डोपघातं गाः शातयति, 78 प्रहणनम्, इतीमानि विशेषरूपाणि।
जङ्घा, जघनम्, परिघातनः, हनुः, हनु79मान्, हनूः, हिमम्, हेमन्तः, अंहतिः, घातिः, अहिः, अनेहा, घोरः, हंसः, इमे औणादिकाः।
01 (१९९२)
02 (२-अदादिः-१०१२। सक। अनि। पर।)
03 [[३। ‘ण्वुल्तृचौ’ (३-१-१३३) इति ण्वुल्। ‘हो हन्तेर्ञ्णिन्नेषु’ (७-३-५४) इति हन्तेर्हकारस्य कुत्वम्। सोष्मणो घोषवतो नादवतो महाप्राणस्य हकारस्य तादृश एव घकार आदेशो भवति। इदमुत्तरत्रापि ञित्-णित्-प्रत्ययेषु नकारे च परत्र भवति। ‘हनस्तोऽचिण्णलोः’ (७-३-३२) इति धातुनकारस्य तकारः।]]
04 [[४। णिजन्तेऽपि सर्वत्र हन्तेर्हकारस्य कुत्वं घकारः, नकारस्य तकारश्च पूर्ववत् बोध्यः।]]
05 [[५। सन्नन्ते ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः, द्विर्वचनादिकम्, अभ्यासे ‘कुहोश्चुः’ (७-४-६२) इति चुत्वेन जकारः, ‘अभ्यासाच्च’ (७-३-५५) इति उत्तरखण्डे कुत्वम्। नकारस्यानुस्वारः। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
06 [[६। ‘हन्तेर्हिंसायां यङिघ्नीभावो वक्तव्यः’ (वा। ७-१-३०) इति वचनात् यङि विवक्षिते सति हिंसार्थेऽस्य घ्नीभावः, द्विर्वचनादिकम्। हलादिशेषः। ‘अभ्यासे चर्च’ (८-४-५४) इति अभ्यासे जकारः। ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः।]]
07 [पृष्ठम्१४०६+ ३१]
08 [[१। गत्यर्थत्वे तु धातोः ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति नुगागमः। नुकः ‘पदान्तवत्’ इत्यतिदेशात् अनुस्वारः उपलक्ष्यते। ‘अभ्यासाच्च’ (७-३-५५) इत्युत्तरखण्डेऽपि हकारस्य कुत्वेन घकारः। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
09 (३७६)
10 [[२। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः स्यप्रत्यये परतः।]]
11 [[३। ‘आङो यमहनः’ (१-३-२८) इति अकर्मकादस्मात् आत्मनेपदम्। ‘अकर्मकात्’ (१-३-२६) इत्युक्तेः ‘चोरमाघ्नन्’ इत्यत्र पस्स्मैपदमेव। ‘आजघ्ने विषमविलोचनस्य वक्षः’ (किरातार्जुनीये १७-६३) ‘आहध्वं रघूत्तमम्’ (भट्टिकाव्ये) इत्यादिषु सकर्मकस्थलेषु आत्मनेपदं चिन्त्यमेवेति माधवाचार्याः। परे तु पाठान्तरं तत्र- तत्राश्रित्य समाहितवन्तः। ‘एत्य’ इति अध्याहृत्य वक्षः, रघूत्तमं वा एत्य--इति हरदत्तो व्याचख्यौ।]]
12 [[४। शतरि, शपो लुकि, शतुः सार्वधातुकत्वेन ङिद्वद्भावात् ‘गमहनजनखनघसां लोपः क्ङिति अनङि’ (६-४-९८) इति हन्तेरुपधाकारस्य लोपः। ‘हो हन्तेः--’ (७-३-५४) इति कुत्वेन घकारः। ‘नेर्गदनदपतपदघुमास्यतिहन्ति--’ (८-४-१७) इति उपसर्गस्थान्निमित्तादुत्तरस्य नेः णत्वम्।]]
13 [[५। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतीहारात्मनेपदनिषेधः, धातोः हिंसार्थकत्वात् गत्यर्थत्वात् च।]]
14 [[६। ‘जासिनिप्रहण--’ (२-३-५६) इति चोरस्य षष्ठी।]]
15 [[७। ‘अनुदात्तोपदेश--’ (६-४-३७) इत्यादिना झलादिषु क्ङित्प्रत्ययेषु क्त्वा-क्तिन्-क्त- क्तवतुप्रभृतिषु अनुनासिकलोपः।]]
16 [[८। पादाभ्यां हन्यते = गम्यते इति पद्धतिः। अत्र धातोर्गत्यर्थकम्। क्तिन्। ‘हिमकाषि- हतिषु च’ (६-३-५४) इति पादशब्दस्य पद्भावः। बाह्वादित्वात् (४-१-९६) ङीषि पद्धती इत्यपीति माधवः। ‘पदोपहतः’ इत्यत्र तु ‘पादस्य पद् आज्यातिगो- पहतेषु’ (६-३-५२) इति पदादेशः।]]
17 [[९। ‘वा हतजग्धपरेषु’ (वा। ८-४-४८) इति पुत्रतकारस्य हतशब्दे परे वा द्वित्वम्।]]
18 [[१०। कुमारी चासौ हता चेति कर्मधारये ‘घरूपकल्पचेलड्ब्रुवगोत्रहतेषु--’ (६-३-४३) इति कुमारीशब्दस्य ह्रस्वः। कुमार्या हता इति समासे तु न ह्रस्वः--कुमारीहता इत्येव।]]
19 [पृष्ठम्१४०७+ ३३]
20 [[१। ‘नद्याः शेषस्यान्यतरस्याम्’ (६-३-४४) इति ह्रस्वविकल्पः।]]
21 [[२। ‘कृन्नद्याः प्रतिषेधः’ (वा। ६-३-४४) इति प्रतिषेधान्न ह्रस्वः।]]
22 [[३। ‘उगितश्च’ (६-३-४५) इति पूर्वपदस्य ह्रस्वविकल्पः। विद्वच्छ्रेयसोः पुंवद्भावोऽपि वृत्तिकारवचनादत्रेति बोध्यम्।]]
23 [[४। महच्छब्दस्यापि पुंवद्भावोऽत्र आत्रेयेणोक्त इति माधवः।]]
24 [[५। ‘अन्तरपरिग्रहे’ (१-४-६५) इति ‘अन्तर्’ इत्यस्य गतित्वम्। ‘कुगतिप्रादयः’ (२-२-१८) इति समासे ल्यपि ‘वा ल्यपि’ (६-४-३८) इति व्यवस्थितविभाषा- विज्ञानात् नान्तानिटोऽस्य धातोर्नकारलोपो नित्यः। अन्तर्हत्य मध्ये हत्वा इत्यर्थः। परिग्रहार्थे तु ‘अन्तर्हत्वा मूषिकां गतः श्येनः’ इत्यत्र न गतित्वम्। तेन न ल्यप्। स्वभावादयं योगः हन्तिविषयकः।]]
25 [[६। ‘कणेमनसी श्रद्धाप्रतीघाते’ (१-४-६६) इति कणे, मनसि इत्यनयोः गतित्वम्। सप्तम्यन्तप्रतिरूपके इमे। पूर्ववत् समासे ल्यप्। कणेशब्दोऽभिलाषार्थकः, मन- सिशब्दोऽपीति न्यासपदमञ्जर्यौ। ‘कणेहत्य मनसिहत्य वा पयः पिबति।’ अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः। निरुक्तभिन्नार्थत्वे तु कणे हत्वा, मनसि हत्वा इत्येव। इदमपि सूत्रं स्वभावात् हन्तिविषय एव प्रवृत्तम्।]]
26 [[७। ‘हनो वा वध च’ (वा। ३-१-९७) इति कर्मणि यत्, प्रकृतेर्वधादेशश्च। वध्यः वधकर्मीभूतः। पक्षे ण्यति, कुत्वे तकारे च घात्यः। दिगादित्वात् (४-३-५४) यतैव सिद्धमिति भगवान् कात्यायनः।]]
27 [[८। ‘हनस्त च’ (३-१-१०८) इति भावार्थे सुप्यनुपसर्गे उपपदे हन्तेः क्यप्। नकारस्य तकारश्च। एवं भ्रूणहत्या इत्यादिकमपि। स्त्रीत्वं स्वभावात्।]]
28 [[९। अश्वहत्याशब्दोऽपि पूर्ववत् हन्तेः क्यपि नकारस्य तकारादेशे सिद्धः। केचिन्नेदं पठन्तीति माधवः।]]
29 [[१०। अत्र श्रुतिवाक्ये छान्दसत्वात् निरुपपदादपि हन्तेः क्यप् इति माधवीये स्पष्टम्।]]
30 (श्रुतिः)
31 [[११। ‘हन्तेर्घत्वं च’ (वा। ६-१-१२) इति वचनात् हन्तेः पचाद्यचि द्वित्वम्, पूर्वोत्तर- खण्डयोर्घकारो हकारस्य, पूर्वखण्डे आक् आगमश्च। ‘घनाघनः = वर्षुकमेघः, हन्ता च’ इति प्रक्रियासर्वस्वम्। ‘घनाघनः क्षोभणश्चर्षणीनाम्’ (तै। सं। ४-६-४-१)।]]
32 [[१२। शत्रुं वध्यात् इत्याशीरर्थे गम्ये ‘आशिषि हनः’ (३-२-४९) इति कर्मण्युपपदे डप्रत्ययः। डित्त्वात् टिलोपः। एवं तिमिरहः, अरातिहः इत्याद्यपि।]]
33 [[१३। ‘दारावाहनोऽण् अन्तस्य च टः संज्ञायाम्’ (वा। ३-२-४९) इति दारुशब्द उपपदे आङ्पूर्वात् हन्तेः कर्तरि अण्, नकारस्य टकारः--संज्ञायाम्। अन्त्यस्य प्रत्ययस्य णित्त्वात् धातोर्घः। दार्वाघाटः पक्षिविशेषः, यस्य चञ्चूरुभयत्र प्रतिरूढा कुद्दालवत्। अन्यत्र तु दार्वाघातः इत्येव।]]
34 [पृष्ठम्१४०८+ ३२]
35 [[१। चारु आहन्तीति चार्वाघाटः--चार्वाघातो वा। ‘चारौ वा’ (वा। ३-२-४९) इति पूर्ववत् कर्तरि अण्, अन्त्यस्य टकारविकल्पः। प्रत्ययस्य णित्त्वात् धातोर्घकारः।]]
36 [[२। वर्णान् संहन्तीति वर्णसंघाटः वर्णसंघातो वा। ‘कर्मणि समि च’ (वा। ३-२-४९) इति पूर्ववत् अणादिकम्।]]
37 [[३। ‘अपे क्लेशतमसोः’ (३-२-५०) इति क्लेशतमसोरुपपदयोः अपपूर्वकात् हन्तेः डः। डित्त्वात् टिलोपः।]]
38 [[४। अत्र ‘क्विप् च’ (३-२-७६) इति क्विप्। सुपि ‘सौ च’ (६-४-१३) इति दीर्घे, नलोपः। स्त्रियाम्, ‘ऋन्नेभ्यः--’ (४-१-५) इति नान्तत्वलक्षणङीब् न भवति, ‘बह्वादिषु (ग। सू। ४-१-४५) ङीष्विकल्पार्थं ‘हन्’ इति पाठात्’ इति माधवः। इयमेव गतिः ज्वरापहा, निश्शेषजाड्यापहा इत्यादिष्वपि। क्षीरस्वामी तु ‘अन्येभ्योऽपि’ इति डप्रत्यये परिखेत्यादिवत् साधितवान्।]]
39 [[५। लिटः क्वसौ, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति वा इडागमः। इट्पक्षे जघ्निवान् इति, इडभावपक्षे जघन्वान् इति च रूपम्। घत्वोपधाकार- लोपादिकं पूर्ववत् बोध्यम्।]]
40 [[६। ‘अन्येभ्योऽपि--’ इति डप्रत्यये क्षीरस्वामी एतान् साधयति। तादृशं वचनं न दृश्यते। गमेर्डप्रत्ययविधायकं वचनमस्य विवक्षितमिति भाति। वरं आहन्तीति वराहः। पटे हन्यते इति पटहः। कलं = माधुर्यं हन्तीति कलहः।]]
41 [[७। ‘सम्पृच…मुषाभ्याहनश्च’ (३-२-१४२) इति ताच्छीलिको घिनुण्। घत्वतत्वे च।]]
42 [[८। ‘कुमारशीर्षयोर्णिनिः’ (३-२-५१) इति णिनिप्रत्ययः। घत्वतत्वे च। अत्रैव निपातनात् शिरसः शीर्षादेशः। ‘कुत्सित इति वक्तव्यम्’ (वा। ३-२-९३) इति वचनादत्र कुत्सा द्योत्या।]]
43 [[९। ‘लक्षणे जायापत्योष्टक्’ (३-२-५२) इति टक्प्रत्ययो लक्षणवति कर्तरि। सूत्रे ‘लक्षणे’ इति लक्षणवतो निर्देशः। ‘गमहन--’ (६-४-९८) इति उपधाकारलोपः। घत्वम्। जायाघ्नः तिलकालकविशेषवान्। यस्य हस्तादिषु जायामरणलक्षयितृ तिलाकारं कालकं विद्यते स एवमुच्यते। एवं यस्याः स्त्रियाः पाणौ पतिहननसूचिका रेखा विद्यते सोच्यते पतिघ्नी पाणिरेखा इति। जायाघ्नः पतिघ्नी इत्यत्र विशेष्यवशात् नियतलिङ्गता।]]
44 [पृष्ठम्१४०९+ ३४]
45 [[१। ‘अमनुष्यकर्तृके च’ (३-२-५३) इति टक्। पूर्ववत् प्रक्रिया। श्लेष्मघ्नम् मधु, पित्तघ्नं जम्बीरफलम्, वातघ्नः शाकविशेषः।]]
46 [[२। आखुं हन्तीत्यर्थे ‘कर्मण्यण्’ (३-२-१) इत्यण्। घत्वतत्वे च।]]
47 [[३। अत्र ‘कप्रकरणे मूलविभुजादिभ्यः--’ (वा। ३-२-५) इति कप्रत्यये, उपधाकारलोपे, घत्वे च रूपमिति केचित्। माधवस्तु कृतं हन्तीत्यर्थे ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् टक्प्रत्ययमवादीत्। एवमेव क्रियमाणघ्नः, करिष्यमाणघ्नः, शत्रुघ्नः इत्यादिष्वपि गतिः। टकि कृतघ्नी इति
\n\n के कृतघ्ना इति च स्त्रियां भवेत्।]]
48 [[४। गौर्हन्यतेऽस्मै इति गोघ्नः = अतिथिः। ‘दाशगोघ्नौ सम्प्रदाने’ (३-४-७३) इति सूत्रे निपातनादेव सम्प्रदाने टक्प्रत्ययः। अजन्तोऽयमिति प्रक्रियासर्वस्वम्।]]
49 [[५। हस्तिहनने शक्त एवमुच्यते। ‘शक्तौ हस्तिकपाटयोः’ (३-२-५४) इति हन्तेष्टक्। हस्तिघ्नो भटः। कपाटघ्नः चोरः। अशक्तौ यो विषादिभिर्हस्तिं हन्ति सः हस्तिघातः। एवम्--यः कुठारादिभिर्बहुभिः साधनैः कपाटं हन्ति स उच्यते कपाटघात इति। उभयत्र ‘कर्मण्यण्’ (३-२-१) इत्यण्। ‘--कवाटयोः’ इति सूत्रे पाठभेदः।]]
50 [[६। ‘पाणिघताडघौ शिल्पिनि’ (३-२-५५) इति निपातनात् हन्तेष्टकि टिलोपे, घत्वे च रूपम्। पाणिं हन्तीति पाणिघः हस्तेनैव तालवाद्यप्रावीण्यप्रदर्शयिता। ताडं = हनुं हन्तीति ताडघः मुखेनैव वाद्यविशेषवादयिता।]]
51 [[७। पितृव्यं हतवान् पितृव्यघाती। ‘कर्मणि हनः’ (३-२-८६) इति हन्ते- र्भूते णिनिः।]]
52 [[८। हन्तेः ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ (३-२-८७) इति क्विप्। हन्तेरेव, ब्रह्मादिष्वेव, क्विबेव, भूते एव इति चतुर्विधोऽत्र सूत्रे नियमः। ब्रह्म हतवान् ब्रह्महा। भ्रूणं = गर्भं हतवान् भ्रूणहा। वृत्रं हतवान् वृत्रहा इन्द्रः। ‘सौ च’ (६-४-१३) इति दीर्घः। एवं नियमाङ्गीकारात् हिमहा, केशिहा, कालनेमिनिहा इत्यादिषु ‘क्विप् च’ (३-२-७६) इति सार्वत्रिकः क्विप्।]]
53 [[९। द्वितीयाबहुवचनान्तमिदम्। अत्र ‘प्रातिपदिकान्तनुम्विभक्तिषु च’ (८-२-१५४) इति णत्वविकल्पः।]]
54 [[१०। ‘लषपतपदस्थाभूबृषहन--’ (३-२-१५४) इति उकञ् ताच्छीलिकः। घत्वतत्वे। स्त्रियां घातुकी।]]
55 [[११। ‘बहुलं तण्यन्नवधक--’ (वा। २-४-५४) इति वचनात् ण्वुलि प्रकृतेः वधादेशः। सोऽयमकारान्तादेशः। यद्वा हलन्तत्वेऽपि ‘जनिवध्योश्च’ (७-३-१५) इति वृद्धिनिषेधः।]]
56 [पृष्ठम्१४१०+ ३३]
57 [[१। ‘हनश्च वधः’ (३-३-७६) इति भावेऽप्प्रत्यये प्रकृतेर्वधादेशः।]]
58 [[२। ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्’ (वा। ३-३-५८) इति कप्रत्ययः। विशेषेण हन्तीति विघ्नः।]]
59 [[३। ‘मूर्तौ घनः’ (३-३-७७) इति हन्तेरप्प्रत्यये प्रकृतेर्घनादेशः
\n\n काठिन्ये गम्ये। मूर्तिः = काठिन्यम्। अब्भ्रघनः = अब्भ्रस्य काठिन्यमित्यर्थः। घनं दधि। विशेषणविशिष्टवस्तुनोऽपि मूर्तिशब्देन ग्रहणमिति प्रक्रियासर्वस्वम्।]]
60 [[४। ‘अन्तर्घनो देशे’ (३-३-७८) इति निपातनात् देशे वाच्ये अन्तःपूर्वकादस्मात् अप्प्रत्यये प्रकृतेर्घनादेशः। अन्तर्घनः = वाहीकग्रामविशेषः। अन्तः मध्ये हन्यते- ऽत्रेति वृत्तिः। ‘अन्तर्घणः’ इति कृतणत्वं केचित् सूत्र एव पठन्ति। तेषां, ‘अन्तश्शब्दस्य अङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-६५) इत्युक्त्यैव सिद्धं णत्वम्-इति भावः।]]
61 [[५। ‘अगारैकदेशे प्रघणः प्रघाणश्च’ (३-३-७९) इति निपातनात् साधुः। बाह्य- प्रकोष्ठकेऽलिन्दे वा वाच्ये प्रपूर्वकाद्धन्तेः अप्प्रत्यये प्रकृतेः घनादेशः ‘प्रघाणः’ इत्यत्र दीर्घः, णत्वं च निपातनलभ्यानि। ‘प्रघणः’ इत्यत्र तु ‘हन्तेरत्पूर्वस्य’ (८-४-२२) इति णत्वं सिद्धमेव।]]
62 [[६। उत् उपरि यस्य निधाय अन्यत् काष्ठादिकं तक्ष्यते तस्मिन् = अत्याधाने विवक्षिते ‘उद्घनोऽत्याधानम्’ (३-३-८०) इति निपातनात् पूर्ववत् घनादेशादिकम्।]]
63 [[७। अप हन्यते इति ‘अपघनोऽङ्गम्’ (३-३-८१) इति निपातनात् साधुः।]]
64 [[८। अयः हन्यते येन सः अयोघनः कूटः। विहन्यते येन सः विघनः = समीकरणसा- धनम्। द्रुः हन्यते येन सः द्रुघनः = कुठारादिः। ‘करणेऽयोविद्रुषु’ (३-३-८२) इति हनोऽप्प्रत्यये घनादेशः। ‘द्रुघणः’ इति केचित्। तदानीम्, ‘पूर्वपदात् संज्ञायामगः’ (८-४-३) इति, अरीहणादिषु (४-२-८०) ‘द्रुघणः’ इति पाठाद्वा णत्वमत्रेति ज्ञेयम्।]]
65 [[९। स्तम्बशब्द उपपदे करणे हनः कप्रत्ययः
\n\n अप् च। ‘स्तम्बे क च’ (३-३-८३) इति कप्रत्यये स्तम्बघ्नः। अप्प्रत्यये तु स्तम्बघनः इति। दात्रादिकमेवमुच्यते--येन स्तम्बः तृणविशेषो हन्यते। विस्तरस्तु माधवीये द्रष्टव्यः।]]
66 [[१०। ‘परौ घः’ (३-३-८४) इति परावुपपदे करणे हन्तेरप्प्रत्ययः, घश्च प्रकृतेः सर्वादेशः। परि हन्यते इति परिघः = अर्गलम्। ‘परेश्च घाङ्कयोः’ (८-२-२२) इति लत्वविकल्पः। तेन पलिघः इत्यपि।]]
67 [[११। ‘प्रतिघः’ इति बाहुलकात्-इत्यात्रेयः--इति माधवः। प्रतिघः कोपः। ‘अन्येभ्योऽपि--’ (३-२-१०१) इति डप्रत्यये न्यड्क्वादित्वात् कुत्वमिति’ भानुदीक्षितः।]]
68 [पृष्ठम्१४११+ २८]
69 [[१। उपघ्नः = प्रत्यासन्नः ‘उपघ्न आश्रये’ (३-३-८५) इति निपातनात् हन्तेरप्प्रत्यये उपधालोपः। पर्वतेनोपहन्यते = गम्यते इति पर्वतोपघ्नः। अत्र धातोः गत्यर्थकत्वम्।]]
70 [[२। समुद्भ्यां परस्य हन्तेः अप्प्रत्यये संघे प्रशंसायां च गम्यमाने सति ‘संघोद्धौ गण- प्रशंसयोः’ (३-३-८६) इति निपातनात् घत्वम्। संहननं संघः = प्राणिसमुदायः। भावेऽप्। अन्यत्र संघातः। उद्धन्यते = उत्कृष्टतया ज्ञायत इति गत्यर्थानां ज्ञानार्थत्वात् उद्घः = प्रशस्तः, कर्मण्यण्। अन्यत्र उद्घातः।]]
71 [[३। संपूर्वकात् अस्मात् घञि घत्वतत्वयोः संघातशब्दः साधुः। घ-घञोः प्रत्यययोरप- वादोऽत्रेति मन्वान आत्रेयः ‘हन्त्यर्थाश्च’ (ग। सू। चुरादिः) इति चुरादिपाठात्, णिजन्तात् संघातशब्दनिष्पत्तिमाहेति माधवः।]]
72 [[४। हन्तीति हेतिः। हन्यतेऽनेनेति वा ‘ऊतियूतिजूतिसातिहेति--’ (३-३-९७) इति निपातनात् नलोपे, प्रकृत्यकारस्येकारे च हेतिः इति माधवः।]]
73 [[५। ‘निघो निमितम्’ (३-३-८७) इति निपातनात् निपूर्वकादस्मात् अप्प्रत्यये साधुः। निमितम् = समन्तात् मितम्, समारोहपरिणाहमित्यर्थः। निर्विशेषं हन्यन्ते इति निघाः वृक्षाः, शालयश्च।]]
74 [[६। निघ्नः आयत्तः, अधीनः। निपूर्वकादस्मात्, बाहुलकात्, ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति वा कप्रत्ययः।]]
75 [[७। ‘समूलाकृतजीवेषु हन्--’ (३-४-३६) इति यथासंख्यं समूले उपपदे णमुल्। ‘कषादिषु यथाविधि--’ (३-४-४६) इति वचनात् णमुल्प्रयोजकस्येव हन्तेरनु प्रयोगः। ‘कृन्मेजन्तः’ (१-१-३९) णमुलन्तमव्ययम् इति।]]
76 [[८। ‘करणे हनः’ (३-४-३७) इति णमुल्। पाणिना हन्तीत्यर्थः। कषादित्वात् (३-४-४६) पूर्वप्रयुक्तस्यैवानुप्रयोगः।]]
77 [[९। ‘हिंसार्थानां च समानकर्मकाणाम्’ (३-४-४८) इति णमुल्।]]
78 [[१०। ‘हन्तेरत्पूर्वस्य’ (८-४-२२) इति णत्वम्।]]
79 [नू]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
