हठयोग (haThayoga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiहठयोगः
हठः-योगः -
योग की एक विशेष रीति या भावचिन्तन व मनन का अभ्यास
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
Englishशब्दकल्पद्रुमः
Sanskritहठयोगः, (हठेन योगः ।) योगविशेषः ।यथा, --“इदानीं हठयोगस्तु कथ्यते हठसिद्धिदः ।कृत्वासनं पवनाशं शरीरे रोगहारकम् ॥
पूरकं कुम्भकञ्चैव रेचकं वायुना भजेत् ।इत्थं क्रमोत्क्रमं ज्ञात्वा पवनं स्मधयेत् सदा ॥
धौत्यादिकर्म्मषट्कञ्च संस्कुर्य्याद्धठसाधकः ।एतन्नाड्यान्तु देवेशि ! वायुपूर्णं प्रतिष्ठितम् ॥
ततो मनो निश्चलं स्यात्तत आनन्द एव हि ।हठयोगान्न कालः स्यान्मनः शून्ये भवेद्यदि ॥
इदानीं हठयोगस्य द्वितीयं भेदवत् शृणु ।आकाशे नासिकाग्रे तु सूर्य्यकोटिसमं स्मरेत् ॥
श्वेतं रक्तं तथा पीतं कृष्णमित्यादिरूपतः ।एवं ध्यात्वा चिरायुः स्यादङ्गाजननवर्ज्जितः ॥
शिवतुल्यो महात्मासौ हठयोगप्रसादतः ।हठाज्ज्योतिर्म्मयो भूत्वा ह्यन्तरेण शिव भवेत् ।अतोऽयं हठयोगः स्यात् सिद्धिदः सिद्धसेवितः ॥
”इति योगस्वरोदयः ॥
वाचस्पत्यम्
Sanskritहठयोग हठेन बलात्कारेण योगः । प्राणायामादिक्रि-याभ्यासजे राजयोगं विनैव परमात्मसाक्षात्काररूपेचित्तवृत्तिरोधात्मके योगे ।योगश्च द्विविधः हठयोगः राजयोगश्च । तत्र हठयोगःक्रियाविशेषसाध्यः हठदीपिकादावुक्तप्रकारः । राजयो-गस्तु भावनाविशेषसाध्यः पातञ्जलादावुक्तः । स च पत-ञ्जश्चिशब्दे ४२०४ पृ० दर्शितः । हठयोगोऽत्र साङ्गाऽभिधीयतेतत्साधनप्रशंसादिः उभवयोगयोरपि परपरसापेक्षतयाएककार्य्याकरत्वम् । “हठं विना सिव्यति राजयोगोनर्त्ते हठाच्चापि न राजयोगः । तदाभ्यसेत् पूर्वमतःसुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम् । अभ्यासेनविना दृढेन सुचिरं साङ्गस्य योगस्य वा योगी यातिन राजयोगपदवीं मध्येऽन्तरालैर्युताम् । वृद्धो वातरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तःसिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत् । यो ना-स्तिकोऽभ्यासविहीन उग्रश्चण्डप्रियो वै बहुभाषितोयः । अपथ्यशीलोऽमितभुगदरिद्रो न योगसिद्धिंलभते कदाचित् । योगस्य वीजं परमं क्रियैव क्रियैवयोगस्य फलप्रदात्री । सङ्केतविद्योगगुरोः प्रलब्धासुधीरतो योगपरस्य नान्यत् । स्यात् सङ्गः सिद्धतीर्थैर्यदिसुकृतवशात् प्राग्भवाभ्यासजोऽयं यद्द्वारा पश्चिमेनत्वरितमिह फलं दृश्यते क्वापि लाके । तत्सर्वं नान्यनाड्या शिरसि परिगतेनानिलेनेक्ष्यतेऽदस्तस्मादभ्यास एवत्वरितलघुभिदायोगतस्तीर्थलब्धात् । अवृत्तिकस्यात्मनिशान्तवाहसम्पादानार्थं मनसः प्रयत्नः । अभ्यास एवंचिरकालः सेवितः सत्कारवान् स्याद् दृढभूमिरेष ।जितो भवति मारुतोऽभ्यसनभूरिदार्ढ्यन्ततः कृशानुरभि-बर्द्धते सततकुम्भकाभ्यासतः । गते हुतभुजीद्धतामशनमेतिपाकं सुखं रसादिकसुधातवः स्युरनु याति देहो वलम् ।महाभ्यासबन्धौ बलात् सद्रमस्य तदा जारणं स्याच्च दोषाअशेषाः । विशुष्यन्ति विण्मूत्ररोगादयो वै नृणां काटि-जन्माजितव्याधयश्च । नाडाविशुद्धिर्हठसिद्धिलक्षणं विनाह्यपार्था चिरकुम्भसंधृतिः । गुरूक्ततो युक्तविशेषतोधृतेऽनिले सुषुमणा कुरुतेऽग्निदीपनम् । प्रत्याहारात्प्राग्जिताऽक्षौघवृत्तिर्योगीन्द्राऽथो चालयेत् कुण्डलींस्वाम् । सिद्धपाणाभ्यासतश्चालिताऽसावत्युच्चैर्द्राक् व्रह्मरन्ध्रान्तरे स्यात्” हठस० ।योगदेशभेदास्तत्रैव “सुविषये शुभधार्मिकभूपतेर्बहुसुभिक्षवती-तभये शुचौ । सुकृतशालिनि मालिंनि वैभवैर्मनसि योग-विधौ मतिमाश्रषेत् । अतिनिगूढपदं मशकोज्झितं तुहिन-तापविवर्जितमन्तरा । उषरकण्टकशुष्कदलीज्झितं विगत-गःगणगोष्ठमृते मलम् । वल्मीकसञ्चयचतुष्पथवर्जमग्न्याभ्यासोज्झितं विगतमर्वभयं विजन्तु । बात्याभिथात-रहित गतभूतरक्ष यागार्थमेवमवलाक्य मठा विधेयः ।धनुः णाप्रस्तुन शिला ग्नजलवाजेते । एकान्तमाठकामध्ये स्थातव्यं हठयोगिना” हठसङ्केतः । “तल्पद्वार-मरन्धुगर्त्तविटपं नात्युच्चरीचायतं सम्यग्गोमयसान्द्र-लिप्तमयनं निःशेषजन्तूज्झितम् । व ह्ये मण्डपकूपौर्वेदि-रुचिरं प्राकारसंवेष्टतं प्रीक्तं योगमठस्य लक्षणमिदंसिद्धैहठाभ्यासिभिः” हठप्रदीपिका । “द्वार स्मृत योग-मठस्य वृत्तं व्यायामतस्तच्चतुरस्रमार्य्यम् । विस्तारतश्चापिरवीन्द्रभूपाङ्गुलं सुरस्यं रमणीअमध्यम् । निर्वातभू-मन्दिरमुच्छ्रमात्मदोषापहं मारुतदोषशोषि । विशोध्यनाडामलमङ्घमन्तर्दत्ते विकाशं हृदि सुस्थिरे च” हठमं० ।तत्रोचितकालः “एकाहे वाऽथ द्विकालं त्रिकाल प्राणयामंमध्यरात्रे भजेत । यामे रात्रेः पश्चिमे पूर्व एव पूर्वाह्णेवाह्नश्च मध्ये प्रदोषे” हठम० ।निषिद्धावस्थादि “न शीते नात्युष्णे श्रमविकलदेहे न हितथा क्षुधायामाध्माने विकलवपुषाऽचेतमासा । अ-जीर्णेऽम्लेद्गारे न च विहितवान्तावतिसृते प्रभुक्तौ व्या-सङ्गाकुलहृदि न युक्ताऽनिलघृतिः । चिन्ताकुलो मूल-फलप्रदूषितोऽभ्यासं न योगस्य कदापि कुर्य्यात् । कार्य्या-तिसक्तौ रतिकार्य्यतत्परो नानेकरोगाधियुतो जनान्ते ।रथ्यान्तरे सिन्धुमरित्तटान्तरे चिरन्तने वेश्मनि चेत्यदेशे ।योग विदध्यान्न कदापि साधकः सुदौमनस्यादि भवेतकृतेऽत्र । अनादृत्य यः साधको देशक लौ प्रयुञ्जीत योगहि दाषास्तु तस्य । प्रकुप्यन्ति देहेऽन्तराया इवोच्चैजडत्व न्धमूकत्वबाधिर्य्यमुख्याः । स्मृतिलया जडता चविमूकता वधिरतान्धमहादहनज्वराः । कुविषयेऽसमयेपरियुञ्जता वपुषि योगममी नव दोषकाः” हठस० ।वर्ज्यमा० सदोषाः “कामोभय स्वप्नमतीव लोभः प्राग् योग-दोषानतिकोपयुक्तान् । विहाय युक्तः सुसमाहितात्यायुञ्जीत योगं मनसा स्थिरेण” हठस० ।तद्दोषजयोपायाः “निद्रां सत्त्वनिषेवणेन दलयेद्धृत्या चशिश्नोदरे रक्षेद् दोश्चरणौ दृशा श्रुतिदृशौ चित्तेन चेतोगिरौ । रक्षेत् सद्विधिना प्रमादत इतस्त्रासं तुदंस्तंधिया सङ्कल्पस्य जयेन काममिति वै ज्ञो योगदोषान्जयेत्” हठसं० ।वर्ज्यसेव्ये “अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।जनसङ्गश्च लौल्यञ्च षडभिर्योगो विनश्यति । “उत्सा-हान्निश्चयाद्धैर्य्यात् तत्त्वज्ञानाच्च निश्चलात् । जनसङ्ग-परित्यागात् षङ्मिर्योनश्च सिध्यति । अहिम । सत्यमस्तेयंब्रह्मचर्य्यं क्षमा धृतिः । दयार्जवमिताहाराः शौचंचैव यमा दश । तसःसन्तोभ कास्तिक्यं दानिमांश्वरपूज-नम् । सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च तपोहुतम् हठप्र० ।आहारः “आहारशुद्धौ सत्त्वशुद्धिरिति श्रुतेः मिताहारस्ययोगाङ्गत्वाच्च योगाङ्गाहारो यथा “न जीवनं देह-धृतिश्च जन्मिनामृतेऽन्नपानं न मलैर्विना बलम् । योगेतदर्थं मलजिद्वलप्रदं भक्ताज्यदुग्धं मितमत्र सेवयेत् ।न कन्दमूचानि गुरूणि शीतोष्णान्यत्र पानानि बलप्र-दानि । सत्त्रप्रदायुर्बलतृप्तिदानि पूतानि च त्रीणिहितानि योगे । हठप्रदीपिकादिभिः सुपथ्यवर्ग ईरितः ।सुताडिशोधनादनु भजेन्नतं पुरा शुभम्” हठम० । स चवर्गो यथा “गोधूमशालियवषष्टिकशोभनान्नं क्षोराज्य-खण्डनवनीतसितामधूनि । शुण्ठीपटोलफलकानि चपञ्चशाकं मुद्गादि चाल्पमुदर्क च मुनीन्द्रपथ्यम् । क्षीर-पर्णी च जैवन्ती मत्स्याक्षी च पुनर्नवा । मेघनादी चपञ्चैते शाकवर्गः प्रकीर्त्तितः । मिष्टं सुमधुरं स्निग्धंपथ्यं धातुप्रपोषणम् । मनोऽभिलषितं योग्यं योगी-भीजनमाचरेत्” मुख्यं घृतं क्षीरमिति द्वयं स्यात् नाडी-विशुद्धावथ मूलबन्धे । ओजो बलं तृप्तिमतीव धत्तेसत्त्वन्नतोऽन्तःस्थितनाडिशुद्धिः” हठमः । “कन्दं चशाकादिकमूलभव्यं विहाय दध्यम्लतषायतिक्तम् । घृतौदनक्षीरमपूरितोदरं यमी च गोधूमविकारमाश्रयेत्”हठच० । ग्रन्थान्तरे “पीत्वा क्षीरं पयोमिश्रं योगीवलमवाप्नुयात् । सितांशयुक् च पक्वं च हितं क्षीरंन केवलम् । गोघृते च हविष्यान्नं भुक्त्व भ्यासं समाचरेत् । एवं वाढं भजेदत्राष्टमेऽह्नि मलशोधनम् ।निकृष्टभक्ष्यवर्गः “सस्नेह ईषत्तुवरीजमूपः क्वाथी भृगं सु-क्वथिता ह्य० म्ला । जीरोषधाद्याऽलवणा हिताल्पाहविष्यभुक्तं यतिनिस्वपथ्यम् । आवश्यके सैन्धवमल्पमुक्तंसदार्द्रकं केऽपि वदन्ति भक्ते । स्याल्लाजसक्तुः ससिताज्य-दुग्धं पयोऽथ वा केवलमग्निपक्वम्” हठस० ।वर्ज्याहारः “स्निग्धं भृशं वाऽभृशमेव रूक्षं क्षीरप्रभूतान्नमिहोत्सृजेद्यः । दध्ना च तक्रेण रुजाकृदन्नमन्नं चभूर्य्याज्यमपथ्यमुक्तम् । पुंस्त्वापहाः स्युश्चणका अपथ्यामाषाश्च बल्या कफपित्तदोः । सितातियोगः कृमिकृत्तुनेष्टो गुड विकारो सह फाणितेन । अत्यल्पमिष्टाशनतोन योगः स्यात् साधकस्याल्पबलस्य नूनम् । योगानुगुण्येनततोऽन्नजग्धिर्मतोदितानाल्पतरा न भूरिः” हठस०“कङ्कम्लतीक्ष्णलवणोणहरिच्च शाकं सौवीरतैलतिल-सर्षपमत्स्यमद्यम् । आजाविमांसदधितक्रकुलत्थकोल-पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः । भोजनमहितं वि-द्यात् पुनरुष्णीकृतं तथा रूक्षम् । अतिलवणादिकयुक्तंकदशनशाकोत्कटं वर्ज्यम्” हठप्र० ।वर्ज्यानि “वर्जयेद्दुर्जनप्रीतिं वह्निस्त्रीपथसेवनम् । प्रातःस्नानोपवासादिकायक्लेशादिकं तथा” हठप्र० ।“मद्यं गर्भान्नपानं सुतनुरतिगृहारामपाण्डित्यवेदशास्त्रा-लोकः सुगीतं सततमतिकलं हेमरूप्याम्बराणि । नृत्यंराज्ये च सङ्गः कुसुममलयजे सम्पदः स्फीतिशोर्य्येताम्बूलं चेति सर्वं विषयसुखमथासष्मिकं यत्त्यजेत्तत् ।नित्यस्नानार्च्चा व्रतं शौचसक्तिर्ध्यानं ध्येयं मन्त्रजाप्यं चदानम् । गेहारामाद्यास्तथा कल्पना वै धर्मा एतेथोगविघ्नः प्रदिष्टाः” हठस० ।आहारमानम् “स्याच्छालिमुद्गादिकमुष्टिकद्वयं प्राक् प्राण-पूर्णोदरकेऽशनस्य । ह्रासो विधेयो ह्यनु साघकेन दुग्धा-द्यभावे क्रमकुम्भवृद्ध्या” हठस० । अत्र ह्रासक्रमेणस्वल्पाहारः प्राणायामे विधेयः । यथीक्तं सनातन-सिद्धान्ते “अभावे शालिमुद्गादिभोजनं मुष्टिकद्वयम् ।ततो ह्रासः शनैः कुर्य्यात् प्राणे पूर्णे तथोदरे” अस्यार्थःअभावे घृतदुग्धयोरभावे मितभोजने कुम्भकवृद्धिक्रमानु-रूपः मन्दमन्दमशनह्रास उचितः । न हि प्रथम-मभ्यासे यथा यथा कुम्भकवृद्धिर्भवति तथा तथा कुम्भक-पूर्णोदरत्वात् कुम्भजाग्निना क्रमजितवायुवेगतया जिता-ग्निर्भवति तथा तथाऽशनह्रासः । साधकस्य योगानु-सारेणानुकूलः आरोग्यवीजमुत्साहपलौजःप्रमृतिकरश्चभवति न प्रथमम्” हठस० । ग्रन्थ न्तरे “आहारं क्षपयेद्योगीकृष्णपक्षे कलाक्रमात् । शुक्लपक्षे यथा चन्द्रस्तथा कुर्म्भो-ऽप्य वर्द्धते” । योगसारसमुच्चये । “तनौ येन केनाप्युपायेनपितं सदाभ्यासिना पालनीयं प्रयत्नात् । विशुद्धो हियश्चित्तसंद्योत एषः शुभो ज्ञानवह्निस्वरूपः प्रकाशी ।सूर्य्यप्रवेशे पवनेऽशनं सच्चन्द्रप्रवेशे शयनाम्बुवानम् । इ-त्यादि चान्यत् स्वधिया विचार्य्य पथ्यानि योगाभ्यसनेहितानि” ।योगनिषेधावस्थादि “मलाः सद्रवाः पूतिगन्धाश्च किञ्चित् सरुक्चोदरे गौरवं चालसत्वम् । यदैतद्भवेद् विग्रहे साधवेनतदा प्राणरोधोऽह्नि तस्मिन्न कार्य्यः” हठस० ।योगारम्भकालः “अन्तर्हृताः सान्द्रतमा विशुष्का अपद्रवाःपक्वमलादयोऽपि । अभ्यामिनां प्राणनिरोध एष तदाविधेयः । शुभयोगसिद्धिदः” हठस० ।नित्यकर्त्तव्याकर्त्तव्ये । “नं लालयेन्नो करणं निपीडयेत् भृशंमिताशी मितनिद्रणोक्तिः । प्रातःशिरःस्नानमथो नरोचयेदारूढयोगोऽपि कदापि योगी । आवश्यके तूष्ण-जलैर्विधेयं स्नानं न कार्य्यं हिमवारिणा तत् । स्नानंप्रगेऽनिष्टमिदन्तु कण्ठस्नानं स्मृतं ज्ञैरिह मध्यमेऽह्नि ।व्य याममात्रपरुषं भृशशैत्यदेशमत्यम्बुपानमतिबिभ्रमणं-थैव । निद्रां दिवा निशि च जागरणं च चिन्तां क्लेशावहंयदखिलं तदिहापि जह्यात् । यत् स्वस्यान्यस्य दुःखा-वहमपि न भजेत् तद्गिरा मानसेन कायेनापीषदग्नेर्नहि न हि वनितायाश्च सेवां विदध्यात् । हिंसां द्वेषंतथाहङ्कृतिमशनमति प्राणिपीडां वियोगं भिन्नाभिन्नत्व-बुद्धिं ह्यनशनमसतां सङ्गतिं संत्यजेच्च । आयाममभ्यस्यततोऽङ्गमर्दनं कुर्य्याद् वरिष्ठोत्तरसाधकस्य । स्यादङ्गमर्देनतथा मृदुत्वं वायोर्जयो देहह्रदोः समाप्तिः । पानाशने कर्मसुखावहं यद्योगस्य विघ्नो न हि तेन किञ्चित् । सेव्यंतदेकं परमार्य्यवव्यैर्हेयं मनःक्लेशकरं रुजाकृत् । अभ्या-सिना भूमिगृहे मठे वा न तैलदीपः प्रविधेय ईक्षणे ।अस्मिन् ज्वलत्येत्य सुकुम्भितो द्राक् प्राणो विमार्गंद्रवतीत्यमुं त्यजेत्” । अतो योगमठे घृतदीप एवोपयुज्यते” हठम० । “उत्थाय ब्राह्मणाले रहसि च परितःसाधकः प्राणरोधस्याभ्यासं प्रातरङ्कै ६ र्मितघटिकमथोपीठमुद्रादि कुर्य्यात् । आयामं चानु सार्द्धप्रहरयुगलकान्तंततः पथ्यमल्पं भुञ्जीयादम्लतीक्ष्णोषणलवणविदाह्यु-ज्झितं चाज्यदुग्धम् । प्राणायाममथाचरेत् प्रथमकेयामे निशः साधको यामैकं शयनं भजेदनुकृती प्राणाव-रोधं श्रयेत् । शौचाद्यं घटशोधनादिकमथो यामे निशायांश्रयेत्तुर्य्ये नाडिविशोधनं त्वतिदृढोऽभ्यासस्तु षाण्मा-सकः । मध्ये मध्ये चित्तविश्रान्तिहेतोः साम्बं शश्वत्संभजेदासनज्ञः । अभ्यासान्तेऽभ्यासिना स्वल्पमल्पं संभो-क्तव्यं भूरिवारं सुरुच्यम् । मध्ये मध्ये चारणं मेरुचालमभ्यास्यादौ संभजेताविशङ्कः । सर्वाङ्गीणा नाडिकादोषपूर्णा आभ्यां मृद्व्यः स्युर्मरुन्मध्यमास्ताः” हठस० ।आभ्यां चारणमेरुचालनाभ्यां दोषा दुष्टान्नरसमलाः)गजकरणी “दृढं त्राटकाभ्यासतः कूर्मवायोर्जये मूलबन्धे ।चापानसिद्धिः । जये स्यादुदानस्य जालन्धरेण समानस्यचलेन च प्राणवायोः । धते गजकरण्येषा समानोदा-नयोर्जयम् । पक्वामाशयगाजीर्णनाहाद्यखिलशोधिनी ।कोष्ठहृत्कण्ठसंवृद्धामपित्तकफबाधनी । श्वासं बलं हृत्प्रसादं वह्निदीप्तिं समुद्यमम् । धत्ते लाघवमङ्गेषु प्राणस्यसुखवाहिताम् । हृतकण्ठकोष्ठसंशुद्धा शूलाजीर्णादि-रोगहृन् । हन्ति गजकरण्येषा नाभेरूर्ध्वमधोमलान् ।पक्वापक्वान् रोगहेतून् बहिः प्रक्षाल्य पातयेत् । कोष्ठ-गुदादागलान्तं गलान्तं क्षालयेत् भृशम् । आभ्यां वि-शुद्धकोष्ठो यः सप्राणापानयोर्गतिम् । सूक्ष्मां देह-सञ्चरितां लूतिकागतिवत्सुधीः वेत्तीषिकासमां चित्तेकोष्ठान्तः परिसर्पतोः । नाडीसञ्चारविज्ञानमनयोः स-कलं यथा । जानाति साधकः शुद्धो नाडीसंस्थान-संविदम् । (एवं धौत्यामपि नाभ्यूर्द्धमङ्गं ज्ञेयम्)“महाचक्रमादौ विरुध्यानु सम्यग् भजेद्बन्धमुद्रामथोस्वेचरीं च । ततो वारिपानं प्रकुर्य्यात् सुधांशोः सुधांसाधुपेयां प्रयागे प्लुतिञ्च । विना ग्रन्थिभेदं विना चक्र-भेदं विना ब्रह्मरन्ध्रप्रवेशं जितस्य । खगस्यात्मनाकायसिद्धिं विनास्ते न सिद्धिर्न योगो न शून्यत्व-लाभः” हठस० ।आसनफलम् “संप्राप्तवीजभावो यमनियमाभ्यामयं योगः ।प्राणायामासनकैरङ्कुरवान् साधकस्य भवेत् । स्यादासनेस्थैर्य्यमरोगिताङ्गे सुलाघवं दुःखसुखोष्णशीतैः । द्वन्द्वै-जितेऽस्मिन्नभिभूयते नाऽनन्ते समापत्तिरतो यमा-भ्याम् । साधनत्रयमिदं मरुज्जये प्रोदितं प्रमितजग्धि-रिष्टदा । शक्तिचालमथ साधनद्वयम् नाभिवायुधृतिनाडि-चालनम्” । नियमैश्च यमैर्विषाणि रोगाः प्रविनश्यन्तिसुसंयतस्य पीठैः । चिरकालपदान्तरा असाध्याः यमिनःसाधुजितासनस्य पुंस” हठस० । (यमाभ्यां यमनियमाभ्याम्)ककुटासनम् “संस्थाप्य पद्मासनमत्र सम्यक् करौ तु जानू-रुयुगान्तरे दृढम् । निवेश्य संस्थाप्य तले धरायां व्यो-मस्थ उक्तं त्विति कुक्कुटासनम्” हठस० ।उत्तानकूर्मकम् “कुक्कुटासनवन्धस्थो दोर्भ्यां संबध्य कन्धरे ।भवेत् कूर्मवदुत्तान एतदुत्तानकूर्मकम्” हठप्र० ।धनुरासनम् “पादाङ्गुष्ठौ पाणियुग्मेन धृत्वा कर्णावध्या-कर्षयेत् स्वस्य शश्वत् । कुर्य्याच्चापाकर्षणं प्रोक्तमेतदालस्यघ्नंदोषजिन्नाडिशुद्ध्यै” हठस० ।मत्स्येन्द्रासनम् “वामोरुमूलार्पितदक्षपादं जान्वोर्वहिर्वेष्टित-वामदोष्णा । प्रगृह्य तिष्ठेत् परिवर्त्तिताङ्गो मत्स्येन्द्र-नाम्नोदितमासनं स्यत् । मत्स्येन्द्रपीठे जठरं प्रदीप्तंप्रचण्डरुग्मण्डलखण्डनाच्च । अभ्यासतः कुण्डलिनीप्रवोधं दत्ते स्थिरत्वं हि ददाति पुंसाम्” हठस० ।पश्चिमतानासनम् “प्रसार्य्य पादौ भुवि दण्डरूपौ दोर्भ्यां चपादद्वितयं गृहीत्वा । जानूपरि न्यस्तललाटदेशोऽभ्य-सेदिदं पश्चिमतानमाहुः । इति पश्चिमतानमासनाख्यंपवनं पश्चिमवाहिनं कराति । उदयं जठरानलस्य कुर्य्यात्उदरे कार्श्यमरोगतां च पुंसाम्” हठप्र० ।मयूरासनम् “धरामवष्टभ्य करद्वयेन तत्कूर्परे स्थापितनाभि-पार्श्वे । उच्चासने दण्डवदुत्थितस्य मयूरमेतत् प्रवदन्तिपीठम् । हरति सकलरोगानाशु गुल्मोदरादीनभिभवतिच दोषानासनं वै मयूरम् । बहुकदशनभुक्तं भस्म कुर्य्या-दशेषं जनयति जटराग्निं जारयेत् कालकूटम्” हठप्र० ।शवासनम् “उत्तानशववद्भूमौ शयनं तु शवासनम् । शवा-सनं श्रान्तिहरं चित्तविश्रान्तिकारकम्” हठप० ।सिंहसनम् “गुल्फौ च वृषणस्याधः सीवन्याःपार्श्वयोःक्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ।हस्तौ तु जानुनोः स्थाप्य स्वाङ्गुलीं संप्रसार्य्य च ।व्यात्तवक्त्रो निरीक्षेत नासाग्रे न्यस्तलोचनः । सिंहा-सनं भवेदेतत् पूजितं योगिभिः सदा । बन्धत्रयस्यसन्धानं कुरुते चासनोत्तमम्” हठप्र० ।भद्रासनम आसनशब्दे ८८६ पृ० दृश्यम् तत्फलम् “भद्रंकफक्लेशसमीरहारि” हठस० ।कूर्मासनम् “गुल्फद्वयेनापरिपीड्य पायुं जानुद्वयं भूमि-तले निधाय । कूर्मासनं स्यादिति योगिवर्य्यैरशोतिवातामयहारि चोक्तम्” हठस० ।बल्लर्य्यासंनम् “स्थित्वा समं सरसिजे कृतवङ्क्षणोर्वोरङ्घ्र्योरधःस्थकरकूर्परकौ विधाय । वद्धोर्द्धषाणितलयुग्म तदु-त्तमाङ्गम्प्रशांङ्गुलस्य कलयेदुपरि प्रकामम् । उत्तान एवचिवकं हृदयेऽर्प्य तिष्ठेत् कुर्वन् समीरणनिरोधनमेक-चित्तः । काये यदोदर उदेति च भूरिदाहोऽधोवा-युनिःसृतिरुदेति तदा क्रमेण । संमोचनीयमिदमासन-मार्य्यधीभिर्मन्दं विनाशयति घोरतरज्वरार्त्तिम् ।सन्दीपने हुतवहस्य च वल्लरीति संज्ञं प्रभुक्तपरिपाचन-मासनं स्यात्” हठ स० ।वृश्चिकामनम् “धरामवष्टभ्य करद्वयेनोरः पार्श्वयोः स्थापितत्स्थकूर्परः । वृश्चीव पुच्छप्रतिमाङ्घ्रिपार्ष्णी धृत्वाऽप्य शीर्षेचिवुकं विधार्य । यत्रेति सन्तिष्ठति साधकस्तत् विषा-पहं वृश्चिकसंज्ञमासनम्” हठस० ।मूलवन्धासनम् “वामाङ्घ्रिपार्ष्ण्यग्र तदुच्चकैर्गुदाननान्तरंभूर निपोह्य साधकः । व्यस्तं विधायाग्रपदं सुगुल्फतोऽधो दक्षपाद लघु वामजानुनि । विन्यस्य बद्ध्वा गलके-ऽनुजालन्धरं समं स्थापितसर्वगात्रः । महाश्मवत्स्थाणु-रनन्यचेता भ्रूमध्यदृग् दोर्युगसधृतोरुः । इदं मूल-बन्धासनं योगसिद्धिप्रदं दीपनं जाठराग्नेरतीव । ध्रुवंशक्तिसन्दीपनं मूत्रवर्चाजिदर्शोग्रहण्यामयानां विनाशि ।समवाहनमाशु मारुतस्य विदधात्यूर्द्धगतिं जयं चसिद्धीः । विहिते किल विष्टरेऽत्र पायौ महती वह्नि-शिखा सदोपयाति । भुजगी परिजागराद्यवस्था वि-बुधैरूर्ध्वगतिस्त्वपानवायोः” हठस० ।गोमुखासनम् “सव्ये कृत्वा दक्षगुल्फं तु पूर्वं पार्श्वे यत्रस्थाप्यते सन्निवेश्य । दत्त्वा वामं गुल्फलं पृष्ठपार्श्वे तत्पीठं स्यात् गोमुखं गोमुखाभम् । अपानसिद्धिं विद-धाति मूलबन्धान्निहन्त्येव भगन्दरार्शः । धौत्याश्च नौले-र्वितनोति सिद्धिं सुसाधकस्यामनमेतदग्र्यम्” हठम० ।कुब्जिकासनम् “किञ्चित् तिर्य्यक् साम्यमास्थाप्य जानुमूर्द्ध्वंधृत्वा संपरावर्त्तितेन । कृत्वा मूले पादमाधाय तिष्ठे-देतत् पीठं कुब्जिकं वह्निकारि” हठस० ।पार्श्वोपधानासनम् “समानभूमौ शयनं विधायोत्तानौ करौपार्श्वयुगान्तराले । पृष्ठे मिथः साधु निबध्य यत्र पार्श्वो-पधानासनमुक्तमुत्तमैः” हठस० ।उत्कटासनम् “युजा स्फिचोः स्थीयत ऊर्द्धजानुर्यत्रासने पाद-तलद्वयोपरि । स्फिग्भ्यां मनागुत्कटकं धरित्रीमस्पृश्यपीठं स्मृतमुत्कटाख्यम्” हठस० ।पद्मासनम् “वामोरूपरि दक्षणं च चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।अङ्गुष्ठौ, हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधि-विनाशकारि यमिनां पद्मासनं प्राच्यते” हठस० ।प्राणायामाङ्गपद्मासनम् “उत्तानौ चरणौ विधाय विविवत्सक्थिस्थितौ योगिर डुत्तानौ स्वकरौ विधाय च मिथोजङ्घे समाकृष्य च । नासाग्रे दृशमाविधाय चिवुकचात्तभ्य वक्ष स्थलं मूले साधु सरज्ञयाऽभिकलयेदेतत्सरोजस्य सत् । अपानमुत्थाप्य शनैः स्वशक्तितः प्राणंसमाकृष्य च कुम्भकं चरेत् । धृत्वा यथ शक्त्यनुरेचयेच्छनैर्वायुं गदघ्नं स्मृतमम्बुजासनम् । समस्तदाषज्वर-दाहमाहपित्तामयष्न सकलं सुखावहम् । प्राणः समो-ऽस्मिंश्चसति क्षणेन मुनेरनुष्ठानविधौ सरोरुष्ठे” हठम० ।करसंपुटपद्मासनम् “कृत्वा संपुटितौ करौ दृढतरं यद्ध्वा तुपद्मासनम् गाद वक्षसि संविधाय चिवुक ध्यानश्चतच्चेतसि । वारंवारमपानमूर्द्ध्वमनिलं प्रोच्चालयन् पूर-यन् मुञ्चन् प्राणमुपैति रोधमतुलं शक्तिप्रभावादतः”हठयोगः ।सिद्धासनम् “योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा ध्रुवं विन्य-मेन्मेढ्रे पादमथैकमेव हृदये धृत्वा समं विग्रहम् ।स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद् भ्रुवोरन्तरंचैतन्मोक्षकपाटभेदजनकं सिद्धासनं पोच्यते” पवनयोगसं० ।वीरासनभद्रासनस्वस्तिकासनानि आसनशब्दे ८८६ पृ० दृश्यानिसुखासनम् “येन केन प्रकारेण सुखं स्थैर्य्यं च जायते ।तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत्” सूतसंहिता ।इदमेव “स्थिरसुखसामनमिति” पात० लक्षितम् ।षट्कर्मोपक्रमः “अथासने दृढो योगी वशी हितमिताशनः ।गुरूपदेशमार्गेण प्राणायामं समभ्यसेत् । यावद्धायुः स्थितोदेहे तावज्जीवितमुच्यते । मरणं तस्य निष्क्रान्तिस्तस्मात्वायुं निरोधयेत् । चले वाते चलं चित्तं निश्चले निश्चलं तथा । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् । मलाकुलाषु नाडीषु मारुतो नैव मध्यगः । कथंस्यादुन्मनीभावः कर्मसिद्धिः कथं भवेत् । शुद्धिमेतियदा सर्वं नाडीचक्रमनाकुलम् । तदैव जायते योगीप्राणसंग्रहणे क्षमः” इत्युपक्रमे “यदा तु नाडीशुद्धिःस्यात्तदा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तथाजयेत निश्चितम् । यथेष्टं धारणं वायोरनलस्य चदीपनम् । नाडीभिर्व्यक्तिरारेग्यं जायते नाडिशोध-नात् । मेदश्लेष्मादिनाशार्थं षट्कर्माणि समाचरेत् ।अन्यथा नाचरेत्तानि दोषाणां समभावतः । धौतीवस्ती तथा नेती त्राटकं मौलिकं तथा । कपालभातीचैतानि षट्कर्माणि प्रचक्षते । कर्मषट्कमिदं गोप्यं घट-शोधनकारकम् । विचित्रगुणसन्धायि पूज्यते योगिपुङ्गवैः” हठप्र० ।धौती “चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदभ्यासाङ्गेतिकर्मवित् । कासश्वासप्लीहकुष्ठं कफरागाश्चविंशतिः । धौतीकर्मपभावेण शुध्यन्त्येव न संशयः” हठप्र०“विंशद्दोःप्रमितं च पञ्चदशदोर्मानं च विस्तारतश्चत्वार्य्य-रङ्गलविस्तृतं सुमृदुलं सिक्तं सुवस्त्रं तनु । स्थित्वागोमुखविष्टरे सुशनकैरेतत् ग्रसेत् साधको मन्दं चानुविनिर्हरेत् कफगदश्वामेषु धौती हिता” हठस० ।वस्ती “नाभिदध्ने जले पायुन्यस्तनालोत्कटासनः ।आधारात् कुञ्चनं कुर्य्यादपानं वस्तिकर्मविद् । गुल्म-प्लीहोदरं चापि वातपित्तकफोद्भवम् । वस्तिकर्मप्रभावेणक्षोयन्ते सकलामयाः । धात्विन्द्रियान्तःकरणप्रसादंदद्याच्च कान्तिं दहनप्रदीप्तिम् । अशेषदाषोपचयं हिहन्यात् अभ्यस्यमानं जलवस्तिकर्म” हठप्र० ।“जलं पायुविन्यस्तनालस्य मार्गात् जले नाभिदघेसमाकृष्य चोर्द्ध्वम् । चलत्युत्कटे विष्टरेऽपानकोषात् जलंयाति तुन्देऽम्बुना वस्तिकर्म” (नालं वंशादिसूक्ष्मस्निग्ध-नालिका) । आदावुत्कटविष्टरे परिगतः प्रोत्थाप्य स-म्यग्नलं पायुद्वारविकाशकोचविधिना वायूर्द्धमाकर्षयेत ।आपूर्य्यं दृतिवत्त तुन्दमभितो नौल्या प्रचाल्यानिलंकृत्वाऽधोमलमुत्सृजेत् समकिलं योगी बहिःकोष्ठ-गम् । अत्र वस्तिकर्मणि गोमुखमेव प्रशस्तमनुभूतमितिसङ्केतः । अत्र सर्वकोष्ठमलानां कोष्ठक्षालनपूर्वकद्रवत्वेनबहिःकृतिर्यथा भवति । तदुपायसङ्केतेन वस्तिकर्म-कर्त्तव्यम् । पूर्वोक्तविधिना गोमुखे चोत्कटासने स्थित्वा-ऽपानद्वारोर्ध्वमन्तर्जलं किञ्चिद्गृहीत् । तदूर्ध्वं स्वस्ति-कासने स्थित्वा समाकृष्य नामेरूपरि हृदयान्तं कर्त्तव्यम् ।पुनरुत्कटासनेन जलं गृहीत्वा प्राग्वन्नाभौ विधेयंस्वस्तिकेनं स्थेयं विधेयम् । एवं वस्तौ स्वस्तिकेन चैयंसर्वं कोष्ठं जलपूणं कृत्वाऽभितः कोष्ठं बिभ्राम्यान्त्र-सन्धिगतमन्त्रादिलीनपक्वापक्वसद्रवघनमलादि द्रवीकृत्यपश्चाद्बहिस्तज्जलं कुर्य्यात् क्रमेण न त्वरयेत् । तदाऽनेनविधिना कोष्ठः प्रक्षालितवस्त्रबद्धोऽपास्तदोषो भवतिहठस० ।नेती “सूत्रं विस्तस्ति सुस्निग्धं नासानाले प्रवेशयेत् ।मुखान्निर्गमयेत् सा हि नेतो सिद्धैर्निगद्यते । कपाल-शोधनी कार्य्या दिव्यदृष्टिप्रदायिनी । जत्रूर्द्ध्वजातरो-गौघं नेतिराशु निहन्ति च” हठप्र० ।“आखुपुच्छसदृशं सुनिर्मलं षड्बितस्तिमितसूत्रमरूक्षम् ।संप्रवेश्य लघु नासिकाबिले वक्त्रतो रहसि निर्गमयेच्च तत् ।नेतीति कर्मोदितमेतदार्य्यैर्जत्रूर्ध्वजाताखिलरोगहारि ।कपालसंशोधनकारि कार्य्यं द्विवारकं दिव्यदृशञ्च धत्तेहठस०त्राटकम् “निरीक्षेत् निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः ।अश्रुसंपातपर्य्यन्तमाचार्य्यैस्त्राटकं स्मृतम् । स्फोटनं नेत्र-रोगाणां तन्द्रादीनां कपाटकम् । प्रयत्नात् त्राटकं गोप्यंयथा हाटकपेटकम्” हठप्र० । अस्य फलान्तरं हठस० उक्तंयथा “सिद्धेऽस्मिन् नासिकाग्रेक्षणहततनुरुक्क्लेशवान्साधकः स्याद् भ्रूमध्यं च क्रमेणाकलयति सतताभ्यासतःखेचरीञ्च । दिव्यां दृष्टिञ्च धत्ते जनयति यमिनो योग-विष्पत्तिसिद्धिं मूर्ध्वस्थम्भोरुहे वै पवनहृददयोरक्रमे-णानुलोम्यम्” प्रकारान्तरं यथा “प्रातः समुत्थाय सुखा-सने गतः समभ्यसेत् त्राटकमेक एव । प्रसार्थ्य दृष्टिंननु लक्ष्यमीक्षेत् समुज्ज्वलं तत् रहसीतचिन्तः । अभ्यासतो-ऽस्मात् स्थिरतां समश्नुतः समीरनेत्रे इति लक्ष्यदीक्षा ।विधाय किञ्चित समये विलोचने संमुद्र्य पश्चात् झटितिप्रमार्य्य । पश्येत् परोनिश्चलमेकधीः खं पश्येत्तु यावत्पुरतोऽर्कृविम्बम । समभ्यसेत्तावदिमां क्रियां चेत् सुनि-र्मला दृष्टिरनेन वै स्यात्” हठस० ।नौलीकर्म तच्च द्विविधं बाह्यमान्तरं च तत्र बाह्यं यथा“सव्यापसव्यं लघु नालिकाभिर्व्यावर्त्त्य वेगैः कृतदोर्युगःकौ । कृत्वा भ्रमंस्वस्तिक आनतांसस्तुन्दस्थनालोत्थिति-मेवमीहेत” हठस० । “अमन्दामन्दवेगेन तुन्दं सव्याप-सव्ययोः । शतशो भ्रामयेदेष नौलीयोगः प्रचक्ष्यते ।मन्दाग्निसन्दीपनपाचकाग्निसन्घानमानन्दकरी सदैव ।अशेषदोषामयशोषणी च हठक्रियाऽसौ जयतीहनीली” हठप्र० । आभ्यन्तरमुक्तं हठरत्नावल्यां यथा“इडयावर्त्त्य वेगेन तथा पिङ्गलया पुनः । उभाभ्यांभ्रामयेदेषा ह्यान्तरा कीर्त्तिता मया” ।कपालभाती “लोहकारस्य भस्त्रावत् कुर्य्यात् सव्यापसव्यतः ।कपालभाती विख्याता कफामयविशोधिनी” हठप्र० ।“सल्लोहकारधमनीव च संप्रपूर्य्यैकं नासिकापुटमरं सुवि-रेचयच्च । योगी द्विवीयमिति भस्त्रिकयेव शश्वत् सव्याप-सव्यचरिचालनमत्र कार्य्यम्” हठस० ।चक्रांकर्म “सुस्निग्धं मसृणेन वा सुहविषा मध्याङ्गुली-युग्मकं सार्द्रं लूनं खं प्रसार्य्य शनकैः वायुं हृदन्तेक्रियात् । ऊर्ध्वं सर्वमिहाभितोऽत्र नलकाद्यं भ्रामये-दन्तरे यावत् पायुविकाश उद्भवति संप्रोक्तेति चक्रीबुधैः । कृत्वेति चक्रीविधिमादरेण प्रक्षालयेत्तद्विषयंततो दृढम् । आमादिदोषान्तमिति प्रकुर्य्यात् यथा गुदास्यंश्लथविश्लथं भवेत् । तथाङ्गुलीनां त्रिचतुःक्रमेण संभ्रा-मयेत् पायुविकाशनावधि । नलान्त्रगाढावृतिदुर्मलान्तःस्यान्मूलचक्रस्य विकाशनं च हठस० । “पायुवक्त्रंप्रसार्य्यान्तरङ्गुल्यौ भ्रामयेत् भृशम् । यावद् गुदविकाशःम्यात् चक्रीकर्म निगद्यते । शूलव्याधिर्गुल्मरोगोनश्यत्यत्र न संशयः । मलशुद्धिर्दीपनं च जायते चक्रि-कर्मणि” हठरत्नाबली ।गिलिकर्म “यद्घण्टिकामस्तकयोः पिधानमथो ललन्ती कथि-तोपजिह्वा । तदग्रकं तर्जनीमध्यमाभ्यां संमन्थयेद् ज्ञोमुहुराकलय्य । गिलीति कर्मोदितमार्य्यवर्य्यैः सन्धि-प्रलीनामकफैघहारिं हठम० ।गजकरणीकर्म “उदरगतपदार्थानुद्वमेदेव नित्यं पवन-गमनमार्गात्कण्ठनालप्रवेशात् । क्रमपरिचयवश्यो वा-युमार्गो भवेद्वै गजकरणमितीव प्राहुरार्यांहठज्ञाः ।(अपानवायोरूर्द्ध्वकरणात् । पवनोर्द्धकरणेनवा । पाय्वा-कर्षणेन यद्भक्षितं वस्तु तदुद्वमेत् । कण्ठनालप्रवेशात् ।कण्ठे नालस्य प्रवेश एरण्डनालस्य प्रवेशस्तस्मात् । तदाक्रमपरिचयक्रमेण वस्तुपरिचयः स्यादित्यर्थः) हठस० ।“प्राक् स्थित्वोत्कटविष्टरे समतनुर्नौल्यानलोत्थापनं कृत्वा-ऽपानमनूर्ध्वमीरणपथा गल्यीं विधायोद्वमेत् । यत्प्राग्भक्षितमन्नपानमथ वा नालप्रवेशाद्गले तत् पश्चःदशितंवमेदनुविधिः प्रोक्तो हठज्ञैरिह । आसने गोमुखे स्थित्वाकृत्वा भूमौ करौ दृढम् । नम्र ऊर्ध्वं वायुकृष्टिं नाला-दुत्थाप्य चाचरेत् । वक्त्राग्रमेवं विहिते दोषोभक्षित-संयुतः । एवं गजकरण्युक्ता भक्षितोद्वमनक्रियेति” ।वायुकृष्टिम् अपानेन सह प्राणस्य प्रकाममूर्ध्वाकर्षणम् ।नालोत्थानसमकालं कुर्य्यादिति भावः । अस्यार्थः उत्कटेआसने स्थित्वा बाहुयुगलं बद्धमुष्टिं जानुद्वयोपरि सस्था-प्यानु नम्राधोमुखः आनम्रकटिपृष्ठ आस्मिताङ्गोनालत्थानंकृत्वाऽनु पश्चाद्वायुमूर्ध्वं विधाय सोदरवेगैरशितमुद्वमेत ।यदि कदाचिन्नोर्ध्वमशित याति तदात्थायानमूकटिपृष्ठोजानुद्वयं तिष्ठन् दोर्भ्या धृत्वा प्राग्वदुद्वमेत्” हठस० ।शङ्खप्रक्षालनम् “नास पुटेन सलिलं परिपीय वक्त्रमार्गेणतद्बहिरहो कलयेत् सुधीरः । पीत्वैककेन पुटकेन चनासिकाया वृन्येन वारि शनकैर्बहिरुद्वमेद्वा । शङ्खप्रक्षालनमिदं कफपित्तहरं परम्” हठस० ।वायुसाधनम “इदानीं क्लेशहानार्थं कर्त्तव्यं वायुसाधनम् ।येन संसारचक्रेऽस्मिन् रोगहीनो भवेद् ध्रुवम्” । शिव-संहिता “राजदन्तयुगलान्तमस्पृशन् सन्निधाय रसनांतदन्तिके द्विक (काक) चञ्चपुटमारुतं पिबेत् प्राणसंयम-नमेतदुत्तमम्” । “जिह्वां कृत्वाऽनाकुलस्तालुमूले दन्तैर्द-र्न्तान् गाढभापीड्य सद्यः । मन्दं मन्दं यः पिबदगन्घवाहं सोस्रौ । पूरैः साकमन्तः स्रवद्भिः” त्रिपुरा-सारसमुच्चये । एतदभ्यासप्रकारः “नलिकासदृशींकाकं विधाय पूरयेत् तया । श्वसनं कुम्भयेन्नाड्यंरेचयेत् काकचञ्चुकम्” कुम्भकपद्धतिः । “द्विक(काक)चञ्चुवदानेन वायुं परिपूर्य्यानु निरोधयेद्धि वायुम ।रसनामुपरिध्रुवं विधायामृतधारां पिबतीह यः सुखीसः । अमुं रेचयेद् घ्राणान्ध्रद्वयेन स्मृता शीतलीकाकचञ्च्वाख्य एषः । मरुद्द्वन्द्वयोगप्रवीणोऽस्य मर्त्योभवेदेव संसाधनात् मुक्तिभाग् द्राक्” कुम्भकपद्धतिः ।आसने स्थिरीभूते प्राणामं कुर्य्यात् तत्प्रकारः प्राणाया-मगब्दे ४५१५ पृ० उक्तप्रायः अधिकमत्रोच्यते ।“मात्राप्रमाणयुक्तात् प्राणायामोऽयमोङ्कारात् । सेव्यःप्राणापानावुर्ध्वमधः सन्निरूध्य यत्नेन । प्राणायामेपद्मपीठे स्वदक्षाङ्गुष्ठेनादौ सन्निरुध्येन्दुनाडीम् ।वायुं नातिद्राक् शनैर्नातियुक्त्या व्याकृष्योर्ध्वं पूरयेत्स्वोदरान्ते । यथा स्वशक्त्या लघु धारयित्वा नाड्या ततःपिङ्गलया विरेचयेत् । निरोधहीनं विपतीतमध्यं हृदा-स्थिरेणाभ्यसनं मुनिश्चरेत् । येन त्यजेत् तेन निरोध-हीनं धृत्वा पुरान्येन विरेचयेत् शनैः । यान्त्येवमभ्या-सरतस्य पुंसः स्थितिं स्वलक्ष्ये चलचित्तवृत्तयः ।यथाशक्त्यः कृष्य स्वाङ्गं पूरयेदुदरं शनैः । यथाशक्त्या-धृत पश्चाद्रेचयेदविरोधतः” । हठयोगे “प्राणंचेडिकया पिवेन्नियमितं भूयोऽन्यया रेचयेत् । पीत्वापिङ्गलया समीरणमथो बद्धा त्यजद्वामया । सूर्य्याचन्द्रमसोरनेन विधिनाऽभ्यासं समातन्वतां शुद्धा नाडि-गणा भवन्ति यमिनां मासत्रयादूर्ध्वंतः” हठस० ।“तत्र भूतिशुद्धिप्राणायामं कृत्वा तदन्तेऽभ्यासार्थमुक्तसंख्या-सहितकुम्भकयथाशक्तिप्रणवजपध्यानाभ्यां सार्द्धमांसत्रयकुक्षिस्थ शेषोपपातकपातकसहितपापपुरुषनिरासनद्वारामनोबहनाडीगतमानसकामक्रीधादिमलशुद्धये यथोक्त-पथ्येकान्तसेवापूर्वकं विधायानु शारीरनाडीगणशुद्धिःषण्मासं विधेया” हठस० । सनातनसिद्धान्ते“निरालम्बमनाभूत्वा प्राणायामं” समभ्यसेत् । शनैश्चशतपर्य्यन्तं श्चतुर्वारं समभ्यसेत् । प्रातःसायञ्च मध्याह्नेह्यर्द्धरात्रौ विशेषतः । याममात्रं यदा पूर्णं भवेदभ्या-मयोगतः । एकवारं प्रकुर्वीत तदा योगीन्द्रजृम्भणम । षडत्रिंशच्च शतैकञ्च प्राणायामांश्च नि-त्यशः । “षण्मास भ्यन्तरेणैव शुद्धा नाडीगणास्तथा ।ततो वृद्धिक्रमेणैव प्रणवेन च धीरधीः । गङ्क्यार्थगुटिका कार्य्या मृण्मयो चातिशोभना । ततो नाडिगणःशुध्येत् वरं भवति लक्षणम् । चन्द्रं पियति सूर्य्येणसूर्य्यं चन्द्रुमवा पिबेत् । अयं हि कालाभाकेन जीवेदाचन्द्रतारकम्” । तदङ्गासनमुक्तं सनातनसिद्धान्ते“चतुरस्रं द्विहस्तञ्च उत्तुङ्गं चतुरङ्गुलम् । चेलोर्णद्दशचर्माद चासनं सर्वसौख्यदम्” ।नाडीशुद्धेस्तदङ्गता “नाडीविशुद्ध्यास्तसिरामलो यदा तदासमर्थोऽनिलधारणे चिरम् । स्यात् कोष्ठगर्त्तस्थमलोग्र-कर्दमक्षयेऽग्निरिद्धः क्व तनौ रुजां जनिः । सिद्धापाना-दजग्रन्थिं भित्त्वोर्ध्वं सर्पताऽर्ग्निना । मुनेस्तदा प्राण-युतोहृद्यास्तेऽनाहतध्वनिः । नाडीमध्यमलक्षयेऽल्पशयनंमूत्रं विडस्तैनसः पुंसः स्वल्पमरोगता न कृमयो लालान घर्मोरतिः । दुश्लेष्मानिलपित्तशान्तिरमलः कायो भवेत्सुन्दरस्तावत्कालमयं कुभाजनियमग्राह भजेदल्पभुक् ।योगाराम्भाद्यङ्गमुक्तं हि नाडीशुद्धिर्देहे शीर्षमाद्यंयथाङ्गे । यावत् सिद्धैषा हठाङ्गं न मुख्यं तावद्योगःसाधकस्य व्यलीकः । नाडीविशुद्वेर्मरुतो जय स्यात्जितेऽनिले याति मनः स्वयं क्षयम् । क्षीणे मनस्यस्त-मितैहिकार्थे ज्ञानप्रकाशः स्वमुपैति निर्मले । पूतेत्रिधानाडिविशुद्धितः स्यादारम्भकाले हठसिद्धिचिह्नम् ।क्रमेण कम्पादिजिताऽनिलानुरूपं हि घर्मान्तरमभ्यु-देति । सगर्भकायामविनिर्गतांहा मुनिस्तदारम्भ उदेतिसिद्धिभूः । सन्नाडिशुद्धेः परिणाम एषः संप्याप्यतेसद्गुरुणा विना नो” हठस० ।प्राणायामलक्षणं मार्कण्डेयपु० “शृणुष्व च महीपाल प्राणाया-मस्य लक्षणम् । युञ्जतश्च सदा योगं यादृग्विहितमास-नम् । पद्मं सिद्धासनं वापि तथा स्वस्तिकमासनम् । आ-स्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि । समः समासनोभूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथेवोरू सम्यग्यिष्टभ्यचाग्रतः । संपश्यन्नासिकाग्रं स्वन्दिशश्चानबलोकयन् । इत्थंयोगी यताहारः प्राणायामपरायणः” । “यथा तोया-र्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयुस्तथा वायुंपिबेद्यागी जितश्रमः । मृदुत्वं सेव्यमानास्तु सिंह-शार्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो मवतियोगिनः । विश्वासतां यथेच्छातो नागं नयति हस्तिप ।तथैव योगी स्वच्छन्दं प्राण नयति शोधितम् । यथा हिसाधितः सिंहो मृगान् हन्ति न मानवान् । तद्वन्निरुद्धःपवनः किल्विमं न नृणां तनुम् । तस्माद्युक्तं सदायोगी प्राणायामपरा भवेत्” इति योगचन्द्रिकायाम् ।“प्रणायामान्नरः षाष्टं कुर्य्यादेवमहर्मुखे । चत्वारिंशच्चमध्याह्ने सन्ध्यायां विंशतिर्भवेत् । अर्द्धरात्रे विंशतिःस्यादेवं प्राणविनिग्रहः” इति । “इडया वायुमाकृष्यपरयित्वादरस्थितम् । शनै षोडशमात्राभिरकारं तत्रसंस्मरेत् । पूरितं धारयेत् पश्चाच्चतुःषष्ठ्या तु मात्रया ।उकारमूर्त्तिमत्रापि सस्मरन् प्रणवं जपेत् । यावद् वाशक्यते तावद्धारयन् जपसंस्थितः । पूरितं रेचयेत् पश्चान्मकारेणानिलं बुधः । शनैः पिङ्गलया विप! द्वात्रिंशन्मात्रया पुनः । प्राणायामो भवेदेष ततश्चैनं समभ्यसेत् ।प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कम्पनं म-ध्यमं विद्यादुत्थानं च त्तमं तथा । पूर्वं पूर्वं प्रकुर्वीत या-वदुत्तमसम्भवः । उत्तमे तु मुनिर्ज्जाते प्राणायामे सुखीभवेत् । प्राणो लयति तेनैव देहस्यान्तस्ततोऽधिकः ।देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहः” । योगसारावल्याम् । “सरेचपूरैरनिलस्य कुम्भैः सार्वासु नाडीषुविशोधितासु । अनाहताख्यो वहुभिः प्रकारैग्रन्तःप्रवर्त्तेत सदा निन दः” इति । “अस्मिन्ननाहते प्राण-नादे कृत्वा मनः स्थिसम । निर्भयं साधकः कुम्भवृद्ध्याभ्य-सनमाश्रयेत् । ध्यायेन्मूले कर्णिकान्तः कुण्डलीरूप-मीश्वरम् । नादासंक्रमणं शान्तं शिवध्याने कृक्रमात् ।मूर्त्तिध्यानानन्दपीने नादानन्दे प्रलीयते । यथा यथाममः शुद्धं लीयते ध्याननादयोः । तथा तथा वायुजयसिद्धिकृन कुम्भ एधते । अहोरात्रमिति ध्यायन्नादा-सकमतिर्मुनिः । दृढभ्य मपरः शीघ्रं योगसिद्धिमवा-प्नुयात् । यावन्न श्रूयते नादस्तावच्चित्तमिदं चलम् ।नदि लानं ममो ध्याने विना यत्नं हि युज्यते । स्वेद-निद्राङ्गमोटाद्याः क्षयं संयान्ति साधके । सपादघटि-कार्ध्वं स्यात कम्पो जल्पनमेव च । आनन्दः स्यात्सदाभ्यामादारम्भे कुम्भकाग्निना । शुष्के नाडोमलेदग्धे हृद्विकरे जयाग्निना । मूलस्थितपदोर्भेदेपृथ्व्यम्बुविलयोद्गमे । अपाने ऊर्द्ध्वं क्रमशः प्राणेनाकर्षित यदा । मूलारपृथिवोभेदेऽपाने जाड्यतमोबलम । क्षणं ततोद्ध्व भाकृष्टावपानस्याधराङ्गकम् । उत्तिष्ठन्ति गिरालम्बं लघुतूलवदस्वरो । तदासनोत्थ न-मक्त वायोर्विजयलक्षणम । पतन् लक्षणसिद्ध्याद्यःस्थितिचक्रविभेदने । वक्ष्यमाणाभ्याममतिं कुर्य्यात् यो-ऽपानमारुतम । उद्गत्युन्मुखमृजुसत्पृष्ठवाहविधित्-सया । पृष्ठवंशान्तरगतसुषुम्णार्द्धस्थले पदम् । त्रि-कोणं दहनस्यान्तं तदधः स्थितिरित्यसौ । अभ्यासेनजितापानं प्राणेनोर्द्ध्वमुखीकृते । पूर्ववाहं निराकर्तुंप्रतीचीपथमुत्तमम् । समवाहेन सुमतिर्नेतुं स्थिति-मुखान्तरे । स्थित्यारभेदभ्यसनं कुर्य्यात् सद्गुरुणोदि-तम् । विधिपद्मप्रभेदेन सर्वा आरम्भसिद्धयः । तावत्कालंसाधकस्य योगोक्तनियमग्रहः । स्वाधिष्ठानं विभिद्योद्ध्वे-मपानः प्रगतः स्वयम् । तिर्य्यग्गतेन प्राणेन निरा-वरण ऊर्द्ध्वगः । अधः स्थितः सन्धमति त्रिकोणं वह्नि-मण्डलम् । ध्मातो भस्त्रेव दहनो दृढाभ्यासो मुनेर्हि सः ।क्रमेण दीप्तो भवति सुषुमणास्थमलं स्यति । कुण्डलींतापयत्येष चालितां प्राणवायुना । उत्कर्षप्राणायामेनशक्तिचालेन चाल्यताम् । ततः परिचयावस्थाशक्ते-र्बोधकरी भवेत् । दीप्तोनलोऽपानजाड्यं शिष्टं दहतिवैकृतम् । प्रकाशावरणे जाड्ये दग्धेऽङ्गे क्वरुजो मलाः ।ज्ञानाग्निः स तदा सत्वप्रकाशक उपाधिहा । तथायोगा ग्नना दग्धा देहो योगिवरस्य हि । न दृश्यतेयोगिदेहो देवैरपि महाबलः । इच्छारूपस्तदा योगिदेहः स्यादजरामरः । सुषुमणाचक्रनिलया प्राणा-पानौ ग्रसेद्यदा । तदा केवलकम्भः स्यान्मुनेस्त्रैलोक्यसिद्धिकृत् । जलूका रुधिरं यद्द्बलादाकर्षयेद् घ्रुवम् ।ब्रह्मपाडी तथा धातून् सतताभ्यासयोगतः । तदा नद्यःपुष्कराद्यानदाः शुष्यन्ति पुद्गले क्व दोषाः क्षुत्पिपासाद्यासर्वे नश्यन्ति योगितः” । हठस०प्राणायामकाललमानम “अथ प्रमाणमेतेषां रहम्यमपिकथ्यते चतुरष्टद्वादशभिः क्रमादाढ्याः पलैस्त्रयः ।ततः पञ्चदशोन्मानपलैरष्टादशोन्मितः । परंस्ततश्चतुर्विं-शस्तीव्रहेतुरिहेरितः । निसर्गाद्द्वादशगुणाः प्रत्याहार-स्ततः परम्” हठस० ।निसर्गपाणायामकालः कुम्भकपद्धतौ “पञ्चगुर्वक्षरैर्युक्तः कालःपलमितो हि यः । निसर्गतः कुम्भकोऽयमतोऽर्ध्दं रेचकःस्मृतः । अर्द्धः पूरक इत्युक्ता मात्राकुम्भविश रदैः ।पञ्चविंशतिभिः प्रोक्तः पलैद्वांदशमात्रिकः” । अयमेवनाडोशोधभोऽभ्यामप्राण यामः । “पञ्चशद्भिर्द्वितीयस्तुसपादोद्व्यधिकोन्मितः । तृतीय इति नि र्दष्टो दत्तात्रेयमतंयथा” । तदयं संक्षेपः “कनिष्ठे प्राणायामे एकस्मिनकालमानं चत्वारि पलानि भवन्ति तद द्वादशप्राणायामेसर्वकालमानं ४८ पलानि असौ प्रथम द्घातः स्वदसम्भाकालः । एवं द्वितीये मध्यमेरौ कालमानमष्टौ ८ प-लानि तदा द्वादशभिः ९६ पलानि । अत्र सर्बकालः१ । २६ घटिकादि मध्यमेरौ कालः । तीव्रमेरौ काल-मानं १२ पलादि तदा द्वादशभिः १४४ पलानि २२४ च-ट्यादि एवमुत्तमोत्तमो वायुजयकालो ज्ञेयः” हठस० ।तत्र अधमसाधके स्वेदातिरिक्तकम्पाद्यभावः । उत्तममाधकेयमादिगुणसम्पत्तौ कामसंकल्पाद्यपाये कम्पासमोत्थाना-दिसिद्धिमम्भवः” हठस० । “तदा विध्वस्तपापस्य भवेदा-रम्भमम्भवः । चिह्नानि यागिनो देहे दृश्यन्ते नाडि-शुद्धितः” इत्युपक्रमे “वलीयसि भवेत् स्वेदाऽङ्गे मुतेःप्रथमोद्यमे । यदा संजायते स्वेदा मर्दनं कारये-त्तदा विभूत्या मह मिश्रेण श्रमजाताम्बुनाऽमुना ।अकथा विग्रहाद्वायुर्नष्टो भवति योगिनः । दृढतालघुतऽङ्गे स्यात् श्रमजाम्बुङ्गमर्दनात् । कम्पो द्वितीयेभवति दार्दुरी मध्यमे ततः” । (दार्दुरी दर्दुरो भेक-स्तस्येव उत्प्लुतोतप्लुत्य गतिः) । ततोऽधिकतर भ्यामाद् गगने माधको हि सः । योगी पद्म सनस्थोऽपिभुवमुत्सृज्य वर्त्तते । वायुसिद्धिस्तदा ज्ञेया संसार-ध्वन्तनाशिनी” कुम्भकपद्धता “एवं नाड्याविवेकेनचतःकालेषु विंशतिम् । कुम्भकान् यदि कुर्वीत नाडीशुद्ध्य ख्यकम्भत । ग्रीष्ममध्यदिनार्कामं नामो सवितृ-मण्डलम् । मूर्ध्वनाड्या कृते कुम्भे ध्यात्वा शुध्यन्तिनाडिकाः । चन्द्रेण पित्तदोषाणामितरेषां परेण तु ।नाडीशुद्ध्य त्मना भूयात्त्रिमिर्मासैर्न संशयः । नादश्रुतिर्वपुःकार्श्यमारोग्यं वह्निदीपनम् । नैर्मल्यमक्ष्णार्वदनप्रसादो विन्दनिर्जनयः । द्विसप्ततिसहस्राणां नाडीनां मलशोधनम । यथे धारणं वायोर्विकाराभाव एव च” हठस०मात्राकम्भकः “भात्राः षोडश पूरेस्युश्चस्तुःषष्टिस्तु कुम्भक ।द्वात्रिं शद्रेचके प्रोक्ताः म त्राकुम्भः समीःरतः । मात्राकुम्भो हृदिकृतः शोषकः सपकीर्त्तितः । स्वाधिष्ठानानुगश्चाय प्लावनोऽमृतमेचनः । दाहना नाभिसस्थानोमात्राकुम्भः प्रकीर्त्तितः । मूलाधारे कृतश्चायं कठितीकरणो मतः । पुनः कण्ठानुगो यश्च व्यूहनः स्यतिम कुम्भक । ब्रह्मस्थाने नियोगेन सुक्तिदः परिकीर्त्तितः” ।अयमाशयः । पूर्वाभ्य मे स्थानावलोकनचिन्तनाभ्यां मनमादग्भ्या ताद त्म्येन नामाग्रनागिभ्रूमध्याङ्गुष्ठहृदयवण्ठादिनिखिलशरीरान्तर्गतप्रदेशेषु स्थानात् स्थानान्तर साधकेनकु म्भतस्य वायोर्यथानयनं स्थापनं च पुनस्ततः स्तम्भितस्यवायोः प्रदेशान्तरे नयनमिति चतसाऽस्य प्राणस्य चालनंकर्त्तव्यं गुरूपदेशेनेति मात्राकुम्भः । सूर्य्येण हृदिकुम्भनात् तदूर्ध्वं रसवहानां नाडीनां रसशोषणंभवति । एवं नाभौ सर्वसिरामूलत्वात् सूर्य्यमण्डल-पदत्वात् आग्नय गादत्यौष्ण्यमव नाडिगतमलदाहः ।एवं स्वाधिष्ठाने स्थितौ तस्य सौम्यापानचन्द्रपदत्वात्अमृतरसमेचनस्तत्तत्पार्थिवांशतमोऽपायद्वारा प्लावनो भ-वति । कठिनीकरणं मृदुतापिधानं देह्येन्द्रियेषु” हठम० ।मात्रामानम् “प्रदक्षिणीकृत्य जानुं नातिद्रुतविलम्बितम् ।अङ्गुलीत्रिकतो मात्रा छोटिकाकरणाद् भवत्” ।“मात्रा नवविधा प्रोक्ता योगिभिस्तत्त्वदर्शिभिः । नि-मेषोन्मेषणं मात्रा कालो लघ्वक्षरोन्मितः । गोदाह-वत्सपानेषुक्षेपघण्टारवोन्मिताः । चतुरो ह्यतिमात्राःस्युस्ताश्च सेव्याः शनैः शनैः । देशंकालानुसारेण प्राहु-र्योगीश्वराः पुरा । पूरकुम्भकरेचेषु निसर्गजनितेषु यः ।कालः स मात्रासंज्ञः स्यात् सर्वमात्राः क्रमादिमाः ।अष्टमा इति ताश्चैव महामात्राः पुरोदिताः । जानुंप्रदक्षिणीकृत्य त्रिवारं छोटिकामनु । करणात् ह्रस्व-मात्रैषा मध्यैषा षड्मिरीरिता । जान्वोः प्रदक्षणकृ-तिर्नववारमसौ वरेति” हठस० ।गृहस्थस्य प्राणायामकालः “सव्याकृत सप्रणवां गायत्रींशिरसा सह । त्रिर्जपेदायतप्राणः पाणायामः स उच्यत”गीता । अयञ्च पापशुद्धये गृहस्थैः योगसिद्वयेच योगिभिश्च कार्य्यः । तादृशसमुदायस्य त्रिजपे पलद्वयंभवतीत तस्य कम्भकालसंख्यावेदकत्व वोध्यम् । योग-दीपिकायाम्” हठस० ।प्राणस्वरूपम् “समस्तेन्द्रियवृत्तिश्च प्राणो वायुः प्रकी-त्तितः । तज्जुयादि न्द्रयाण्येव विजितानि भवन्ति हि ।अतः प्राणमनःस्पन्दयोः सहभावित्वात् प्राणनिग्रहेमनो निगृह्यते” हठस । यागसासिष्ठे “बाह्याभ्यान्तर-स्पन्दश्चित्तजो वातजोऽथ वा । न यस्य विद्यते तस्यदूरस्थौ विकृतिक्षयो । अयं भावः प्राणायामोपायोपे-तथ इतरस्मादल्पः श्वासपश्वासो भवति यथा स्वनन-च्छेदनोदिषु व्याप्रियमाणस्य पर्वतमाराहतः शीघ्रंधावतो वा श्वसिवेगो यावान् भवति न तावा । स्थितस्या-सीनस्य वा भवति । यथा दुष्टैःश्वेरुपतो । तथः मत्यक्त्वा क्वापि नीयत स च भार थना दृढःज्ज्वाकृतःस्वमार्ग पुनर्धार्य्यते तथेन्द्रियैर्सिनादिभिरितस्ततां नीय-मानं चित्तं प्राणरज्ज्वौ दृढधारितायां स्वात्मतत्वेधार्य्यते” इत्येवं चित्तविकारप्राणक्षयौ प्रकृतेऽभिप्रेतौ”हठस० ।अभ्यामक्रमः “प्रथमे दिवसे कार्थ्यं कुम्भकानां चतुष्टयम् ।प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिः सह । विंशतिं चतृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने” योगदीपिका ।प्राणायामफल हठयोगे गोरक्षनाधः । “द्वाराणां नवकंनिरुध्य मरुतं पीत्वामृतं धारित भीत्वाकाशमपानवह्नि-सहितं शक्त्या समुच्छासितम् । आत्मध्यानयुता ह्यनेनविधिना विन्यस्य मूर्ध्नि ध्रुवं यावत्तिष्ठति तावदेवमहताऽसङ्गेन संयुज्यते” ।प्रण यामप्रकारः “प्राणायामं ततः कुर्य्यान्नित्यं सत्त्वजया-धिया । यथा सुषुम्णान्तरस्थामलाः शोषं प्रवान्ति च ।वद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वायथाशक्त्य भूयः सूर्य्येण रेचयेत् । प्राणं सूर्य्येण चा-कृत्य पूरयेदुदरं शनैः । विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेणरेचयेत् । येन त्यजेत् तेन पूर्य्यं धारयेत्तु निरोधतः ।रेचयेच्च ततोऽन्येन शनैः पवमवेगतः । प्राणं चेदिडयापिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समी-रणमथो बध्वा त्यजेद्वामया । सूर्य्याश्चन्द्रमसोरनेन विधिनाविम्बद्वयं ध्यायताम् शुद्धा नाडिगणा भवन्ति यमिनांमासत्रयादूर्द्ध्वतः । प्रातर्मध्यं दिने सायमर्द्धरात्रे च कुम्भकान् । शनैरशीतिपर्य्यन्तं चतुर्वारं समभ्यसेत् । इडयापिच षाडशभिः पवनं कुरु षष्टिचतुष्टयमन्तरगम् । त्यजपिङ्गलया शनकैः शनकैः दशभिर्दशभिर्दशर्भिर्द्व्यधिकैः ।अधमे जायते स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तरेप्राणो बद्वे पद्मासने हठे । ततोऽधिकतराभ्यासाद् भवतःस्वेदकम्पनौ । ततोऽधिकतराभ्यासाद् दार्दुरी जायतेभृगम् । यथैव दर्दुरागच्छदुत्प्लुत्यात्प्लुत्य भूतले । पद्मा०मनस्थिता योगी तथा गच्छति भूतले । जलेन श्रमजातेन गात्रमर्दनमाचरेत् । दृढता सघुता चापि तेनगात्रस्य जायते । अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम । तताऽभ्यासे दृढीभूते न तादृक् नियमाग्रहः ।यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः । तथैवसेवितो वायुरन्यथा हन्ति साधकम् । प्राणायामेन युक्तेनसर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोयेन सर्वरोगसमु-द्भवः । हिक्का कासतथा श्वासः शिरःकर्णाक्षिवेदनाः ।भवन्ति विविधारोगाः पवनस्य प्रकोपनात् । युक्तं युक्तंत्यजेद्वायुं युक्तं युक्तञ्च पूरयेत्” हठप्रदीपिकाग्रन्थे ।प्रणायामाभ्यासफलम् “एवमासनबन्धस्थो योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिशुद्धिं च मुद्रादिपवनक्रियाम्” हठस० ।“क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । क्रियैवकारणं सिद्धेः सत्यमेतन्न संशयः । न शास्त्रपाठमात्रेणयोगसिद्धिः प्रजायते । प्राणायामैरेव सर्वे प्रशुष्यन्ति-मलाशयाः । आचार्य्याणान्तु केषाञ्चिदन्यत कर्म न सम्मतम् । षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः । अभू-वन्नान्तकभियस्तस्मात्पवनमभ्यसेत् । ब्रह्मादयोऽपि त्रिदशाःपवनाभ्यासतत्पराः । सर्वसिद्धिं गताः सर्वे तस्मात्पवनमभ्यसेत् । यावद्बद्धो मरुद्देहे तावत् चिन्ता निरा-कुला । यावद्दृष्टिर्भ्रुर्वोर्मध्ये तावत्कालभयं कुतः ।विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुमणावदनं भित्त्वा मुखाद्विशति मारुतः । मारुते मध्यसञ्चारेमनः स्थैर्य्यं प्रजायते । यो मनःसुस्थिरीभावः सैषा-वस्था मनोन्मनी । तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्तिकुम्भकान् । विचित्रकुम्भकाभ्यासाद् विश्चित्रां सिद्धि-माप्नुयात् । सूर्य्यभेदनमुज्जायी तथा शीत्क रः शी-तलो । भस्त्रिका भ्रमरी मूर्च्छा केवलश्चाष्टकुम्भकाः ।पूरकान्ते तु कर्त्तव्यो वेधो जालन्घाराभिथः । कुम्भ-कान्ते रेचकादौ कर्त्तव्यास्तूड्डियानकः । अधस्तातकुञ्चनेनैव कण्टसङ्कोचने कृते । मध्यपश्चिमतानेन ग्यात्प्राणो मध्यना डगः । अपानमूर्द्ध्वमुत्थाप्य प्राणं कण्ठा-दधो नयेत् । योगी जराविनिर्मुक्तो षोडशो वयसा-भवत्” हठप्र० ।सूर्य्यमेदनम् “अथासनं सुखादेव बद्ध्वा मुद्रा समन्ततः । दक्ष-प्राड्या समाकृष्य वहिःस्थं पवनं शनैः । आकेशाग्रंनखाग्रं च शिरोधावधिकुम्भकम् । ततः शनैः सव्य० । ड्यारेचयेत् पवनं पुनः । कपालशोधनं वातदोषध्नं कृमिनाश-नम् । पुनः । पुवरिदं कुर्य्यात् सूर्थभेदनमुत्तमम्” हठस० ।उज्जायी “मुखं संयम्य नासाभ्यामाकृष्य पवनं शनैः ।यथा लगति कण्ठान्त देहानलविवर्द्धनम् । पूर्ववत् कु-म्भकं कृत्वा रेचयेदिडया ततः । श्लेष्मदोषहरं कण्ठेदावानलविवर्द्धनम् । नाडीजलोदरधातुगतदोषविनाश-मम् । गच्छता तिष्ठता कार्य्यसुज्जयाख्यं च कुम्भ-कम्” हठप्र० ।अथ शीत्कारः “कुम्भ कुर्य्यात् सदा वक्त्रे घ्राणेनैवविसजयेत् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ।योगिनीचक्रसामान्यसृष्टिसंहारकारकः । न क्षुघान तृषा निद्रा नैवालस्यं प्रजायते । भवेत् स्वच्छन्द-देहस्तु सर्वोपद्रववर्जितः । अनेन विधिना सत्यं यो-गीन्द्रो भूमिमण्डले । स भवेत् सर्वसिद्धीनां भाजनंनात्र संशयः । नासिकामूलरन्ध्रेण यः प्राणं सततंपिबेत् । स भवेत् सर्वसिद्धीर्ना भाजनं नात्र संशयः ।रसनातालुमूलेन यः प्राणं सततं पिवेत् । अव्दार्द्धेनभवेत्तस्य सर्वरोगपरिक्षयः” हठप्र० ।शीतलीकुम्भकः “जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् ।शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः । गुलमप्लीहोदरंचापि ज्वरपित्तं क्षुधां तृषाम् । एताश्च शीतली नामकुम्भकोऽयं निहन्ति च” हठप्र० ।मस्त्रिका “ऊर्वोरुपरि संस्थाप्य उभे पादतले तथा । पद्मा-सनं भवेत् सम्यक् सर्वपावप्रणाशनम् । सम्यक पद्मासनंबद्ध्वा समग्रीवोदरः सुधीः । मुख्यं संयम्य यत्नेनप्राणं घ्राणेन रेचयेत् । यथा लगति हृत्कण्ठे कपाला-वधि पूरयेत् । वेगेन पूरवेत् सम्यक् हृत्पद्मावधि मारु-तम् । पुनर्विरेचयेत् तद्वत् पूरयित्वा पुन पुनः । यथैवलोहकारणां भस्त्रा वेगेन चाल्यते । तथैव स्वशरीरस्थचाल्पते पवनो बलात् । यदा श्रमो भवेद्देहे तदा सू-र्य्येण तेजयेत् । अथोदरे भवेत् पूर्णे पवनेन यथा लघुः ।धारयेन्नासिकामध्ये तर्जनीभ्यां तथा दृढम् । कुम्भकंपूर्ववत् कृत्वा रेचगेदिडयाऽनिलम् । वातपित्तश्लेष्महरंशरीराग्निविवर्द्धनम् । कुण्डलीबोधनं कुम्भे रोगघ्नंसुखदं शुभम् । ब्रह्मनाडीमुखे संस्थकपाटार्गलनाश-नम् । सम्यग्भस्त्रा समुद्भूता ग्रन्थित्रयविभेदिका ।विशेषेणैव कर्त्तव्यं भस्नाख्यं कुम्भकं त्विदम्” हठप्र० ।भ्रमरीकुम्भकम् “वेगोद्घेषं पूरकं भृङ्गनादं भृङ्गीनादंरेचकं मन्दमन्दम् । योगीन्द्राणां नित्यमभ्यासयोगा-च्चित्ते जाता काचिदानन्दलीला” हठप्र० ।मूर्च्छनाकुम्भकः “पूरकान्ते बहुतरं बद्ध्वा जालन्धरं शनैः ।रेचयेन् मूर्च्छनाख्योऽयं मनोमूर्च्छासुखप्रदा । अन्तःप्रवर्त्तिताधारमारुतापूरितोदरः । साक्षात्पयस्यगाधेतु विप्लवेत् पद्मपत्रवत्” हठप्र० ।संहितकुम्भकः “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।सोहतः केवलश्चेति कुम्भको द्विविधो मतः । रेचकं पूरकंकुर्य्यात् स वै संहितकुम्भकः । यावत् केवलसिद्धिः स्यात्तावत् संहितमभ्यसेत्” हठप्र० ।केवलकुम्भकः “रेचकं पूरकं त्यक्त्वा मुखाद्वायुनिरोधनम् ।प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । केवलेकुम्भके सिद्धे रेचपूरविवर्जिते । न तस्य दुर्लभं किञ्चि-त्त्रिषु लोकेषु विद्यते । शुद्धकेवलकुम्भेऽत्र यथेष्टं वायु-धारणम् । राजयोगपदं चैव लभते नात्र संशयः ।आहारः क्षीयते योगे कृष्णपक्षे यथा शशी । शुक्लपक्षेयथा चन्द्रस्तथा श्वासोऽमृतोपमः । हठं विना राज-योगो राजयोगं विना हठः । न सिध्यति ततोयुग्मनिष्यत्त्यै च समभ्यसेत् । कुम्भकप्राणरेचान्ते कुर्य्या-च्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदंव्रजेत् । कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतोभवेत् । अनर्गला सुषुमणा च हठसिद्धिश्च जायते ।वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनि-र्मले । आरोग्यता विन्दुजयोऽग्निदीपनं नाडीविशुद्धि-र्हठयोगलक्षणम्” हठप्र० ।उपदेशः “सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषांयोगतन्त्राणां तथाधारोहि कुण्डली । सप्ता गुरु-प्रसादेन बोधिता सुखदा भवेत् । तथा सर्वाणि पद्मानिभिद्यन्ते ग्रन्थयस्तथा । प्राणस्य शून्यपदबी तथा राजप-थायते । तथा चित्तं निरालम्ब तथा कालस्य वञ्चनम् ।सुषुम्णा शून्यपदवी ब्रह्मारन्ध्रं महापथम् । श्मशानीशाम्भवी मध्यमार्गश्चैत्येकवाचकाः । तस्मात् सर्वप्रय-त्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासेनबोधयेत्” हठप्र० ।दशमुद्रोद्देशः “महामुद्रा १ महाबन्धो २ महाबेधश्च ३ खेचरी ४ ।उड्डियानं ५ मूलबन्धो ६ बन्धोजालन्धराभिधः ७ । करणीविपरीताख्या ८ वज्रोली ९ शक्तिचालनम् १० । इदं हिमुद्रादशकं जरामरणनाशनम् । आदिनाथोदितं सर्वमष्टै-श्वर्य्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं महतामपि ।गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचित् नैववक्तव्यं कुलस्त्रीसुरतं यथा । वज्राली त्वमरोली चसहजोली त्रिधा मता । एतेषां लक्षणं वक्ष्ये कर्त्तव्यञ्चविशेषतः” ।महामुद्रा १ “पादमूलेन वामेन योनिं संपीड्य दक्षिणम् ।पादं प्रसारितं धृत्वा कराभ्यां धारयेद् दृढम् । कण्ठे वन्धसमारोप्य धारयेद्वायुमूर्द्धनि । यथा दण्डहतः । मर्पोदण्डाकारः प्रजायते । ऋज्वी भूत्वा तथा शक्ति कुण्डलीसहसा भवेत् । तदासौ मरणावस्यां हरते द्विपुटा-श्रिता । ततः शनेः शनैरेव रेचयेन्न च वेगतः । इदंखलु महामुद्रा महासिद्धैः प्रशस्यते । महाक्लेशादयोदोषाः क्षीयन्ते मरणादयः । महामुद्राञ्च तेनैव वदन्ति, विबुधोत्तमाः । चन्द्राङ्गे च समभ्यस्य सूर्य्याङ्गे पुनरभ्य-सेत् । यावत्तुल्या भवेत् संख्या ततो मुद्रां विसर्जयेत् ।न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपिभुक्तं विषं घोरं पीयूषमिव जीर्य्यति । क्षवकुष्ठगुदा-वर्त्तगुल्माजार्णपुरागमाः । दोषाः सर्वे क्षयं यान्तिमहामुद्रां च योऽभ्यसेत् । कथितेयं महामुद्रा महा-सिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्यकस्यचित्” हठप्र० ।महाबन्घः २ “पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा । पूरयित्वा मुखेवायुं हृदये चिवुकं दृढम् । निष्पीड्य योनिमाकुञ्च्यमनोमध्ये नियोजयेत् । धारयित्वा यथाशक्ति रेचयेद-निलं शनैः । सव्याङ्गे पूर्वमभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ।मतान्तरे तु केषाञ्चित कण्ठबन्धं विवर्जयेत् । राजदन्तस्यजिह्वायां बन्धः शस्तो भवेदिति । अर्य खलु महाबन्धोमहासिद्धिप्रदायकः । कालपाशमहाबन्धविमोचनवि-चक्षणः । अयं च सर्वनाडीनामूर्द्ध्वगमनरोधकः । त्रि-वेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः । रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धोनिः फलौ बेधवर्जितौ” हठप्र० ।हाबेधः ३ “महावेधे स्थितो योगी कृत्वा पूरकमेकधीः ।वायुना गतिमाकृष्य निभृतं कण्ठमुद्रया । समहस्तयुगेभूमौ स्फिक्षौ सन्ताडयेत् शनैः । पुटद्वयं सम क्रम्यवायुः स्फुरति मध्यगः । सोमसूर्य्याग्निसम्बन्धात् जायतेच मृतिञ्जयः । मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः ।महाबेधोऽयमभ्यासान्महासिद्धिप्रदायकः । बलीपलित-निर्मुक्तैः सेव्यते साधकोत्तमैः । एतद् त्रयं महासुद्राजंरामृत्युविनाशिनी । वह्निवृद्धिकरञ्चैवमणिमादिगुणप्रदम् । अष्टधा क्रियते चैव यामे यामे दिने दिने ।पुण्यसम्भारसन्धायि पापौघभिदुरं सदा । सम्यक् जिज्ञासतामेव स्वल्पं प्रथमसाधनम् । वह्निस्त्रीपथसेवानामादौ वजंनमाचरेत्” हठप्र० ।खेचरी ४ “छेदनचालनदोहैः जिह्वां क्रमेण वर्द्धयेत्तावत् ।यावद्भ मध्यं स्पृशति तदा च खेचरीसिद्धिः । स्नुही-पत्रनिभं शस्त्रं सुतोक्ष्णस्निग्धनिर्मलम् । समादायततस्तेन रोममात्रं समुत्च्छिदेत् । कृत्वा सैन्धवपथ्यादिचूर्णं ताभ्यां प्रघर्षयेत । पुनः सप्तदिने प्राप्ते रोम-मात्रं समुत्च्छिदेत् । एवं क्रमेण षण्मासं नित्ययुक्तसमाचरेत् । षण्मासाद् रसनामूलनाडाबन्धो विनश्यति ।अथ वागीश्वरीधाम शिरोवस्त्रेण वेष्टयेत् । शनैरुत्-कर्षयेद्यागी कालवेलाविधानवित् । वितस्तिप्रमितं दैर्व्येविस्तारे चतुरङ्गुलम् मृदुलं धवलं प्राक्तं वेष्टिताम्बर-लक्षणम् । पुनः षण्मासमात्रेण पुनः सङ्कर्षणात् प्रिये! ।भ्रूमध्यावधि वर्द्धेत तिर्य्यक् कर्णबिलावधि । अधस्तात्चिवुकं मूलं प्रयाति क्रमकारिता । केशादूर्द्ध्वञ्च क्रामतितिर्य्यक्शङ्खावधि प्रिये! । पुनः संवत्सराद्देवि ।द्वितीया चैव लीलया । ब्रह्मरन्ध्रान्तमावृत्य तिष्ठत्यमर-वन्दिते! स्वतालुमूलं सङ्घृष्य सप्तवासरमात्मनि । स्वगु-रूक्तप्रकारेण मलं सर्वं विशोधयेत् । अङ्गल्यग्रेण सङ्घृष्यजिह्वां तत्र निवेशयेत् । शनैः शनैर्मस्तकाच्च महावज्रैकपाटभृत् । पूर्ववीर्य्ययुतां विद्यां व्याख्यातामतिदुर्लभाम् ।अस्याः षडग्ङ्गं प्रकुर्वीत तया षट्चक्रभिन्नया । खे निरस्तसकलक्रियाक्रमा चित्ततश्चरति शाश्वतोदरे । सा शिवत्वसमवायकारिणी खेचरी च भवखेदहारिणी । क्रमेणैवप्रकर्त्तव्याऽभ्यासेन वरवर्णिनि! । युगपद्यतते तस्यशरीरं विलयं व्रजेत् । तस्मात् शनैः शनैः कार्य्याभ्यासेनयुगवत् प्रिये! । एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं विशेद्ध्रुवम् । षट्चक्राणि विभिद्य शक्तिभुजगीं प्रोत्थाप्य मूलस्थितां भित्त्वा ग्रन्थिपुटं च पश्चिमसिराप्राकाररूपं म-हत् । नीत्वा प्राणमतः सिराविलमलं निर्मथ्य चित्तेनतत् लिङ्गं यः पिवतीन्दुमण्डलगलत् मुक्तः स साक्षात्शिवः” । “तीक्ष्णकं हरते व्याधिं कटुकं कुष्ठनाशनम् ।घृतस्वादूपमं चैवामरत्वं लभते ध्रुवम् । मधुस्वादू-पमं चैव शालिमुद्गादिकं बहु । लड्डुस्वण्डकपानानि पक्वान्नानि ह्यनेकशः । दिव्यकल्पं क्रीडेन्नित्यमुत्कृष्टो जायते ध्रुवम् । तन्मयत्वमवाप्नोति कोष-कारीव कीटकः । कपालकुहरे जिह्वा प्रविष्टा विपरी-तगा । भ्रुवोरन्तर्गता दृष्टिर्भुद्रा भवति खेचरी । काक-चञ्चुविधानेन शीतलं सलिलं पिबेत् । प्राणापानप्रयोगेच योगी भवति निर्जरः । कलां पराङ्मुखीं कृत्वात्रिपथे परिवर्त्तयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रंतदुच्यते । रसनामर्द्ध्वगां कृत्वा क्षणार्द्धं यदि तिष्ठति ।यिषमैर्मुच्यते योगी व्याधिमृत्युजरादिभिः । न रोगोमरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् । पीड्यते न तु रागेण नलिप्यति च कर्मणा । ब ध्यते न च कालेन या मुद्रां वेत्तिखेचरीम् । चित्तं चरति खे यस्मात जिह्वा चरात खेगता । तेनेयं खेचरीमुद्रा सर्वसिद्धैर्नमस्कृता । खेचर्य्यामुद्रितं येन विवरं लम्बिकोर्द्धतः । तस्य नाक्षरते विन्दुःकामिन्यालिङ्गतस्य च । चलितोऽपि यदा विन्दुः संप्रा-प्तश्च हुतामनम् । व्रजत्यूर्द्धं हठशक्त्या निरुद्धा योनि-मुद्रया । कपालकुहरे जिह्वा कालसन्धानसद्रया ।तस्मादिदं प्रकुर्वीत नित्ययुक्तः समाहितः । नित्यं सोम-कलापूर्णं शरीरं यस्य यागिनः । तक्षकेणापि दष्टस्य विषंतस्य न सर्पति । ऊर्द्ध्वजिह्वास्थिरो भूत्वा सोमपानंकरोति यः । मासार्द्धेन न सन्देहो मृत्युञ्जयति योग-वित् । इन्धनानि यथा वह्निस्तैलवर्त्तिं च दीपकः ।तत्षोडशकलापूर्णं देही देहं न मुञ्चति । रसनां वेश-येदूर्द्धं पिबेत्तत् क्षरितं जलम् । गोमांसं भक्षयेन्नित्यंपिबेदमरवारुणीम् । कुलीनन्तमहं मन्ये इतरे कुलघा-तका । गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।गोमांसभक्षणं तच्च महापातकनाशनम् । जिह्व प्रवेश-संभूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारःस स्यादमरवारुणी । नाभिदेशे भवत्येष भास्करो दहना-त्मकः । अमृतात्मा स्थिरो नित्यं तालुमध्ये तु चन्द्रमाः ।वर्षत्यधोमुखश्चन्द्रेग्रसेदूर्द्धमुखो रविः । ज्ञातव्यं कारर्णतस्य येन पीयूषमाप्यते । मूर्द्ध्नः षोडशपद्मपत्रगलितंप्राणादवाप्तो हठात् ऊर्द्धास्यो रसनां नियम्य बिवरेशक्तिं परां चित्तप्रेय । उत्कल्लोलकलाजलं च बिमलंधारामृतं यः पिबेत् भिर्दोषः स भृणालकोमलवपुर्य्योगीचिरञ्जीवति । चस्वन्ती यदि लम्बिकाग्रमनिशं जिह्वा-रसस्यन्दिनी सक्षाराकटुकाम्लदुग्धसदृशं मध्वाज्यतुल्यंयथा । व्याधीनां हरणं चरान्तकरणं शास्त्रागमोद्धारणम् तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम् । सु-खितं ज्ञानजनकपञ्चस्रोतःसमन्वितः । तिष्ठति स्वेचरी-मुद्रा तस्मिन् शून्ये निरञ्जने । यत्प्रलयं चापि गतं सु-खितं मेरुमूर्द्धतः । तस्मिंस्तत्त्व प्रवदति सुधीस्तनमुखंनिम्नगानां चन्द्रात्सारः स्रवति च सुधा तेन मृत्युर्नराणाम् । तं वध्नीयात् सुकरणमथा नान्यथा कायसिद्धिःइष्टा सैषा मुवमचिदिता खेचरी यागिवृन्दैः । एकंसृष्टमयं वीजमेका मुद्रा च खेचरी । एकौ देवो निरा-लम्ब एकावस्था मनोन्मनी” हठमङ्केते नानास्थाने ।उडडीयानम ५ “सति वज्रासने प्रादौ कराभ्यां धारयेद् दृढम् ।गुल्फदेशसमीपे च कन्दं तत्र निपीडयेत् । पश्चिमातानमुदते कुर्य्याञ्च चिवुकं हृदि । शनैः शनैर्यथा प्राणःकन्दसन्धिं मिगच्छति” । “उड्डीयानाख्येत बन्धेन वायुःप्रोड्डीयास्ते ब्रह्मनाड्यां यनोऽसौ । उड्डायानाख्यःस्मृतो बन्ध आद्यैः सेव्यस्तस्मात् योगिभिः सिद्धसेव्यः ।अविश्रान्तः प्राणवायुः सदैव यस्मादुड्डीनं दृढं सं-विधत्ते । उड्डीयानं स्यात्ततस्तत्र बन्धं धीरो नित्यंसाधकः संविधत्ते” हठस० ।मूलबन्धः ६ “गुदं पार्ष्ण्या तु संपीड्यबलादाकुञ्चयेत् तथा ।वारंवारं यथा चोर्ध्वं समायाति समीरणः । प्राणा-पानौ नादबिन्दू मूलबन्धेन चैकताम् । गच्छतो योग-संसिद्धिं कुरुतो नात्र संशयः । अपानप्राणयोरैक्यंक्षयो मूत्रपुरोषयोः । युवा भवति वृद्धोऽपि सततं मूल-बन्धनात्” हठप्र० । “पादमूलेनं संपीड्य गुदमार्गंसुयन्त्रितः । बलादपानमाकृष्य क्रमादूर्ध्वं सुचःलयेत् ।कथितोऽयं मूलवन्धो जरामरणनाशनः” । “ऐक्येप्राणापानयोर्मूत्रगूथक्षैण्याद्वृद्धः स्यात् वयःस्थोऽपिमूलात् । भित्त्वा द्वारं यात ऊर्ध्वं ह्यपाने हृद्यग्नेः ।स्याद्वायुनेद्धा शिखोग्रा । ततो वह्न्यपानौ हृद प्राण-मुष्णं ततोऽन्ते प्रदीप्तस्तदा देहगोऽग्निः । घटे तेन नि-श्वस्य सा निद्रिता स्यात् प्रतप्ता समन्तात् क्रमेणैव शक्तिः ।परिचये मरुतो मनसः स्थितौ झटिति दण्डहतेव भु-जङ्गमी । शयनमुत्सृजति क्षुधिता रुषा कवलयत्यध-रानिलमूर्ध्वगम् । बिलं प्रविष्टे पवने ऋजुत्वं व्रजेत्सुषुम्णान्तसमीरणानुगा । शक्तिस्तती योगिभिरेवनित्यं श्रीमूलबन्धोऽभ्यासनीय आदरात्” हठस० ।जालन्घरबन्ध ७ “खेचरी चित्तपीयूषप्रवाहपरिबन्धिनी ।जालन्धरोऽमृतमरुत्प्रवाहपरिरोधकः । आकुञ्च्यं कण्ठंहृदये निदध्यात् किञ्चित् स जालन्धरबन्ध एषः । अयंकरोत्यव्ययमर्कबक्त्रे पतत्सुधाया वपुषोऽमरत्वम् । बध्नातियत् कण्ठसिरासमूहं नाधस्ततो याति नभःस्रवज्जलम् ।जालन्धरस्तन कृतः सुसिद्धैः स्यात् कण्ठदुःखौघवि-नाशहेतुः” । “नृणां कण्ठसङ्कोचनेनैव नाडावुभे स्तम्भ-येत्तेन मध्यस्थचक्रम् । इदं षोडशारं च नाम्नोक्त-माशु गते स्तम्भिवाबोः सुधापानमग्नौ । अमृतमहिमगुःस्वमेष नाभिस्थितदहनः प्रपिवन् ज्वलत्यजसम् । निखिलकमलतश्च्युतं तदग्निर्न पिबति पाति बन्धमेव धत्ते’विपरीतक रणी ८ “यत्किञ्चित् स्ववते चन्द्रादमृतं दिव्यरूपिच । तवसर्वं ग्रसते सूर्य्यस्तेन पिण्डो विनश्यति । त-त्रास्ति कारणं दिव्यं सूर्य्यस्य मुखबन्धनम् । गुरूपदेशतोज्ञेयं न तु शास्त्रार्थकोटिभिः । ऊर्ध्वपादोऽन्वधो मस्तकःस्यात् क्षणं वासरेऽथादिमेऽभ्यासवृद्ध्यैधयेत् । एवमभ्या-सतो याममात्रं सदा मृत्युजित् स्याज्जराजिच्च षण्मा-सतः । आरोप्य भूमाविति मस्तकं यो यामत्रयं तिष्ठतिचोर्ध्व पादः । विध्युक्तसंरुद्धसमीरवेगो मासत्रयात्स्वाद्धि तदाऽम्रः सः । ऊध्वं सोमकलाजर्ल सुविमलंकण्ठस्थलादुर्ध्वतो नासान्ते सुषिरे नयेच्च गगनद्वारं ततःसर्वतः । ऊर्ध्वाव्यो भुवि सन्निपत्य नितरामुत्तानपादःपिवेदेवं यः कुरुते जितेन्द्रियचयो नैवास्ति तस्य क्षयः ।नित्याभ्यासादस्य हि जठराग्निर्वृद्धिमायाति । आ-हारोऽतस्तस्मै सम्पाद्यः साधकाय भूरिर्ज्ञैः । जितेन्द्रियोयश्चलचित्तवृत्त्या प्राणावरोधेन कृतेष्टचिन्तनः विनिश्चलोऽर्द्धाङ्घ्रियुगस्तु तूष्णीं योगं भजन्नेव तदाऽमरो भवेत् ।वलितं पलितं चास्य षण्मासान्नैव दृश्यते । याममात्रा-भ्यासतोऽयं कालजित् स्यादिति क्रमः” हठच० ।लम्बिका हठसङ्केते प्रसङ्गादत्रैव लम्बिकादिविधिर्दर्शितःतत्रादौ जिह्वयालम्बनाय विधिर्यथा“तालुमूलगतां यत्नात् जिह्वयाक्रम्य घण्टिकाम् ।ऊर्ध्वरन्ध्रगते वायौ प्राणस्पन्दो निरुध्यते” तत्करण-प्रकारादि “समुद्घर्षयेत्तालुमूलं रसज्ञासिरामूलमुच्चैश्चसप्ताहमेतैः । सिरासिन्धुतीक्ष्णैः सहैयङ्गवीनैर्मलं सर्व-माशोधयेत् तत्समुत्थम्” हठस० ।छेदनम् “सकण्टवज्री लघुवृत्तपत्रनिभं सुशस्त्रं भृशतीक्ष्णधारम् । अङ्गुष्ठपर्वार्धसुविस्तृतं तदर्द्धेन्दुतुल्यं विमलंह्यरूक्षम् । दण्डस्तु कार्य्योऽस्य षडङ्गुलोऽग्रे समुच्छि-देत्तेन च रोममात्रम् । उच्चैर्गतोत्संप्रतिबन्धहेतोर्न्यग्भागसंस्थस्य कुचर्मणोऽस्याः । अधोर्ध्वतन्तूपमरक्तभासोबन्धः कलाया अमिताभनाड्याः । मध्ये गतस्योद्भवपीठतोऽस्य छिदेत् यवार्धोपरि नित्यमेव । संछेदनात् प्रागनु-चोक्तचूर्णेनाघर्षयेज्ज्ञो रसनातलव्रणम् । घटीद्वयं गाढमिति त्रिवारं संछेदनादूर्ध्वमतन्त्र आचरेत् । संछेदकर्मो-त्तरमस्ततन्द्रः सञ्चालनं दोहनमाविदध्यात् । अहर्निशंतदगतचित्तवृत्तः कार्य्याः पटीतोककणास्तु भेदे ।दीर्थं वितस्तिप्रमितं च विस्तृतं वेदाङ्गुलं स्यान्मृदुलंसितञ्च । सूक्ष्मं कलावेष्टनवस्त्रलक्षणं प्रोक्तं पुराणैरसनाभिचालने । आर्द्रेण चानेन कलां सुयुक्त्या सं-वेष्ट्य चाङ्गुष्ठकतर्जनीभ्याम् । दोष्णोः सदाकर्षणचालनेस्वमभ्यासमाकृष्य बहिर्विदध्यात् । एवं दृढाभ्यासतएव जिह्वा लम्बा भवेद्वै मृदुला सुपत्तला । आकर्षणेनैववदेत किञ्चित् सुसाधकः सुस्थिर एकमानसः” हठस० ।“जिह्वां समालिप्य मधूग्रगन्धक्षोदेन सञ्चालनदोहनेसदा । कार्य्या रसज्ञा विधिनेति शीघ्रं स्यात् खेचरीसाधकपुङ्गवस्य । रंछेदसंचालनदोहनानां षण्मासमभ्यास-युतः सदैव । नश्येत् कलामूलसिरोग्रबन्धो नासार्द्ध-मुच्चै रसना स्पृशेत् स्वम् । छिन्नं कलामूलमलं यदा-खिलं छिन्द्यात् क्रमेणानु शनैस्तदान्तिके । सिद्धेविलीनारुणवर्णके द्वे युक्त्या सदा च्छेदनयुक्तितोबुधः । यदा लम्बिका कर्मणि स्वं रसज्ञा स्पृशेत्नासिकार्द्धं तदा साधकस्य । अलं लम्बिकाकर्मणाऽनुस्वमेषा कला प्रत्यहं छिन्नमूलेति दैर्घ्यम्” हठस० ।“छेदनचालनदोहैः क्रमशः कलां वर्द्धयेत्तावत् । सा या-वद् भ्रूमध्यं विशति तदा खेचरी सिद्धिः । एवं कृते-ऽथ रसना प्रयात्यनुभ्रूलतान्तविलम् । तिर्य्यक् कर्णा-वधि हि चिवुकावधि सा स्वयं याति । अभ्यास इतिवष त्रयमत्र कृतस्तदा रसज्ञेयम् । ब्रह्मद्वारं प्रविशतिभित्त्वा भ्रूमध्यमूर्ध्वं गता” हठस० ।वज्रोली ९ “प्रागपानध्विनोर्ध्वं” समाकुञ्चनं सुन्दरं सुन्दरीवाभ्यसेत् पूरुषः । याति वज्रोलिकासिद्धिमत्यूमांकायसिद्धेः प्रसूं विन्दुसिद्धिर्यथा । शलाकया धातुगणा-न्तरोत्थया कनीनिकान्तः परिसृक्ष्मयाल्पकम् । रन्ध्रे स्व-लिङ्गस्य शनैः प्रवेशनाभ्यासक्रमाद्वायुगतिक्षमञ्चरेत्” ।अस्यार्थः आदौ मूत्ररेचौषधेन दुष्टपूतिक्वथितौष्णमेहदोषोञ्झितं विशुद्धसाधनं विधाय ततस्तदल्पविल-मल्पाभ्यान्तरं द्वादशाङ्गुलां कनीनिकाग्रसमां सरलांविशुद्धसीसकस्य पत्तलां शलाकां शनैर्लघुहस्तेन लिङ्ग-द्वारे क्रमेण समाहितः सततं विधाय तया तद्द्वारंवायुगतागतक्षमं गुदापान इव कृत्वा प्रथमाभ्यासेपात्रनिहितक्षीराकृष्टिमूर्ध्वानिलाकर्षणविधिना स्तोकस्तोकं मन्दमूर्ध्वमाचरेत्” हठस० ।“इति क्रमाभ्यासवृद्ध्या क्षीरपाने भगाख्यतः । दृढे नुकामिनीयोनिपुष्पाकर्षणमभ्यसेत् । स्थानात् संचलितंविन्दुमूर्द्ध्वमाकर्षयेदिति । अम्यसेत् साधकः सम्यक् या-वत् स्थिरपदं भवेत् । यन्त्रितः शरनालेन फूत्कारंवज्रकन्दरे । शनैः शनैः शकुर्वीत वायुसञ्चारकारणात्”अस्यायमाशयः । “षोडशाङ्गुलमानां तु प्रकुर्य्यात् वंशनालिकाम् । सूक्ष्माग्रमूलां तां लिङ्गमुखे दत्त्वास्यतन्मुखम् । धृत्वा फूत्कारमन्तेऽस्याः कुर्य्यात् वाढंमुहुर्मुहुः । प्रत्यहं तेन विवृतं लिङ्गद्वारं क्रमाद्भवेत् ।ततो नाल्याऽनया तोयमल्पं फूत्कारतोऽन्तरे । लिङ्ग-रन्ध्रेणस् गृह्णीयात् क्रमवृद्ध्या सुसाधकः । लिङ्गच्छिद्रेऽथविवृते क्षीराकृष्टिं ततो भजेत्” वज्रकन्दरे लिङ्गद्वारे ।“अपानमाकुञ्च्य ततो बलेनोर्ध्वं दुग्धमाकृष्टिविधि-क्रमेण । समभ्यसेन्निश्चलमल्पमल्पं भगे पतद्विन्दुमथोर्ध्व-माहरेत्” हठस० ।तद्भेदः सहजोली “अथ हि कुसुमितायां पुष्पमर्द्ध्वं स्वमूर्ध्निक्रमश उपरि कुर्य्यात् कुञ्चितात्लिङ्गनालात् । निज उप-गतविन्दुं सन्निबध्यानुकुर्य्यात् सुरतरसनिमग्नो लिङ्गसञ्चा-लनानि । विन्दुः पाण्डुर एष चन्द्र उदितः सूर्य्यो भवे-दार्त्तवं सिन्दूरप्रतिमं रवेः पदगतं शुक्रं शशिस्थानके ।ऐक्यं साध्वनयोः स्ववर्ष्मणि नृणां नो जायतेऽतो मृति-रन्थोन्यं नृवधूरते निजमहिम्नैक्यं द्वयोर्विग्रहे । अ-भ्यासपाटवतया विदधाति योषिदेवं नुरूर्ध्वपरिकर्षणतःसुविन्दुम् । यद्यार्त्तयं स्वमभिरक्षति योगिनी सा वज्रोलेखेत्यखिलसिद्धिपदं प्रयाति । शक्तीरजो विन्दुरथंमहेशो द्वयोः सुयोमात् परिवभ्यतेऽखिलम् । वीर्य्यंनिजम् ह्यार्त्तवमेतयोस्तनावैक्यं हि वज्रोल्युदितासुसिद्धिदा । नहजोली त्वमरोली वज्रोल्या भेदतो मवतः ।विन्दुं देहे बिभृयाद् येन च केन प्रकारेण । वज्रीणीमिथुनोत्तरं नरबधूत्था स्वाङ्गसलेपनात् सदग्धाच्छगणोत्य-याम्बुवृतया भूत्वा क्षणं संस्थिति । सैषोक्ता सहजोलिकासुरनुतैरार्य्यादिनाथैः शुना वज्रोडीति नृणां यनोतिनियतं भोगेऽतिभुक्तेऽमृतस । आकृष्योर्ध्वं मूत्रमल्पा-ल्पके तद्वारंवारं संसृजेन्मूत्रनालात् । आकृष्योर्ध्वं वायु-ना यो हठेन नित्यं धत्ते विन्दुसिद्धिं स याति । इतिषण्मासाभ्यासनाद् गुरुणोक्तपथेन सन्ततं योगी । शान्तिंगतः संभोगेन तस्य विन्दुः क्षयं व्रजति” हठस० ।शक्तिचालनम् १० “कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी ।कुटीलारुन्धती देवीशब्दाः पर्थ्यायवाचकाः । कन्दोर्द्धेकुण्डली शक्तिरष्टधा कुण्डलाकृतिः । ब्रह्मद्वारमुखंनित्यं मुखेनाच्छाद्य तिष्ठति । येन संर्गिण गन्तव्यं ब्रह्म-स्थामं निरामयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमे-श्वरी । उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् ।कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् । कन्दोर्द्धेकुण्डलीशक्तिर्बुद्ध्वा मोक्षाय योगिनाम् । बन्धनाय च मूढा-नां यस्तां वेत्ति स योनवित् । अम्भोधिद्वीपशैलानामाधारःशेषकुण्डली । अमोघयोगतन्त्राणामाधारः कुण्डली तथा ।कुण्डली कुटिलाकारा सर्पबत् परिकीर्त्तिता । सा शक्ति-श्चालिता येन स मुक्तो नात्र संशयः । गङ्गायमुनयोर्मध्येबालरण्डा तपस्विनी । बलात्कारेण गृह्णीयात् तद्विष्णोःपरमं पदम् । इडा भगवती गङ्गा पिङ्गला यमुना नदी ।इडापिङ्गलयोर्मध्ये बालरण्डा सरस्वती । पुच्छं प्रगृह्यभुजगीं सुप्तामुद्बोधयेच्च ताम् । निद्रां विहाय साऋज्वी मूर्द्धमुत्तिष्ठते हठात् । परिस्थिता चैव फणावतीसा प्रातश्च सायं प्रहरार्द्धमात्रम् । प्रपूर्य्य सौर्व्यात् परि-धानयुक्ता प्रगृह्य निर्य्यात्यतिचालिता सा । वितस्तिप्रमितंदीर्घं विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टना-म्बरलक्षणम् । वज्रासनस्थितो योगी चालयित्वा तकुण्डलोम्” हठप्र० ।तदङ्गसूर्य्यभेदनम् सूर्य्यादनन्तरं भस्त्रा कुण्डलीमाशु बोध-येत् । भानोराकुञ्चनं कुर्य्यात् कुण्डलीं चालयेत्ततः ।मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः । नासादक्षिण-मार्गवाहिपवनात् प्राणोऽतिदीर्घीकृतः चन्द्रान्तः परि-पूरितामृततनुः प्राग्घण्टिकामस्तका । भिन्दन् काल-विशालवह्निपशगान् भ्रूरन्ध्रन्तडीगणान् तत्कार्य्यं कु-रुते पुनर्नवतरं जीर्णद्रुमस्कन्धवत् । कुण्डलीं चाल-यित्वा तु कुर्य्याद्भस्त्रां विशेषतः । एवमभ्यासतो नित्यंयमिनः शङ्कते यमः । सदान्यसेत् सूर्यभेदमुज्जावींचापि शीतलोम् । एवमभ्यासयुक्तस्व यमस्तु यमिनःकुतः । मुहूर्त्तद्वयपर्य्यन्तं निर्भरं चाकनादसौ । उर्द्ध-माकृष्यते किञ्चित् सुषुम्णागतकुण्डसी । मुहूर्त्तद्वय-पर्य्यन्तं निर्भरं चामनादमौ । ब्रह्मचर्य्यरतस्यैव नित्यंहितमिताशनैः” हठप्र० ।समाघिक्रमः “अथेदानीं प्रवक्ष्यामि समाधिक्रमलक्ष-णम् । मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम् ।सलिले सैन्धर्बं यद्वत् साम्यं भजति योगतः । तषात्म-मनसोरैक्यं समाधिः सोऽभिधीयते । राजयोगस्य मा-हात्म्यं कोवा जानाति तत्त्वतः । ज्ञानान्मुक्तिस्थितेःसितिः गुरुवाक्येन लभ्यते । दुर्लभो विषयत्यागोदुर्लभं तत्त्वदर्शनम् । दर्लभा सहजावस्था सद्गुरोः क-रुणां विना । विविधैरासनैः कुम्भैर्विचित्रकरणैरपि ।प्रबुद्धायामादिशक्तौ प्राणः शून्थे विलीयते । उत्पाशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्थस्वयमेव प्रकाशते । सुषुम्णावाहिनि प्राणे शून्यंविशति मारुते । तदा समस्तकर्माणि निर्मूलयति कर्म-वित् । अमलो निर्मलः शून्यं जगदेतच्चराचरम् । चित्तेसमत्वमापन्ने वायुं व्रजति मध्यमे । एषाऽमरोली वज्रोलो सहजोली मताऽपि च । ज्ञानं कुतो मनसि जीवतिदेवि! तावत् प्राणेऽपि जीवति मनो म्रियते न तावत् ।प्राणमनोद्वयमिदं विलयं प्रयाति मोक्षं स गच्छतिनरो न कथञ्चिदन्यः । रसस्य मनसश्चैव चञ्चलत्वंस्वभावतः । रसो बद्धो मनो वद्धं किं न सिध्यति भू-तले । मूर्च्छितो हरते व्याधिं मृतो जीवयति स्वयम् ।वद्धः स्वेचरतां धत्ते रसो वायुश्च भैरवि! । इन्द्रियाणांमनो नाथो मनोनाथश्च मारुतः । मारुतस्य लयो नाथःस लयो नादमाश्रितः । अयमेव तु मोक्षाख्यो अस्तुवापि मतान्तरे । मनःप्राणलयौ नादमैकीकृत्य प्रवर्त्तते ।प्रनष्टोच्छासनिःश्वासप्रध्वस्तविषयग्रहः । निश्चेष्टा निर्वि-काराश्च लयं यान्ति च योगिनः । उच्छिन्नसर्व-लङ्कल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपिमनोवाचामगोचरः । यत्र दृष्टिर्लयस्तत्र भूतेन्द्रियसनातनी । स्वात् शक्तिः सर्वभूतानां दृष्टिर्लक्ष्ये न स-ङ्गता । वेदशास्त्रपुराणाद्याः सामान्यगणिका इव ।एकैव शाम्भवी मुद्रा सर्वतन्त्रेषु गोषिता । अन्त-लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषयर्जिता । एषा तु शा-म्भवी मुद्रा सर्वतन्त्रेषु गोपिता । अन्तलक्ष्यविलौनचित्तपवनो योगी यदा वर्त्तते दृष्ट्या निश्चलतारया बहि-रसौ पश्यन्न पश्यत्यपि । सुद्रेय खलु शाम्भवो भवति सा-युष्मत्पसादाद्गुरोः शून्याशून्याविवर्जिते स्फुरति यत्तत्त्वंपद शाम्भवम् । अर्द्धोद्वाटितलाचनः स्थिरमना नासाग्रदत्तेक्षणः । चन्द्रार्कावमिलीनतामुपनयेन्नैष्यन्दभावान्तरे ।ज्योतीरूपमशपबाह्यरहित ददाप्यमान परम् तत्त्वंतत्पदमेव वस्तु परमं वाच्यं किमत्राधिकम् । श्रीशा-म्भव्याः खेचर्य्याश्च अवस्थाचत्सभेदतः । तारे ज्योतिःषुसयोज्य किञ्चितुज्वालयेद् भ्रुवौ । पूर्वयोगस्यमार्गोऽयमुन्मनीकारनक्षणः । केचिदागमजालेनकचिन्निवमसर्ङ्कुलाः । कपितर्केण सह्यन्ति गैव जानन्तिवारकम् । षाताकाद्यद्वितीवशिखरे मेरुमूले तदस्ति-तत्त्वं चैतत् प्रवदति सुधीः सन्मुखं निन्मगानाम् । च-न्द्रात् सारः स्रवति वपुषस्तेन मृत्युर्नराणान्तं बध्नी-यात् स्वकरणभिदा नान्यथा कायसिद्धिः । दिवा न पज-येल्लिङ्गं रात्रौ नैव प्रपूजयेत् । सततं पूजयेल्लिङ्गं दिवा-रात्रौ च पूजयेत् । सुचिरं ज्ञानजनकपञ्चस्रोतःसम-न्वितम् । तिष्ठते खेचरौ मुद्रा तस्मिन् स्थाने न संशयः ।चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैवखेचरी नाम मुद्रा सिद्धैर्नमस्कृता । इडापिङ्गलयोर्योगेशून्ये चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यंपुनः पुनः । सूर्य्याचन्द्रमसोर्मध्ये निरालम्बे तले पुनः ।संस्थिता व्योमचक्रेण सा सुद्रा नाम खेचरी । सा मयो-द्भेदिता वामा साक्षाच्च शिबवल्लभा । पूरयेन्मारुतदिव्यं सुषुम्णापश्चिमे मुखे । पुरस्ताच्चैव पूर्य्येतनिश्चिता खचरो भवेत् । अभ्यसेत् स्येचरीमुद्रामुनमनीसा प्रजायते । अभ्यसेत् खेचरीं ताब्दयावत् स्याद्यो-गनिद्रितः । संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ।भ्रुवोर्मध्ये शियस्थानं मनस्तत्र विलीयते । ज्ञातम्यंतत्पदं तुर्य्य तत्र कालो न विद्यते । चन्द्रसूर्य्यद्वयोर्मध्येमुद्रा दद्याच्च खचरीम् । निरालम्बे महाशूग्ये व्योमचक्रेव्यवस्थिताम् । निरालम्ब मनः कृत्वा न किञ्चिदपिचिन्तयेत् । सबाह्यान्वरे व्योम्नि घठवत् तिष्ठति ध्रुवम् ।वाह्यवायुर्यथा लीनः खस्य मध्ये न संशयः । स्वस्थार्नगच्छति प्राणः सूर्य्याङ्गे पवने तथा । एवमभ्यस्यमानस्यवायुमार्गे दिवानिशम् । अभ्यासाज्जीर्य्यते वायुर्मन-स्तत्रैव लीयते । अमृत प्लावयेद्देहमापादतलमस्तकम् ।सिध्यत च महायोगो महाबलपराक्रमः । शक्तिमध्येमनः कृत्वा मनः शक्तेस्तु मध्यगम् । मनसा चित्त-मालोक्य धारयेत् परम पदम् । खमध्ये कुरु चात्मान-मात्ममध्ये च खं कुरु! । आत्मानं खमयं कृत्वा नकिञ्चिदपि चिन्तयत् । बाह्याचन्ता न कत्तव्या तथैवान्तर-चिन्तनम् । सर्वचिन्तां परित्यज्य न किञ्चिदपि चिन्त-वेत् । सङ्कल्पमात्रकलनाच्च जगत् समग्रं सङ्कल्पमात्रकल-नाद्धिमनोविलीनम् । सङ्कल्पमात्रमिदमुत्सृज निर्विकल्प-माश्रित्य निश्चलमवाप्नु मिहात्मशान्तिम् । कर्पूरं सलिलेयद्वत् सैन्घवं सलिले यथा । तथा सन्घीयमानं च मन-स्तत्त्वे विलीयते । ज्ञेयं सर्वमतीतञ्च ज्ञानञ्च मन उच्यते ।ज्ञानं ज्ञेयं मनश्चैव नान्थः पुन्था द्वितीयदः । मनोश्यमिदं सर्वं यत्किञ्चित् सचराचरम् । मनसोह्यु-न्मनीभावे द्वैतभावः प्रणश्यति । ज्ञेयवस्तुपरित्यागा-द्विलयं याति मानसम् । मानसे विलयं याते कैवल्य-मपि कल्पते । लयो लय इति प्राहुः कीदृशं लयलक्षणम् । स पुनर्वासनोत्थानो लयोविषयविस्मृतिः । एवंनानाविधोपायाः सम्यक्स्वानुभवान्विताः । समाधि-मार्गाः कथिताः पूर्वाचार्य्यैमहात्मभिः । सुषुम्णायैकुण्डलिन्यै सुधायै चन्द्रजन्मने । मनोन्मन्यै नमस्तभ्यं महाशक्त्यै चिदात्मने । आसक्ततत्त्वबोधानां मूढ-नामप्रि सन्मतम् । प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते” हठप्र० ।नादानुसन्धानप्रशंसा श्री आदिनाथेन सपादकोटिप्रकाराःकाथता जयन्ति । नादानुसन्धानकमेव कार्य्यं मन्यामहे-नान्यतम लयानाम् । मुक्तासनस्थितो योगी मुद्रा स-न्घाय शाम्भवीम् । शृणयादृक्षिणे कर्णे नादमेकान्तकेसुधीः । काष्ठेः प्रवर्त्तितो वह्निः काष्ठेन सह शाम्यति ।नादे प्रवर्त्तितं चित्तं नादेन सह लीयते । श्रवण-मुखनयननासानिरोधनेनैव कर्त्तव्यः । सुषुम्णामार्गेणस्फुटयमकः श्रूयते नादः” हठप्र० ।“आरम्भश्च घटश्चक तथा परिचयस्तथा । निष्पत्ति-श्चेति योगषु स्यादवस्थाचतुष्टयम् । विस्मृत्य सकलंवाह्यं नादे दुग्धाम्बुवन्नरः । एकीभूयाथ सहसा चिदा-काशे विलीयते । औदासीन्यपरो भूत्वा सदाभ्यासेनसंयमी । उन्मनीकरणं सद्यो नादमेपाबधारयेत्” । शतिकाले चौपटी वा कटी वा पथ्याहारे गोपथे वा पथे वाभक्ष्ये भिक्षावृन्दमारण्यकन्दं पाणौ द्रोणीकर्परं भोज्यपात्रम् । सर्वचिन्तां परित्यज्य सर्वकाले च सर्वदा । नादमेवानुसन्धत्ते नादे चित्तं विलीयते” हठप्र० ।आरम्भावस्था “ब्रह्मग्रन्थिमेवेद्भिन्न आनन्दः शून्यसम्भवःविचित्रक्षणिको देहे श्रूयमेऽनाहनो ध्वनिः । सम्पूर्ण-हृदये शून्ये आरम्भो योगवान् भरेत्” हठप्र० ।घटावस्था “द्वितीयायां घटोकृत्य--व युगवति मध्यमः । दृढासनो भवेद्यागो ज्ञानी देवसमस्तथा । विष्णुग्रन्थिर्यदा-भिन्नः परमानन्दसूचकः । अतिशून्यपिभेदश्च मेरी-शब्दस्तथा भवेत्” हठप्र०परिचयावस्था “प्रतीयग्रन्थिभेदेषु जायते मर्दलध्वनिः । महाशून्यं तथा याति सर्वासिद्धिसममाश्रयम् ।चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः दोषोदुःखक्षुधानिद्राजरामृत्युविवर्जितः । रुद्रग्रन्थिं ततोनित्त्वा सर्वपीठगतोऽनिलः” हठप्र० ।निष्ठावस्था “निष्ठातो वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ।एकीभूतं तथा चित्तं राजयोगाभिधायकम् । सृष्टिसंहा-रकर्त्तासौ योगीश्वरसमो भवेत् । अस्तु वा मास्तु वामुक्तिरत्रैवाखण्डितं महत् । लयामृतमिटं सौख्यंराजयोगादवाप्यते । राजयोगपदं प्राप्तं सुखोपायश्च चेत-साम् । हठं विना राजयोगो राजयोग विना हठः ।सद्यः प्रत्ययसन्धायी जायते नादजो लयः हठप्र० ।नादानुसन्धानं तत्फलञ्च “नादानुसन्धानसमाधिभाजां योगी-श्वराणां हृदये प्ररूढम् । आनन्दमेकं वचसामवाच्य जा-नाति तत्त्व गुरुनाथ एव । कर्णो पिधाय हस्ताभ्यां यंशृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिरपद व्रजेत् । सर्वचिन्तां परित्यज्य सावधानेन चेतसा ।नादमेवानुसन्धत्तं योगसाम्राज्यमिच्छता । मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते यथा । नादासक्तं तथा चित्तंविषयान्न हि काङ्क्षति । नादश्रवणतश्चित्तमन्तरङ्गभुज-ङ्गमः । विस्मृत्य सर्वमेकाग्रं कुत्रचिन्न हि धावति ।मनोमत्तगजन्द्रस्य विषयोद्यानचारिणः नियामनसम-थाऽयं निनादो निशिताङ्कुशः । नादोऽन्तरङ्गसारङ्ग-बन्धन वागुरायते । अन्तरङ्गतुरङ्गस्य रोधे बाधायतेऽपिच । अन्तरङ्गस्य जविनो वाजिनः परिघायते । नादो-पास्तिरतो नित्यमवधार्य्यापि योगिनः । अभ्यस्यमानोमादाऽय बाह्यमावर्त्तयेत ध्वनिम् । पक्षाद्विक्षेपमखिलंजित्वा योगी सुखी भवेत् । श्रूयते प्रथमाभ्यासे नादीनानाविधो महान् । वर्द्धमाने ततोऽभ्यासे श्रूयतेसूक्ष्मसूक्ष्मतः । आदौ जलधिजीमूतभेरीनिर्झरनि-स्वनः । मध्ये मर्दलशङ्खेत्थघण्टाकोलाहलस्तथा । अन्तेतु किङ्किणीशब्दवीणाभ्रमरनिस्वनः । इति नानाविधोनादः श्रूयते देहमध्यतः । महति श्रूयमाणेऽपिमेघभेर्य्यादिके ध्वनौ । तत्र सूक्ष्मतरं ध्वानं नादमेवपरामृशेत् । यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।तत्रैव तत् स्थिरीभूय तेन सार्द्धं विलीयते । घण्टा-निनादसक्तस्य शब्दान्तःकरणस्य तु । अनाहतस्य शब्दस्यतस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्रतं ज्योति-र्ज्ञेयस्यान्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः प-रमं पदम् । तावदाकाशसङ्कल्पो यावत् शब्दः प्रवर्त्तते ।निःशब्दं तत्परं ब्रह्म परमात्मा समीर्य्यते । यत् किञ्चि-न्नामरूपेण श्रूयते शक्तिरेव सा । यस्तच्छ्रोता निरा-कारः स एव परमेश्वरः । नादः शक्तिरिति ज्ञेयं नादज्ञानं सदाशिवः । ज्ञेयज्ञाने विलीने च सोन्मन्थेवा-वशिषग्रते । नादोयावान् मनस्तावन्नादान्ते तु मनोन्मनी ।सशब्दं कथितं व्योम्नि निःशब्दं ब्रह्म कथ्यते । सदान्यदानुसन्धानात् संक्षीणाः सर्ववासनाः । निरब्जने विली-यन्ते निश्चितं मारुतात्मनः । नादकोटिसहस्राणिविन्दुकोटिशतानि च! सर्वे तत्र लयं यान्ति यत्र देवीनिरञ्जना” हठप्र० ।हठलोगफलम् ईश्वरमीनसंवादे “यदा परिचये शक्तिश्चलितोर्ध्व मुपैति खम् । षट्चक्राणि क्रमाद्भित्त्वा तदा स्युरणिमादयः । पुरा ग्रन्थित्रयं भित्त्वा यात्यूर्ध्वं मरुतोरगी । स्फुटन्ति पृष्ठवंशास्थिग्रन्थयो योगिनस्तदा ।वायुस्तदैव सर्वाङ्गे नीनोभवति सञ्जितः । धीरैः केवल-कुम्भ स उच्यते सर्वसिद्धिदः । मूलाधारं यदाऽपानोमित्त्वोर्द्धं याति वेगतः । वदातीतानागतज्ञो योगी भवतिसत्त्वसीः । स्थितिं भित्त्वाऽर्द्धगाऽपानक्षोभिता स्थाद्यदो-रगो । तदा नादोत्पत्तिरस्य जायते योगिनो हृदि । मृदङ्गनादोत्पत्तिस्तु मणिपूरभिदा भवेत् । अनाहतविभेदेनघण्टाध्वनिरुदेति च । विशुद्धचक्रभेदेन यन्त्रनादः प्रजा-यते । यदा त्वाज्ञाचक्रभेदस्तदोपैति मनोलयम् । सह-स्रदलकमलं वायुना शक्तिराव्रजेत् । यदा तदा मुनि-स्तिष्ठेदाकल्पं सहजेऽव्ययम्” । पवनयोगसंग्रहे “महा-मुद्रां समभ्यस्य महाबन्धमतः परम् । महाबेधञ्च नि-यत प्रकुर्य्याच्छक्तिचालनम् । आसनं सुदृढं बद्ध्वा मूलबन्धं विधाय च । उड्रियानं तथा बन्धं ततो जालन्ध-राभिधम्” । “अभ्यसेदिति सम्बन्धः ।“प्राणे सुषुम्णां सम्प्राप्ते नादोऽन्तः श्रूयतेऽष्टधा । चण्टादुन्दभि शङ्खान्धिवीणावेण्वादितालवत् । तनूनपात्त-डितारातारेशतपनोपनम् । ब्रह्मनाडीं गते प्राणे विम्बरूपं प्रकाशते । तथाच विश्वरूपाचार्य्याः “यदा संक्षीयतेप्राणो मानसं च प्रलीयते । तदा समरसत्वं यत्समाधिःमोऽभिधायते । मनःस्थैर्य्यात् स्थिरो वायुस्ततो विन्दुःस्थिरो भवेत् । विन्दुस्थैर्य्योदयात् सत्यं पिण्डस्थैर्य्यंप्रजायते” । सैषा निष्पत्तिदशा साषकस्य राजयोगा-रम्भ इति तथा च हठप्रदीपिकायाम् । “प्रनष्टोच्छ्वासनिः-स्वासः प्रध्वस्तविषयज्वरः । निश्चिष्टो निर्विकारश्च लयोजयति योगिनः । तथा चोक्तं ग्रन्थान्तरे “शुष्के मलेतु वायोः स्याद्गतिरस्स्वलिता ततः । अधोगतिं वि-हायाशु भवत्यूर्द्धमुखस्ततः । अपानस्त्र्ध्वगो भूत्वा व-ह्निना सह गच्छति । प्राणस्थानं ततो वह्निः प्राणा-पानौ च सत्वरम् । मिलित्वा कुण्डलीं नीत्वा प्रसूतांकुण्डलीं पुनः । प्रसह्य विंशतिस्थानं सुषुम्णा बहुगन्धि-कम् । ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुण समुद्भवम् । सुषु-म्णा वदनस्थासा प्रयात्यूर्द्धञ्च सत्वरम् । विष्णुग्रन्थिं प्रयात्युच्चैः सत्वजं हृदि संस्थितम् । वेगेन महता गच्छेद्वि-ष्णुग्रन्थं विभिद्य सा । ऊर्द्धं गच्छति यत्रास्ते रुद्रग्र-न्थिस्तमोभवः । तत ऊर्द्ध्वं सुषुम्णाया याति शीतांशु-मण्डलम् । आकुलाख्यं तु तच्चक्रं दलैः षोडशभिर्वृ-तम् । तत्र शीतांशुसम्भूतं द्रावं शोषयतेऽनिशम् ।चलिता प्राणवेगेन रक्तपित्तरवेर्गृहम्” हटम० ।“योगिनः कालवञ्चनोपायो यथा “ज्ञात्वा कालं निजंयोगी लयस्थानं समाश्रितः । युञ्जीत योगं कालस्यवञ्चनाय यथाक्रमम् । बद्धसिद्धासने देहं पूरयेत्प्राणवायुना । कृत्वा दण्डस्थिरं बुद्ध्या दश द्वाराणिरोधयेत् । बद्धा च खेचरीं मुद्रां ग्रीवायाञ्च जन-न्धरीम् । अपाने मूलबन्धञ्च उड्डिय नं तथेदरे ।उत्थाप्य भुजगीं शक्तिं मूलाधाराम्बुज स्थिताम् । सु-षुम्णान्तर्गतां पञ्चचक्राणां भेदिभीं शिवाम् । जीवंहृदाश्रयं नीत्वा यान्तीं बुद्धिमनोयुताम् । सहस्र-दलमध्यस्थशिवे लीनां सुधारयेत् । यतः सुधाकरो-द्भूतममृतं तेन मूलतः । सिञ्चन्तीं सकलं देहं प्लाव-यन्तीं विचिन्तयेत् । तया सार्द्धं ततो योगी शिवेनै-कात्मतां ब्रजेत् । परानन्दमयो भूत्वा चिद्बत्तिमपिसंत्यजेत् । ततोऽलक्ष्यमनाभासमहभावविवर्जितम् ।सर्वाङ्गकल्पनाहीनं कथं कालो निहन्ति तम् । स एवकालः सशिवः ससर्वो नास्त्यतःपरः । कः केन हन्यतेतत्र म्रियते नापि कश्चन । ततो व्यतोते समवे कालस्यभ्रान्तिरूपिणि । योगी सुप्तोत्थित इव प्रतिबोधे ब्रबो-धितः । एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः ।कालं कलितसंसारपौरुषेणाद्भूतं हि तम् । ततस्त्रिभुवनेयोगी विचरत्येक एव सः । पश्यन् संसारवैचित्र्यंस्वेच्छया निरहङ्कृतिः” हठस० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
