| YouTube Channel

स्वोपार्ज्जितः (svopArjjitaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्वोपार्ज्जितः, त्रि, (स्वेनोपार्ज्जितः ।) स्वयम-र्ज्जितः स्वयमुपात्तः यथा, पिता चेत् पुत्त्रान्विभजेत् तस्य स्वेच्छा स्वयमुपात्तेऽर्थे पत्तामहेतु पितापुत्त्रयास्तुल्यं स्वामित्वम् इति विष्णु-सूत्रम् अपि मनुविष्णू ।“पतृकन्तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्जितम्
”तत् स्वयमर्जितमिति कृत्वा विभजेदित्यन्वयः ।एतत्तु स्थावरविषयम् मण्यादावनुद्धृतेऽपि पितु-रेव स्वाच्छन्द्यम् ।“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।तसम्भूय सुतान् सर्व्वान् दानं विक्रयः
पितुः प्रसादात् भुज्यन्ते वस्त्राण्याभरणानि ।स्थावरन्तु भुज्येत प्रसादे सति पतृके
”इति मिताक्षराधृतवचनमपि पितामहधनपरम् पित्रा स्वोपार्जितं स्थावरं दत्तंभुज्यत एवेति अन्यथा मूलभूतश्रुत्यन्तर-कल्पनापत्तः इति दायतत्त्वम्
*
स्वापा-र्जितं द्विविधम् पित्रादधनाद्युपधातेन स्वेनो-पार्जितम् तदनुपघातेन उपार्जितञ्च तद्धन-विभागविधिर्यथा व्यासः ।“अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद्धनम् ।दायादभ्यो तद्दद्यात् विद्यालब्धञ्च यद्भवेत्
”कात्यायनः ।“द्व्यंशहरोऽर्द्धहरो वा पुत्त्रवित्तार्जनात् पिता ।”पुत्त्रवित्तार्जनात् कृद्विहितो भावा द्रव्यवत्प्रकाशते इति न्य्ययात् पुत्त्रार्जितावत्तात् पितु-र्द्व्यंशित्वं पितृधनानुपघातविषयं भ्रातृधनोप-घातविंषयञ्च अर्जकस्य तु द्व्यंशित्वम् भ्रातृ-धनोपघाते तु तेषामप्येकांशित्वं वक्ष्यमाणवच-नात् पितुरर्द्वहरत्वन्तु पितृद्रव्योपघाताद्गुण-वत्त्वाद्वा इति दायभागः
अनुपघाते पिताद्व्यंशहरः अर्जकत्वात् स्वयमपि द्व्यंशहरः ।इतरेषामनंशित्वम् भ्रातृद्रव्योपघाते तु तेषा-मप्येकांशः इति द्ब्यंशार्द्धांशयोर्भेदकथनम्
*
साधारणधनार्जितेऽपि विशेषमाह व्यासः ।“साधारणं समाश्रित्य यत्किञ्चित् वहनायुधम् ।शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ।तस्य भागद्वयं देयं शेषास्तु समभागिनः
”अत्र भ्रातर इत्युपलक्षणं पितृव्यादयोऽपिबोद्धव्याः तस्यार्जकस्य साधारणोपघातेयस्य यावतोऽंशस्थाल्पस्य महतो वा उपघात-स्तस्य तदनुसारेण भागकल्पना कार्य्या इतिदायभागः
इति दायतत्त्वम्