| YouTube Channel

स्वैरः (svairaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्वैरः, त्रि, (स्वेन स्वातन्त्र्येण ईर्त्ते इति ईर गतौ+ अच् “स्वादीरेरिणोः ।” ८९ ।इत्यस्य वार्त्तिकोक्त्या वृद्धिः ।) स्वच्छन्दः ।(यथा, रघुः ।“अव्याहतैः स्वैरगतैः तस्याःसम्राट् समाराधनतत्परोऽभूत् ।”)मन्दः इति मेदिनी
(यथा, महाभारते ।४ ६६ ४९ ।“अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा ।आकीर्य्यमाणः संहृष्टो नगरं स्वैरमागमत्
*
वृथालापः यथा, तत्रैव ४२ ।“नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।नाहं मृषा ब्रवीम्येव सैरेष्वपि कुतः शपन्
”)