| YouTube Channel

स्वेदनं (svedanaM)

 
Apte 1890
English
स्वेदनं [स्विद्-णिच्-ल्युट्] 1 Perspiration, sweat.
2 Causing to sweat.
3 A diaphoretic.
शब्दकल्पद्रुमः
Sanskrit
स्वेदनं,
क्ली,
(स्विद् + ल्युट् ।) स्वेदः इतिमेदिनी
स्वेदनयन्त्रं यथा, --“निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणाम्बरे ।रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि
सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् ।अधस्ताज्ज्वालयेद्वह्निं तत्तदुक्तक्रमेण हि ।दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि
”सन्धानं काञ्जिकादि ।“साम्बुस्यालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय ।पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम्
”इति भावप्रकाशः
(स्वेदयतीति स्विद् + णिच् + ल्युः स्वेदके, त्रि यथा, सुश्रुते ।“स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनख-नयनतालुजिह्वोष्ठपाणिपादतल इत्यादि