स्वीया (svIyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishL R Vaidya
EnglishWordnet
Sanskrit स्वकीयः, स्वकीया, स्वकीयम्, आत्मीयः, आत्मीया, आत्मीयम्, स्वीयः, स्वीया, स्वीयम्
आत्मना सम्बद्धः।
"स्वकीयैः किं गोपनीयं भवन्तः तु सर्वमपि जानन्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritस्वीया, (स्वस्येयमिति । स्व + छः । टाप् ।)नायिकाभेदः । तस्या लक्षणम् । स्वामिन्ये-वानुरक्ता पतिव्रता इति यावत् । अस्याश्चेष्टास्वामिशुश्रूषा शीलरक्षा सरलता क्षमा च ।सा च त्रिविधा । मुग्धा मध्या प्रगल्भा च ।एताः सर्व्वा नायिका अवस्थाभेदेन प्रत्येकेनवविधा । प्रोषितभर्त्तृका खण्डिता कलहा-न्तरिता विप्रलब्धा उत्कण्ठिता वासकसज्जास्वाधीनपतिका अभिसारिका प्रवत्स्यत्पतिकाच । एताः प्रत्येके उत्तममध्यमाधमभेदेनअष्टाविंशत्युत्तरशतनायिका भवन्ति । एतासांदिव्यादिव्यगणनाभेदेन चतुरशीत्युत्तरशतत्रय-प्रकारा भवन्ति । तत्र प्रमाणं यथा । नायिकात्रिविधा । स्वीया परकीया सामान्यवनिताचेति । तत्र स्वामिन्येवानुरक्ता स्वीया । न चपरिणीतायां परगामिन्यामतिव्याप्तिस्तत्र पति-व्रताया एव लक्ष्यत्वात् । तस्या परगामितयापरकीयत्वमेव समायाति । अस्याश्चेष्टा । भर्त्तुःशुश्रूषा । शीलसंरक्षणम् । आर्ज्जवम् । क्षमाच । यथा, --“गतागतकुतूहलं नयनयोरपाङ्गावधिस्मितं कुलनतभ्रुवामधर एव विश्राम्यति ।वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमःकदाचिदपि चेत्तदा मनसि केवलं मज्जति ॥
”अपि च ।“सञ्चारो रतिमन्दिरावधि सखीकर्णावधिव्याहृतंचेतः कान्तसमीहितावधि पदन्यासावधिप्रेक्षितम् ।हास्यञ्चाधरपल्लवावधि महामानोऽपि मौना-वधिसर्व्वं स्वावधि नावधिः कुलभुवां प्रेम्णः परंकेवलम् ॥
”अपि च ।“पदन्यासो गेहाद्वहिरांहफणारोहणसमःस्वगेहादन्यत् यद्भवनमपरद्वीपतुलितम् ।वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशःपुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥
”स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्भा च ।तत्राङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवनाअज्ञातयौवना च । सैव क्रमशो लज्जाभयपरा-धीनरतिर्नवोढा । सैव क्रमशो जातप्रश्रयाविश्रब्धनवोढा । अस्याश्चेष्टा । क्रिया मनोहराकोपे मार्द्दवं नवविभूषणे समीहा च ॥
* ॥
मुग्धा यथा, --“आज्ञप्तं किल कामदेवधरणीपालेन कालेशुभेवस्तुं वास्तुविधिं विधास्यति तनौ तारुण्य-मेणीदृशः ।दृष्ट्या खञ्जनचातुरी मुखरुचा सौधाकरीमाधुरीवाचा किञ्च सुधासमुद्रलहरी लावण्यमाम-न्त्यते ॥
”अज्ञातयौवना यथा, --“नीरात्तीरमुपागता श्रवणयोः सीम्रि स्फुर-न्नेत्रयोःश्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करंन्यस्यति ।सैवालाङ्कुरशङ्कया शशिमुखी रोमावलींप्रोञ्छतिश्रान्तास्मीति मुहुः सखीमविदितश्रोणीभरापृच्छति ॥
”ज्ञातयौवना यथा, --“स्वयम्भुः शम्भुरम्भोजलोचने ! तत्पयोधरः ।नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥
” * ॥
नवोढा यथा, --“हस्ते धृतापि शयने विनिवेशितापिक्रोडे कृतापि यतते बहिरेव गन्तुम् ।जानीमहे नवबधूरथ तस्य वश्या ।यः पारदं स्थिरयितुं क्षमते करेण ॥
”यथा च ।“बलान्नीता पार्श्वं सुखमनुमुखं नैव कुरुतेधुनाना मूर्द्धानं क्षिपति वदनं चुम्बनविधौ ।हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमनानवोढा वोढारं रमयति च सन्तापयति च ॥
” *विश्रब्धनवोढा यथा, --“दरमुकुलितनेत्रपाणिनीवी-नियमितबाहुकृतोरुयुग्मबन्धम् ।मरकलितकुचस्थलं नवोढास्वपिति समीपमुपेत्य कस्य यूनः ॥
” * ॥
समानलज्जामदना मध्या । एषव चातिप्रश्रया-दतिविश्रब्धनवोढा । अस्याश्चेष्टा सागसि प्रेयसिधैर्य्ये वक्रोक्तिरधैर्य्ये परुषवाक् । यथा, --“स्वापे प्रियाननविलोकनहानिरेवस्वापच्युतौ प्रियकरग्रहणप्रसङ्गः ।इत्थं सरीरुहमुखी परिचिन्तयन्तीस्वापं विधातुमपि हातुमपि प्रपेदे ॥
” * ॥
पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा ।वेश्यायां कुलटायाञ्च पतिमात्रविषयत्वाभा-वात् न तत्रातिव्याप्तिः । अस्याश्चेष्टा रति-प्रीतिरानन्दादात्मसंमोहः । प्रथमं यथा, --“सस्पृश्य स्तनमाकलय्य वदनं संश्लिष्य कण्ठ-स्थलंनिष्पीयाधरविम्बमम्बरमपाकृष्य व्युदस्याल-काम् ।देवस्याम्बुजिनीपतेः समुदयं जिज्ञासमाने प्रियेवामाक्षी वसनाञ्चलैः श्रवणयोर्नीलोत्पलंनिह्नुते ॥
” * ॥
यथा च ।“नखाङ्कितमुरःस्थलेऽधरतले रदस्य क्षतंच्युता वकुलमालिका विगलिता च मुक्तावली ।रतान्तसमये मया सकलमेतदालोकितंस्मृतिः क्व च पतिः क्व च कृ च तवालि शिक्षा-विधिः ॥
”अपि च ।“कान्ते तल्पमुपागते विगलिता नीवी स्वयंबन्धनात्वासश्च श्लथमेखलागुणधृतं किञ्चित् नितम्बेस्थितम् ।एतावत् सखि वेद्मि केवलमहो तस्याङ्गसङ्गे पुनःकोऽसौ कास्मि रतञ्च कीदृशमिति स्वल्पापि मेन स्मृतिः ॥
” * ॥
मध्याप्रगल्भे मानावस्थायां प्रत्येकं त्रिविधे ।धीरा अधीरा धीराधीरा चेति । व्यङ्ग्यकोप-प्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशा अधीरा ।व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा । इयांस्तुविशेषः । मध्यमायाः धीरायाः कोपव्यञ्जिकागीः । अधीरायाः परुषवाक् । धीराधीरायावचनरुदिते प्रकाशिके । प्रौढाधीरायास्तुरतावौदास्यम् । अधीरायास्तर्ज्जनताडनादिः ।धीराधीराया रतावौदास्यं तर्ञ्जनादि च कोप-प्रकाशकम् । यत्तु धीरादिभेदः स्वीयाया एवन परकीयाया इति प्राचीनलिखनं तदाज्ञामात्रं धीरात्वमधीरात्वं तदुभयञ्च माननियत-मेव परकीयाया मानश्च नेति वक्तुमशक्यत्वात्परकीयाया मानश्चेत्तेषामप्यावश्यकत्वादितिभावः ॥
* ॥
मध्या धीरा यथा, --“लोलालिपुञ्जे व्रजतो निकुञ्जेस्फारा बभूवुः श्रमवारिधाराः ।देहे समीहे भवतो विधातुंधीरं समीरं नलिनीदलेन ॥
” * ॥
मध्या अधीरा यथा, --“जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजेशोणिमानिष्पीतं भवता मधु प्रविततं व्याघूर्णितं मेमनः ।भ्राम्यद्भृङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलंपञ्चेषुः पुनरेष मां बहुतरैः क्रूरैः शरैःकृन्तति ॥
” * ॥
मध्या धीराधीरा यथा, --“कान्तानुरागचतुरोऽसि मनोहरोऽसिनाथोऽसि किञ्च नवयौवनभूषितोऽसि ।इत्थं निगद्य सुदृशा वदने प्रियस्यनिश्वस्य वास्पलुलिता निहिता दृगन्ताः ॥
” * ॥
प्रौढा धीरा यथा, --“नो तल्पं भजसे न जल्पसि सुधाधारानुकारागिरोदृक्पातं कुरुषे न वा परिजने कोपप्रकाश-च्छलात् ।इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनंकिं स्यादेव न चेत् पुनः सहचरो कुर्व्वीतसाचि स्मितम् ॥
” * ॥
प्रगल्भा अधीरा यथा, --“प्रतिफलमवलोक्य स्वीयमिदोः कलायांहरशिरसि परस्यावासमाशङ्कमाना ।गिरिशमचलकन्या तर्ज्जयामास कम्प-प्रचलवलयवेल्लत्कान्तिभाजा करेण ॥
” * ॥
प्रगल्भा धीराधीरा यथा, --“तल्पोपान्तमुप्रेयुषि प्रियतमे साचीकृतग्रीवयाकाकुव्याकुलवाचि साचिहसितस्फूर्ज्जत्कपोल-श्रिया ।हस्तन्यस्तकरे पुनर्म्मृगदृशा लाक्षारसाक्षलित-प्रौष्ठीपृष्ठमयूखमांसलरुचो विस्फारितादृष्टयः ॥
” * ॥
एते धीरादिषड्भेदा द्विविधा । धीरा ज्येष्ठाकनिष्ठा च । अधौरा ज्येष्ठा कनिष्ठा चधीराधीरा ज्येष्ठा कनिष्ठा च इत्यपि क्वचित्पाठः एते धीरादित्रयो मेदात् द्विविधाभवन्ति । ज्येष्ठा कनिष्ठा च । परिणीतत्वेसति भर्त्तरधिकस्नेहा ज्येष्ठा । परिणीतत्वेसति भर्त्तुर्न्यूनस्नेहा कनिष्ठा । अधिकस्नेहासुन्यूनस्नेहासु मामान्यवनितादिषु नातिव्याप्तिः ।परिणीतत्वपदेन व्यावर्त्तनात् । नापि परकौ-यायामतिव्याप्तिः । भर्त्तृपदेन तद्व्यावृत्तेः । धीराज्येष्ठा कनिष्ठा च यथा, --“एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय निद्रांतयो-रेकां पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान्अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता-ङ्गुलि-व्यापारैर्वसनाञ्चलञ्चपलयन् स्वापच्युतिं क्तृप्तवान् ॥
” ॥
* ॥
अधीरा ज्येष्ठा कनिष्ठा यथा, --“अन्तःकोपकषायिते प्रियतमे पश्यन् घनेकाननेपुष्पस्यावचयाय नम्रवदनामेकां समायोजयन् ।अर्द्धोन्मीलितलोचनाञ्चलचमत्काराभिरामा-ननांस्मेरार्द्राधरपल्लवां नवबधृमन्यां समालिङ्गति ॥
”धीराधीरा ज्येष्ठा कनिष्ठा च यथा, --“धैर्य्याधैर्य्यपरिग्रहग्रहिलयोरेणीदृशोः प्रीतयेरत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान् ।एकस्याः कलयन् करे प्रथमतो रत्नं परस्याःप्रियोहस्ताहस्तिमियात् स्पृशन् कुचतटीमानन्दमा-विन्दति ॥
”इति रसमञ्जरी ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
