| YouTube Channel

स्वारकः-रिका (svArakaH-rikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्वृ शब्दोपतापयोः”@} 2 स्वारकः-रिका, स्वारकः-रिका, सिस्वारिषकः-सुस्वूर्षकः-र्षिका, सेस्व्रीयकः-यिका
3 स्वरिता-स्वर्ता-त्री, स्वारयिता-त्री
सिस्वरिषिता-त्री, सुस्वूर्षिता-त्री, सेस्व्रीयिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकपिपर्त्तिवत् 4 ज्ञेयानि।
5 स्वृतः-स्वृतम्, निस्वृत्, स्वरितव्यम्-स्वर्तव्यम्, निस्वारी, 6 स्वरः, 7 अनुस्वारः, स्वरितुम्-स्वर्तुम्, 8 स्वरणः, 9 स्वरमाणः, 10 सिस्वरिषुः-सुस्वूर्षुः, 11 स्वरिष्यन्, 12 संस्वरमाणः, 13 स्वरुः इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।
14
प्रासङ्गिक्यः
01
=>
(१९८८)
02
=>
(१-भ्वादिः-९३२। अक। वेट्। पर।)
03
=>
[[१। ‘स्वरतिसूतिसूयति--’ (७-२-४४) इतीड्विकल्पे रूपद्वयम्।]]
04
=>
(१०४४)
05
=>
[[२। निष्ठायाम्, ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधः।]]
06
=>
[[३। ‘क्षुब्धस्वान्त--’ (७-२-१८) इति सूत्रे ‘स्वर’ इति निर्देशात् अचि रूपमेवम्। इति धा। का। व्याख्या (२-२३)।]]
07
=>
[[४। अनुपूर्वकात् अस्मात् घञ्प्रत्यये रूपमेवम्।]]
08
=>
[[५। ‘चलनशब्दार्थात्--’ (३-२-१४८) इति युचि रूपमेवम्।]]
09
=>
[[६। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१७८) इति यथासम्भवं चानश्प्रत्ययः।]]
10
=>
[[७। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृ--’ (७-२-४९) इतीड्विकल्पे रूपमेवम्।]]
11
=>
[[८। ‘स्वरतिसूति--’ (७-२-४४) इति वैकल्पिकमिटं बाधित्वा, ‘ऋद्धनोः स्ये’ (७-२-७०) इति नित्यमिडागमोऽत्र। एवं संपूर्वकादात्मनेपदेऽपि संस्वरिष्यमाणः इति नित्यमिडागमो बोध्यः।]]
12
=>
[[९। ‘विदिप्रच्छिस्वरतीनामुपसंख्यानम्’ (वा। १-३-२९) इति सम्पूर्वकादस्मात् आत्मनेपदम्।]]
13
=>
[[१०। औणादिके (द। उ। १-९५) उप्रत्यये रूपमेवम्। स्वरुः = यूपे छिद्यमाने प्रथमं पतितः शकलः।]]
14
=>
[पृष्ठम्१४०५+ २७]