| YouTube Channel

स्वायम्भुवः (svAyambhuvaH)

 
Apte Hindi
Hindi
स्वायम्भुवः
पुं*
- स्वयंभू + अण्
प्रथम मनु का विशेषण
Wordnet
Sanskrit
Synonyms:
स्वायम्भुवः
noun
आदिमः मनुः यस्य निर्मितिः ब्रह्मणा कृता।
"देवहुतिः स्वायम्भुवस्य कन्या आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
स्वायम्भुवः,
पुं,
(स्वयम्भुवोऽपत्यमिति स्वयम्भू +अण् संज्ञापूर्व्वकस्य विधेरनित्यत्वात् गुणः ।)प्रथममनुः सृष्टिवृद्धये ब्रह्मणो दक्षि-णाङ्गाज्जातः वामाङ्गात् शतरूपा स्त्री तस्यमहिषी आसीत् अस्मिन्मन्वन्तरे यज्ञोऽवतारःस एव इन्द्रः यमादयो देवाः मरीच्यादिसप्त-र्षयः स्वायम्भुवो मनुः प्रियव्रतोत्तानपादौमनुपुत्त्रौ आकूतिः देवहूतिः प्रसूतिः कन्याः ।इति श्रीभागवतमतम्
*
अपि ।“यामा नाम पुरा देवाः आसन् स्वायम्भुवे-ऽन्तरे ।सप्तैव ऋषयः पूर्व्वं ये मरीच्यादयः स्मृताः
अग्निध्रश्चाग्निबाहुश्च रिभः सवन एव ।ज्योतीष्मान् द्युतिमान् हव्यो मेधा मेधातिषि-र्व्वसुः
स्वायम्भुवस्यास्य मनोर्द्दशैते वंशवर्द्धनाः ।प्रतिस्वर्मममी कृत्वा जम्मुस्ते परमं पदम्
एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम्
”इति मात्स्वे --
*
अपरञ्च ।“ततो ब्रह्मात्मसंभूतं पूर्व्वं स्वायम्भुवं प्रभुः ।आत्मनः सदृशं चक्रे प्रजापाल्ये मनुं तदा
शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् ।स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः
तस्माच्च पुरुषात् पुत्त्रौ शतरूपा व्यजायत ।प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्म्मभिः
कन्ये द्वे तथाकूतिः प्रसूतिश्च ततः पिता ।ददौ प्रसूतिं दक्षाय तथाकूतिं रुचेः पुरा
प्रजापतिः जगृहे तयोर्यज्ञः सदक्षिणः ।पुत्त्रो जज्ञे महाभानः दम्पत्योर्मिथुनं ततः
यज्ञस्य दक्षिणायास्तु पुत्त्रो द्वादश जज्ञिरे
यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरेतस्य पुत्त्रास्तु यज्ञस्य दक्षिणायां सुभास्वराः
प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा ।ससर्ज कन्यास्तासान्तु सम्यक् नामानि मेशृणु
”इति मार्कण्डेयपुराणे दुःसहशासननामाध्यायः(तत्सम्बन्धिनि, त्रि यथा, हरिवंशे ।“यामा नाम तथा देवा आसन् सायम्भुवे-ऽन्तरे
ब्रह्मसम्बन्धिनि त्रि यथा, कुमारे ।“तस्मिन् विप्रकृताः काले तारकेण दिवौकसः ।तुरासाह पुरोधाय धाम स्वायम्भुवं ययुः
”)