| YouTube Channel

स्वामिपालविवाद (svAmipAlavivAda)

 
Monier Williams Cologne
English
स्वामि—पाल—विवाद
m.
a dispute between the owner and tender (of c°)
वाचस्पत्यम्
Sanskrit
स्वामिपालविवाद
पु०
स्वामी पालौ तयार्विवादःविवादभेदे तत्स्वरूपादिकं वीरमि० उक्तं यथा“अथ स्वामिपालविवादाख्यव्यवहारपदम् तत्र मनुस्तदभिधानप्रतिज्ञां करोति “पशुषु स्वामिनां चैवपालानाञ्च व्यतिक्रमे विवादं संपवक्ष्यामि यथावद्धर्मतत्त्वतः” इति स्यामिपालयोः प्रतिदिनकृत्यमाह ना-रदः “उपानयेद्गा गोपाय प्रत्यहं रजनीक्षये चीर्णाःपीताश्च ता गोपः सायाह्ने प्रत्युपानयेद्” इति चीर्णास्तृणादिकं भक्षितवतीः पीताः पीतवतीः स्वा-मिना प्रातर्यावत्यः समर्पितास्तावत्यो गोपालेन सायंप्रत्यर्पणीया इत्यर्थः गोग्रहणं पशुमात्रोपलक्षणा-र्थम् तथा याज्ञवल्क्यः “यथार्पितान् वशून् योपःसायं प्रत्यर्पयेत् तथा” इति गवादिपरिपालकस्य भृतिपरिमाणमाह नारदः “गवां शताद्वत्सतरी धेनुः स्याद् द्वि-शताद् मृतिः प्रतिसंवत्सरं गोपे सन्दोहश्चाष्टमेऽहनि”इति प्रतिसंवत्सरं संवत्सरे संवत्सरे गोशतपरि-पालने वत्सतरी द्विहायनी गौर्भृतिः द्विशतपरिपालनेसेनुर्दोगुध्री सवत्सेति यावत् अष्टमे दिवसे सन्दोहःसर्वासां गवान्दोहश्च भृतित्वेन कल्पनीय इत्यर्थः वृह-स्पतिरपि “तथा धेनुभृतः क्षीरं लभेताप्यष्टमेऽहनि”इति धेनुभृतः धेन्वाभृतः द्विशतपालक इत्यर्थः तथाच सन्दोहो धेन्वा समुच्चीयते वत्सतर्य्येति मदनरत्ने ।कल्पतरौ तु धेनुभृतो गोपाल इति व्याख्यातन्तेन वत्स-तर्यापि समुच्चीयत इति गम्यते गोग्रहणं महिष्या-दीनामुपलक्षणम् न्यूनाधिकपरिपालने तु तदमुसा-रेण भृतिकल्पना द्रव्यव्या इयञ्च वत्सतर्यादिभृति-कल्पनापरिभाषितभृत्यभावविषया परिभापिते तु परि-भाषानतिक्रमेणैव देया मनुस्तु प्रकारान्तरेण भृति-परिमाणमाह “गोपः क्षीरभृतो यस्तु दुह्याद्दशतोवराम् गास्वाम्यनुमतो भृत्यः सा स्यात् पालेऽभृतेभृतिः” इति दशानान्दोग्ध्रीणां मध्ये वरासुत्कृष्टांस्वीकृत्य तत्क्षीरभृतो भृत्यो गोपः दशदोग्ध्रीपालनकृद्गृह्णीयाद् भृत्यर्थम् सैषा भृतिः पूर्वं द्रव्यान्तरेणाभृतेज्ञेया यस्तु द्रव्यान्तरेण भृतः तत्र तदेव भृतिरित्यर्थः ।यस्तु भृतिं गृहीत्वा पशून्मारयेत् विनाशयति वा तंप्रत्याह याज्ञवल्क्यः “प्रमादमृतनष्टांश्च प्रदाप्यः कृत-वेतनः” इति प्रमादग्रहणं प्रशुपालकदोषोपलक्षणा-र्थम् मनुना प्रमादनाशः स्पष्टोकृतः “नष्टं विनष्टंकृमिभिः श्वहतं विषगे सृतम् हीनं पुरुषकारेण प्रद०द्यात् पाल एव तु” इति श्वहतम् शुना हतम् ।विषमे दुर्गमप्रदेशे पुरुषकारः पुरुषप्रयत्नः यत् पुरुष-प्रयत्नेन हीनं सन्नाशादिकं प्राप्तं तद्दातव्यमित्यर्थः ।पुरुषकारश्च वृहस्पतिना दर्शितः “कृमिचोरव्याघ्रभया-द्दरीश्वभ्राच्च पालयेत् व्यायच्छेच्छक्तितः क्रोशे स्वामिनेवा निवेदयेत्” इति व्यायच्छेत् व्यसनामावाय यतेते-त्यर्थः चौरैर्बलात्कारेणापहृते दाप्यं इत्याह मनुः“विघुव्य तु हृतञ्चौरैर्न पालोदातुमर्हति यदिदेशे काले स्वामिनः स्वस्य शंसति” इति विघुष्यशृङ्गकादिभिर्थोषं कृत्वा देशे स्वाम्यवस्थानदेशे कालेअपहरणकालाव्यवहितकाले विषयविशेषे पशुपालस्यदण्डमाह व्यासः “गृहीतमूल्यो गोपालस्तांस्त्यक्त्रा नि०र्जने वने ग्रामचारी नृपैर्वाध्यः शलाकी वनेचरः”इति शलाकी नापित इति कल्प्तरौ पुरुषेणप्रयत्नाकरणे दण्डमाह नारदः “स्याच्चेद्गोव्यसनं गोपो-व्यायच्छेत् तत्र शक्तितः अशक्तस्तूर्णमागम्य स्वामिनेच निवेदयेत्” अव्यायच्छन्नविक्रोशन् स्वामिने चा-निनेदयन् वोढुमर्हति गोपस्तं विनयञ्चैव राजनि”इति तङ्गवादिकम् पशूनां दैवान् मरणे पालकस्यदोषाभावज्ञानोपाथमाह व्यासः “मृतेषु विशुद्धःस्याद् बालशृङ्गादिदर्शनात्” आदिशब्देन कर्णा-दीनां ग्रहणम् तथा मनुः “कर्णौ चर्म बालांश्चवस्तिं स्रायुञ्च रोचनाम् पशुषु स्वामिनां दद्यान्मृते-ष्वङ्गानि दर्शयेत्” इति अङ्कादि दर्शयेदिति क्वचित्पाठः अङ्कः शृङ्गकर्णादिरूपञ्चिह्नम् आदिशब्दः सा-क्षिसंग्रहार्थः पशुषु मृतेष्वङ्कादिकं स्वामिने दर्शयेत् ।रोचनादिकं यत्प्रयोजनं तत् तस्मै दद्याच्चेत्यर्थः नष्ट-गवादिदानञ्च तत्स्वामिने मूल्यद्वारेण ज्ञातव्यम् अत-एव विष्णुः “दिवा पशूनां वृकाद्युपघाते पालेऽत्व-नायति पालकदोषो विनष्टपशूनां मूल्यं स्वामिने द-द्यादिति” अनायति अनागच्छति विनयद्रव्यप्र-म णमाह याज्ञवल्क्यः “पालदोषविनाशे तु पालेदण्डो विधीयते अर्द्ध्वत्रयोदपणः स्वामिनो द्रव्यमेव च”इति अर्द्धत्रयोदशपणः अर्द्धरहितत्रयोदशपणः ।सार्द्धद्वादशपण इति यावत् उत्तरपदलोपी कर्मधारयः ।यत् तु केनचिदर्द्धाधिकत्रयोदशपणो दण्ड इति व्या-ख्यातं तत् सार्द्धद्विमात्रादिषु अर्द्धत्रिमात्रादि महाभाष्यकारशब्दप्रयोगदर्शनादुपेक्ष्यम् पालदोषमाह मनुः“अजाविके तु संरुद्धे वृकैः पाले त्वनायति यांप्रसह्य वृको हन्यात् पाले तत् किल्विषं भवेत्”इति अनौयति उपद्रवनिवारणाय अनागच्छ-तीत्यर्थः याम् अजाविकजातीयाम् सुगमस्थलस्थविषयमेतत् दुर्गमस्थलस्थविषये त्वाह एव “तासाञ्चेदवरुद्धानां चरन्तीनां मिथोवने यामुत्प्लुव्य वृकोहन्यान्न पालस्तत्र किल्विषी” इति अवरुद्धानां पाल-केन स्थापितानामित्यर्थः गवादिप्रचारणार्थं भूमिमाहयाज्ञवल्क्यः “ग्राम्येच्छया गोप्रचारो भूमीराजवशेन वा” ।ग्राम्येच्छया ग्रामीणजनवशेन राजेच्छया वा गोप्र-चारो गवां तृणादिभक्षणार्थं कियानपि भूभागोऽकृष्टःपरिकल्पनीय इत्यर्थः गवां स्थानासनसौकर्य्याय ग्रामक्षेत्रयोरन्तरमाह एव “धनुः शतपरीणाहो ग्राम-णेत्रान्तरं भवेत् द्विशते खर्वटस्य स्यान्नगरस्य चतुःशतम्” इति परीणाहशब्देनात्र सर्वासु दिक्षु अनुप्त-शस्यस्थलं गृह्यते एतादृशं धनुः शतं परिमितं ग्राम-क्षेत्रयोरन्तरं काय्यैम् खर्वटस्य शतद्वयपरिमितमि-त्यर्थः खर्वटः अनेककारुकृषीवलयुक्तो ग्राम इतिमदनरत्ने माधवाचार्य्यैस्तु प्रचुरकण्डकसन्तानो ग्रामइति व्याख्यातम् तत्र शस्योत्पत्तेः प्रागेवावरणं कार्य्य-मित्याह कात्यायनः “अजातेष्वेव शस्येषु कुर्य्यादावरणंमहत् दुःखेन विनिवार्य्यन्ते लब्धस्वादरसा मृगाः” इति ।एवं पशुनिवारणार्थं कृतेऽप्यावरणे तमतिक्रम्य पशुभिःशस्यादिविनाशे कृते कर्त्तव्यमाह मनुः “पथिक्षवे परि-वृते ग्रामान्तीयेऽथ वा पुनः पालः शतदण्डार्होविपालं वारयेत् पशुम्” इति पथिक्षेत्रे मार्गसमीपेक्षेत्रे ग्रामान्तीये ग्रामसमीपवर्त्तिनि सपालः पशुःपणशतदण्डार्हः तत्पशुपालः पणशतं दण्डनीय इ-त्यर्थः अयञ्च दण्डः पशुपालने समर्थेन सता पशाव-निवार्य्यमाणे वेदितव्यः अतएव नारदः “उत्क्रम्य तुवृतिं यः स्याच्छस्यघातो गवादिभिः पालः शास्योभवेत् तत्र चेच्छक्तो निवारयेत्” इति आवरणा-भायेनापरिहार्य्ये शस्योपघातेऽपि पालस्य दण्डः ।तथा मनुः “तत्रापरिवृतं धान्यं विहिंस्युः पशवोयदि तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणास” इति ।अनेनावृतक्षेत्रशस्योपघ ते पशुरक्षिणां दण्ड इत्यर्था-दुक्तं भवति अदीर्घकालप्रचारविषयमेतत् दीर्घ-कालप्रचारे तु अपरिवृतेऽपि पशुपालो दण्डार्होभवति ।अतएवाल्पकालप्रचारे दोषाभावं दर्शयति विष्णुः “पथिग्रामविवीतान्ते दोषोऽल्पकालमिति” पशुविशेषे दण्ड-परिमाणमाह याज्ञवल्क्यः “माषानष्टौ तु महिषीशस्यघातस्य कारिणी दण्डनीया तदर्द्धं तु गौस्त-दर्द्धमजाविकम् भक्षयित्वोपविष्टानां यथोक्ताद् द्वि-गुणो दमः सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम्”इति परशस्यर्घातकारिण्या महिष्याः स्वामी अष्टौमाषान् दण्ड्य गोः स्वामी चतुरः छागस्वामी मेष-स्वामी द्वौ एतेषां पशूनां शस्यभक्षणादारभ्य तत्रैवउपविष्टानां स्वामी यथोक्तदण्डाद् द्विगुणं ग्राह्यः विवी-तस्थतृणाद्युपघातेऽपि शस्योपघातवद्दण्डनीयः स्वर-स्वाम्युष्ट्रस्वामी महिषीस्वामिवद्दण्डनीयः अत्र वशु-स्वामिनो दण्ड इत्यभिधातव्ये महिष्यादिग्रहणं प्रति-पशुदण्डप्राप्त्यर्थम् भक्षयित्वोपविष्टवत्साविषये ययो-क्ताच्चतुर्गुणो दण्डः तथा स्मृत्यन्तरम् “वसतांद्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः” इति अत्रापरा-धानुसारेण दण्डनार्थं ताम्रिकमाषो ग्राह्यः पुनःसौवर्णो राजतो वेति स्मृतिचन्द्रिकायाम् ताम्रिक-माषर्श्चकर्षपरिभाषितस्य षोडशो भागो भवति अयमेव“पणस्यैपञ्च वापि प्रकीर्त्तिताः इति याज्ञवल्क्योक्तपञ्चसुव-र्णपरिमितत्वपक्षे पणचतुर्थाऽंशस्य विंशतिमाषात्मककार्षा-पणस्य “माषो विंशतिमोभागः पणस्य परिकीर्त्तितः” इतिनारदोक्तो विंशो भागोऽपि भवति एतेन स्मृतिचन्द्रि-कायाम् अपराधानुसारेण दण्डनार्थं माषो “विंशतिमोभागः पणस्य परिकीर्त्तित” इति नारदोक्तो माषः कैश्चित्स्वीकृत इत्येकीयमतत्वेनोपन्यस्य “सङ्ख्या रश्मिरजोमूलामनुनासमुदाहृता कार्षापणान्ता सा दिव्ये नियोज्याविनये तथा” इति वृहस्पतिवचनविरोधेन दूषितं तदुभयथा-प्यर्थभेदाभावेन विरोधाभावान्निरस्तं मन्तव्यम् यत् तु, मनुनोक्तम् “सपादं पणमर्हतीति” तत् स्वामिनो मतिपूर्वंपशुव्यतिक्रमविषयम् याज्ञवल्क्यवचनन्त्ववुद्धिपूर्वविष-यमिति तयोर्विरोधः यत् तुं “पणस्य पादौ द्वौगान्तु द्विगुणं महिषीं तथा तथाजाविकवत्सानांपादो दण्डः प्रकीर्त्तित” इति स्मृत्यन्तरं तद्भक्षयित्वो-पविष्टगवादिविषयम् यत् पुनर्नारदेनाभिहितम् “मा-भङ्गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा तथाजाविकवत्सानां दण्डः स्यादर्द्धमाषिकः” इति तन्मु-हूर्त्तमात्रभक्षणविषयम् अत एवाहतुः शङ्खलिखितौ ।“रात्रौ चरन्ती गौः पञ्चमाषां दिवा त्रोन्मुहूर्त्तो माषंग्रामे त्वदण्डमिति” ग्रासे त्वदण्ड इत्यस्यायमर्थः ।महिष्यादिभिः परशस्येषु कबलमात्रभक्षणे कथञ्चित् कृतेपालकस्य स्वामिनो वा स्वल्पोऽपि दण्डी नास्तीति आतु-रपशुविषये बहुशम्यनाशेऽप्येवमेव दण्डाभावप्रतिपादन-मुखेनाह नारदः “राजग्रहगृहीतो वा वज्राशनिहतो-ऽपि वा अथ सर्पेण दष्टो वा वृक्षाद् वा पतितोभवेत् व्याघ्रादिभिर्हतो वापि व्याधिभिर्वाप्युपद्रुतः ।न तत्र दोषः पालस्य दोषोऽस्ति गोमिनाम्” इति ।गोमिनां गोस्वामिनाम् आतुराणामनिवार्यत्वादित्य-भिप्रायः अनातुराणामपि केषाञ्चित् पशूनां दण्डा-भावमाह एव “गौः प्रसूता दशहात् तु महोक्षावाजिकुञ्जराः निवार्याः प्रयत्नेन तेषां स्वामी नदण्डभाग्” इति दशदिनपर्य्यन्तं प्रसूताया निरोद्धु-मशक्यत्वान्न स्वामी दण्ड्यभाक् सहोक्षस्य सर्वासाङ्गर्भाधानार्थं सर्वदा बन्धनायोगात् तत्स्वामी दण्डभाक् ।वाजिकुञ्जराणां स्वामिनोऽदण्डभागित्वे हेतुमाहोशनाः“अदण्ड्या हस्तिनो ह्यश्वा प्रजापालाहि ते स्मृताः”स्वामिग्रहणं पालकस्याप्युपलक्षणार्थम् यदाह मनुः“अनिर्दशाहां गा सृतां वृषान् देवपशूंस्तथा सपालान्वा विपालान् वा अदण्ड्यान्मनुरव्रवीत्” इति वृषाःमहोक्षाः यद् वा वृषोत्सर्गविधानेनोत्सृष्टाः देवपशवः देवालयेषु देवोपभोगार्थं स्थापिताः पशवः याज्ञ-वल्क्योऽपि “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।पालोयेषान्न ते मोच्या दैवराजपरिप्लुताः” अनिर्दशाहाआगन्तुकः यूथात्परि भ्रष्टः सन् देशान्तरात् समा-गतः येषां पालो नास्ति तेऽपि दैवराजोपहताःशस्यादिनाशकारिणो दण्ड्या इत्यर्थः आदिशब्देनमृतवत्सादीनां ग्रहणम् अतएवोशनाः “अदण्ड्यामृतवत्सा संज्ञा रोगवती कृशा अदण्ड्याः काण-कूटाश्च वृषाश्च कृतलक्षणाः अदण्ड्यागन्तुका गौश्चसूतिका चाभिसारिणी” इति कूटः एकशृङ्गः ।कृतलक्षणः प्रतप्तायसेन कृतलाश्छनः अभिसारिणींस्वयूथात् प्रच्युता पुनः स्वयूथगामिनी परशस्यर्विनाशे नकेवलं पशुस्वामी दण्डनीयः सदमपि दापनीय इत्याहवृहस्पतिः “शस्यान्निवारयेद्गास्तु चीर्णे दोषो द्वयोर्भवेत् ।स्वामी सददमं दाप्यः पालस्ताडनमर्हति” इति सदश्चदमश्च सददमम् समूलशस्यनाशविषयमेतत् अतएवनारदः “समूलशस्यनाशे तु तत्स्वामी प्राप्नुयात् सदम् ।वधेन गौ र्योमुच्येत दण्डं स्वामिनि पातयेत्” इति ।तत्स्वामी शस्यस्वामी सदं प्राप्नुयात् पशुस्वामिनःसकाशादिति शेषः बधोऽत्र कशादिना ताडनम् ।न प्राणच्छेदः पालस्तडनमर्हतीति वचनात् सदश्चसःमन्तादिभिः परिकल्पितो देयः अतएव एवाह“गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते सामन्ता-नुमतं देयं धान्यं यत् तत्र वापितम्” इति यत् तुसदयाचननिषेधनम् “गोभिर्विनाशितं धान्यं यो नरःप्रतियाचते पितरस्तस्य नाश्नन्ति वापि त्रिदिवौकसः” ।इत्युशनोवचनन्तद् ग्रामादिसमीपस्थ नावृतक्षेत्रविषय-मिति माधवाचार्य्याः श्राद्धकालादौ गोभक्षितविषय-मिति मदनरत्नकृतः सर्वासाङ्गवामुत्सने श्राद्धदिवसेचादण्ड्यत्वमाह एव “अदण्ड्याश्चोत्सवे गावः श्राद्ध-काले तथैव च” इति गोभिः श्राद्धकालादौ भुक्तमति-श्रेयस्करमित्याशयेनाह व्यासः “आक्रम्य द्विजै-र्भुक्तं परिक्षीणञ्च बान्धवैः गाभिश्च नरशार्दूल!वाजपेयाद्विशिष्यते” इति एतत्पदमुपसंहरति मनुः“एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः स्वामिनाञ्चपशूनाञ्च पालानाञ्च व्यतिक्रमे”