| YouTube Channel

स्वाधिष्ठान (svAdhiSThAna)

 
शब्दसागरः
English
स्वाधिष्ठान
n.
(-नं) One of the six CHAKRAS or mystical circles of the body.
Monier Williams Cologne
English
स्वाधिष्ठान
n.
o°'s own place,
VP.
, Sch.
one of the 6 mystical circles of the body (See चक्र),
Pañcar.
Ānand.
Apte Hindi
Hindi
स्वाधिष्ठानम्
नपुं*
स्व-अधिष्ठानम् -
हठयोग में माने हुए चक्रों में से एक
L R Vaidya
English
sva-aDizWAna {% n. %} one of the six chakras or mystical circles of the body.
शब्दकल्पद्रुमः
Sanskrit
स्वाधिष्ठानं,
क्ली,
(स्वं लिङ्गं तत्र अधिष्ठानं यस्य ।स्वस्य लिङ्गस्य अधिष्ठानं यस्मात् इति वा ।स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदु-रित्युक्तेस्तथात्वम् ।) षट्चक्रान्तर्गतद्वितीय-चक्रम् तत्तु लिङ्गमूलस्ववादिलान्तवर्णयुक्त-होरकसमप्रभषड्दलपद्मम् अत्र शिवाग्नीवर्त्तेते यथा, --“षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।व-भ-मैर्य-र-लैर्युक्ते वर्णैः षड्भिश्च सुव्रत
”अपि ।“स्वाधिष्ठानाख्यचक्रे तु सबिन्दुं राकिणीं तथा ।वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके
”इति तन्त्रसारः
अन्यच्च ।“सिन्दूरपूररुचिरारुणपद्ममन्यत्सौषुम्रमध्यघटितं ध्वजमूलदेशे ।अङ्गच्छदैः परिवृतं तडिताभवर्णै-र्व्वाद्यैः सबिन्दुलसितैश्च पुरन्दरार्णैः
तस्यान्तरे प्रविलसद्विषदप्रकाश-मम्भोजमण्डलमथो वरुणस्य तस्य ।अर्द्धेन्दुरूपलसितं शरदिन्दुशुभ्रंवङ्कारबीजममलं मकराधिरूढम्
तस्याङ्कदेशलसितो हरिरेव पाया-न्नीलप्रकाशरुचिरश्रियमादधानः ।पीताम्बरः प्रथमयौवनगर्व्वधारीश्रीवत्सकौस्तुभधरो धृतवेदबाहुः
तत्रैव भाति सततं खलु राकिणी सानीलाम्बजारुचिमहोदरकान्तिशोभा ।नानायुधोद्यतकरैर्ललिताङ्गलक्ष्मी-र्दिव्याम्बराभरणभूषितमत्तचित्ता
स्वाधिष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्योमुनीन्द्र-स्तस्याहङ्कारदोषादिकसकलरिपुः क्षीयतेतत्क्षणेन ।योगीशः सोऽपि मोहाद्भुततिमिरचये भानु-तुल्यप्रकाशोगद्यैः पद्यैः प्रबन्धैर्विरचयति सुधाकाव्यसन्दोह-लक्ष्मीम्
”इति पूर्णानन्दगिरिकृतषट्चक्रक्रमः
वाचस्पत्यम्
Sanskrit
स्वाधिष्ठान
न०
लिङ्गमूलस्थे सुषुम्णान्तर्गते षड्दलपद्मभेदे ।“षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनचन्धिषि बभमैर्यरलै-र्युक्ते वर्णैः षङ्मिश्च सुव्रत!” तन्त्रसा० “सिन्दूरपूर-रुचिरारुणपद्ममन्यत्सौषुम्णमध्यघटितं ध्वजमूलदेशे ।अङ्गच्छदैः परिवृतं तडिताभवर्णैर्बाद्यैः सविन्दुलसितैश्चपुरन्दरान्तैः (लान्तैः) तस्यान्तरे प्रविलसद्विशदप्रकाशम-म्भोजमण्डलमथो वरुणस्य तस्य अर्द्धेन्दुरूपलसितं शर-दिन्दुशुभ्रं वङ्कारवीजमलं मकराधिरूढम् तस्याङ्कदेशेलसितो हरिरेव पायान्नीलप्रकाशरुचिरश्रियमादधानः ।पीताम्बरः प्रथमयौवनगर्भधारी श्रीवत्सकौस्तुभधरोधृतवेदवाहुः तत्रैव भाति सततं खलु राकिणी सानीलाम्बुजद्युतिसहोदरकान्तिशोभा नानायुधोद्यतकरै-र्ललिताङ्गलक्ष्मीर्दिव्याम्बराभरणभूषितमत्तचित्ता स्वाषि-ष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्यो मुनोन्द्रस्तम्या-हङ्कारदोषादिकसकलरिपुः क्षीयते तत्क्षणेन” पूर्णानन्द-षट्चक्रम्