| YouTube Channel

स्वादुकण्टकः (svAdukaNTakaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्वादुकण्टकः,
पुं,
(स्वादूनि कण्टकानि यस्य ।)विकङ्कतवृक्षः गोक्षुरकः इत्यमरः ।४ ३७ ९९
विकण्टकवृक्षः इतिराजनिर्घण्टः
(विकङ्कतार्थे पर्व्यायो यथा, “विकङ्कतो स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः ।स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि
”गोक्षुरकार्थे पर्य्यायो यथा, --“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु-कण्टकः ।गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि
पलङ्कषा श्वदंष्ट्रा तथा स्यादिक्षुगन्धिका
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)