| YouTube Channel

स्वस्थः (svasthaH)

 
Hindi
Hindi
खुद में स्थित किया जा रहा है
शब्दकल्पद्रुमः
Sanskrit
स्वस्थः, त्रि, (स्वस्मिन् तिष्ठतीति स्व + स्था + कः ।सुस्थः यथा, --“दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि ।”इति देवीमाहात्म्यम्
(“स्वस्थस्यापि समधातूनां साम्यानुग्रहार्थमेवकुशला रसगुणानाहारविकारांश्च पर्य्यायेले-च्छन्त्युपयोक्तुम् सात्मासमाख्यातानेकप्रकार-भूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरणलक्षणसमाख्यातचेष्टया सममिच्छन्ति कर्त्तुम् देश-कालान्मगुणविपरीतानां हि कर्म्मणां आहार-विकाराणाञ्च क्रमेणोपयोगः सम्यक् सर्व्वाभि-योगोऽनुदीर्णानां सन्धारणमसन्धारणमुदीर्णा-नाञ्च गतिमतां साहसानाञ्च वर्ज्जनम् स्वस्थ-वृत्तमेतद्धातूनां साम्यानुग्रहार्पमुपदिश्यते ।”इति चरके शारीरस्थाने षष्ठेऽध्याये
*
“उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छता ।धीमता यदनुष्ठेयं तत् सर्व्वं संप्रचक्ष्यते
तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम् ।कनिष्ठिकापरीणाहमृज्वग्रथितमव्रणम्
”इत्यादिकं सुश्रुते चिकित्सितस्थाने २४ अः
“समदोषः समाग्निश्च समधातुमलक्रियः ।प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते
”इति तत्रोत्तरतन्त्रे ६४ अध्यायः
)