| YouTube Channel

स्वस्तिवाचनं (svastivAcanaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्वस्तिवाचनं,
क्ली,
(स्वस्ति मङ्गलस्य वाचनम् ।)माङ्गल्यकर्म्मारम्भकालीनवक्ष्यमाणमन्त्रोच्चारण-पूर्व्वकतण्डुलविकिरणम् तन्मन्त्रो यथा अमुककर्म्मणि पुण्याहं भवन्तो ब्रुबन्तु इत्युक्तेपुण्याहमिति ब्राह्मणैस्त्रिरुक्ते अमुककर्म्मणिऋद्धिं भवन्तो ब्रुवन्तु ततः ऋद्ध्यतामितिब्राह्मणास्त्रिब्रूयुः एवं स्वस्ति भवन्तो ब्रुवन्तु ।इत्युक्ते स्वस्ति इति ब्राह्मणास्त्रिर्ब्रूयुः ततः
स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषाविश्ववेदाः स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्तिनो वृहस्पतिर्द्दधातु
इति पठित्वा तण्डुलान्विकिरेत्
*
प्रमाणं यथा, व्यासः ।“संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् ।धर्म्मे कर्म्मणि माङ्गल्ये संग्रामाद्भुतदर्शने
”धर्म्मे कर्म्मणि इति सप्तमीनिर्द्देशात् अमुक-कर्म्मणि स्वस्ति भवन्तो ब्रुवन्तु इति ब्रूयात् यमः ।“पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।एतदेव निरोङ्कारं कुर्य्यात् क्षत्तियवैश्ययोः
सोङ्कारं ब्राह्मणे ब्रूयात् निरोङ्कारं महीपतौ ।उपांशु तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत्
”इत्युद्वाहतत्त्वम्
*
अपि ।नन्द उवाच ।“अलक्षितोऽस्त्रिन्रहमि मामकैरपि गोव्रजे ।कुरु द्विजातिसंम्कारं स्वस्तिवाचनपूर्व्वकम्
”इति श्रीभागवते १० स्कन्धे अध्यायः