| YouTube Channel

स्वलीनः (svalInaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्वलीनः,
पुं,
(स्वस्मिन् लीनः ।) दानवविशेषः ।यथा, --“तामायान्तीन्तु रोधाय स्वलीनो नाम दानवः ।पार्व्वतं रूपमास्थाग्र वर्षाणान्तु शतैर्द्विजाः
ततो भगीरथो राजाराधयामास कौशिकम्
तुष्टः प्रददौ नागं वाहनं तं मगीरथः ।तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी
तेन नागेन तं दैत्यं संविदार्य्य सङ्गतम् ।शतधा तां समाधाय मूर्द्ध्वन्यैरावणो गजः
महीतलं समापेदे यावन्नागसाह्वयम् ।तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम्
”इति वह्निपुराणे गङ्गावतरणनामाध्यायः