| YouTube Channel

स्वर्व्वैद्यौ (svarvvaidyau)

 
शब्दकल्पद्रुमः
Sanskrit
स्वर्व्वैद्यौ,
पुं,
(स्वःस्वर्गस्य वैद्यौ ।) अश्विनी-कुमारौ तत्पर्य्यायः अश्विनीसुतौ नासत्यौ३ अश्विनौ दस्रौ आश्विनेयौ इत्य-मरः ५४
द्वित्वविशिष्टत्वादेकवचना-भावः इति स्वामी सर्व्व एते नित्यद्विवच-नान्ता एकत्वविवक्षायां एकवचनान्ता अपि ।यथा, --“नासत्यश्चैव दस्रश्च स्मृतौ द्वौ नामतोऽश्विनौ
”इति मार्कण्डेयपुराणम्
इति भरतः