| YouTube Channel

स्वर्णमाक्षिकं (svarNamAkSikaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्वर्णमाक्षिकं,
क्ली,
(स्वर्णवत् पीतं माक्षिकम् ।)स्वनामख्यात उपधातुः तस्य नामानि गुणाश्च ।“स्वर्णमाक्षिकमाख्यातं तापिञ्जं मधुमाक्षिकम् ।तीक्ष्णं माक्षिकधातुश्च मधुधातुश्च स्मृतः
किञ्चित्सुवर्णसाहित्यात् स्वर्णमाक्षिकमीरि-तम् ।उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम्
तथा काञ्चनाभावे दीयते स्वर्णमाक्षिकम् ।किन्तु तस्यानुकल्पत्वात् किञ्चिद्धीनगुणास्ततः
केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके ।द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणास्ततः
*सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् ।चक्षुष्यं वस्तिरुक्कण्ठपाण्डुमेहविषोदरम् ।अर्शः शोथं विषं कण्डुं त्रिदोषमपि नाश-येत्
*
अशुद्धस्वर्णमाक्षिकस्य दोषमाह ।“मन्दानलत्वं बलहानिमुग्रांविष्टम्भितां नेत्रगदान् सकुष्ठान् ।मालां तथैव व्रणपूर्बिकाञ्चकुर्य्यादशुद्धं खलु माक्षिकञ्च
*
तद्दोषशान्त्यर्थं शोधनमाह ।“माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य ।मातुलुङ्गद्रवैर्व्वाथ जम्बीरस्य द्रवैः पचेत्
चालयेल्लोहजे पात्रे यावत् पात्रं सुलोहितम् ।भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति
*
तन्मारणं थथा, --“कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् ।”तैलेनैवाजमूत्रेण म्रियते स्वर्णमाक्षिकम्
इति भावप्रकाशः
(तथास्य शोधनं यथा, --“स्वर्णमाक्षिकचूर्णन्तु वस्ते बद्ध्वा विपाचयेत् ।कालमाविषशालिञ्च क्वाथे दौलाविधानतः ।तदधः पतितं शस्तमेवं शुध्यति माक्षिकम्
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)