| YouTube Channel

स्वर्णबणिक् (svarNabaNik)

 
शब्दकल्पद्रुमः
Sanskrit
स्वर्णबणिक्, [ज]
पुं,
(स्वर्णस्य बणिक्) वर्ण-सङ्करजातिविशेषः सोनार बेणे इति भाषा ।तस्य कर्म्मविपाको यथा, --“तैसचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् ।ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः
तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिग् भवेत् ।जन्मैकञ्च दुराचारो जन्मैकं करणो भवेत् ।विश्वैकलिपिकर्त्ता भक्षदातुर्द्धनं हरेत् ।कायस्थेनोदरस्थेन मातुर्म्मांसं खादितम् ।तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम्
स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर ।नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले
हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम् ।शतेषु सज्जनः कोऽपि कायस्थो नेतरौ तौ
”इति ब्रह्मवैवर्त्तेश्रीकृष्णजन्मखण्डे ८५ १२८-१३२