| YouTube Channel

स्वर्णपुष्पः (svarNapuSpaH)

 
Apte Hindi
Hindi
स्वर्णपुष्पः
पुं*
स्वर्णम्-पुष्पः -
चम्पक वृक्ष
Wordnet
Sanskrit
Synonyms:
चम्पकः, चाम्पेयः, हेमपुष्पकः, स्वर्णपुष्पः, शीतलछदः, सुभगः, भृङ्गमोही, शीतलः, भ्रमरातिथिः, सुरभिः, दीपपुष्पः, स्थिरगन्धः, अतिगन्धकः, स्थिरपुष्पः, हेमपुष्पः, पीतपुष्पः, हेमाह्वः, सुकुमारः, वनदीपः, कषायः
noun
वृक्षविशेषः सः वृक्षः यस्य पुष्पाणि पीतवर्णीयानि सुगन्धितानि सन्ति।
"तस्य प्राङ्गणे चम्पकः कुन्दम् इत्यादीनि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
स्वर्णपुष्पः,
पुं,
(स्वर्णवर्णं पुष्पमस्य ।) आरग्वधः ।चम्पकः इति राजनिर्घण्टः चम्पकपुष्पै-र्व्विष्णुपूजाफलं यथा, --“माघे चम्पकपुष्पेण योऽर्च्चयेत् कमलापतिम् ।स गच्छेत् परमं धाम विमुक्तः सर्व्वपातकैः
यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये ।तावद्युगसहस्राणि स्थीयते विष्णुमन्दिरे
मेरुतुल्यसुवर्णानि दत्त्वा भवति यत् फलम् ।एकेन स्वर्णपुष्पेण दत्त्वा भवति तत् फलम्
सुवर्णपुष्पं विप्रेन्द्र सर्व्वदा केशवप्रियम् ।माघे मासि विशेषेण पवित्रं केशवार्च्चने
सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः ।रत्रैर्हीनः सुवर्णाद्यैः भवेज्जन्मजन्मनि
”इति पाद्मे क्रियायोगसारे अध्यायः
वावस्रवृक्षः इति शब्दचन्द्रिका