| YouTube Channel

स्वर्णजीवन्ती (svarNajIvantI)

 
शब्दकल्पद्रुमः
Sanskrit
स्वर्णजीवन्ती,
स्त्री,
(स्वर्णवर्णा जीवन्ती ।) वृक्ष-विशेषः तोनाजीवै इति हिन्दी भाषा ।तत्पर्य्यायः हेमाहा हेमजीवन्ती तृण-ग्रन्थिः हिमाश्रया स्वर्णपर्णी सुजी-वन्ती स्वर्णजीवा सुपर्णिका हेमपुष्पा१० स्वर्णलता ११ हेमवल्ली १२ हेमसता १३ ।अस्या गुणाः वृष्पत्वम् मधुरत्वम् चक्षुष-त्वम् शिशिरत्त्वम् वातपित्तास्रदाहनाशि-त्वम् वलवर्द्धनत्वञ्च इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
स्वर्णजीवन्ती स्त्री० स्वर्णमिव पीतत्वात् जीवन्ती पीत-पुष्पजीवन्त्याम् राजनि०