| YouTube Channel

स्वर्णकारः (svarNakAraH)

 
Apte Hindi
Hindi
स्वर्णकारः
पुं*
स्वर्णम्-कारः -
सुनार
अमरकोशः
Sanskrit
Word: स्वर्णकारः
Root: स्वर्णकार
Gender: पुं
Number: all
Meaning(s):
goldsmith
gold smith
gold-worker
Shloka(s):
2|10|8|1 नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः। (शूद्रवर्गः)
Synonym(s):
2|10|8|1 नाडिन्धमः (नाडिन्धम) (पुं) agitating, goldsmith, terrifying, swelling the veins, causing a quicker pulse
2|10|8|1 स्वर्णकारः (स्वर्णकार) (पुं)
2|10|8|1 कलादः (कलाद) (पुं)
2|10|8|1 रुक्मकारकः (रुक्मकारक) (पुं)
Related word(s):
परा_अपरासंबन्धः चित्रकारादिः
उपजीव्य_उपजीवक_भावः सुवर्णम्
जातिः मनुष्यः
उपाधि वृत्तिः
शब्दकल्पद्रुमः
Sanskrit
स्वर्णकारः,
पुं,
(स्वर्णं स्वर्णालङ्कारं करोतीति ।कृ + अण् ।) जातिविशेषः सेकरा इतिभाषा तत्पर्य्यायः नाडीन्धमः कलादः ३रुक्मकारः इत्यमरः १०
कणादः५ इति तट्टीकासारसुन्दरी
हेमलः ।इति जटाधरः
तस्योत्पत्तिर्यथा, --“विश्वकर्म्मा शूद्रायां वीर्य्याधानं चकार सः ।ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः
मालाकारः कर्म्मकारः शङ्खकारः कुबिन्दकः ।कुम्भकारः कंसकारः षडेते शिल्पिनां वराः
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव ।पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः
स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम ।बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० १९ -- २२
*
तस्य कर्म्मविपाको यथा, --“तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् ।ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ १२८