| YouTube Channel

स्वर्गः (svargaH)

 
Apte
English
स्वर्गः [svargḥ], Heaven, Indra's paradise
अहो स्वर्गादधिकतरं निर्वृतिस्थानम्
Ś.*
7.
Comp.
-आपगा the celestial Ganges.-ओकस्, -सद्
m.
a god, deity
स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु (उपतिष्ठतु)
Mb.
* 14.92.27. -काम
a.
desirous of heaven. -गतिः, -गमनम् death. -गिरिः the heavenly mountain Sumeru. -तरङ्गिणी the Ganges
पश्य स्वर्गतरङ्गिणी- परिसरे Sūkti.62. -तर्षः eager desire for heaven. -द, -प्रद
a.
procuring (entrance into) paradise. -द्वारम् heaven's gate, the door of paradise, entrance into heaven
स्वर्गद्वारकपाटपाटनपटुर्धर्मो$पि नोपार्जितः
Bh.*
3.11.-पतिः, -भर्तृ
m.
Indra. -पथः the milky way. -पर
a.
desirous of heaven.
मार्गः the road to heaven.
the milky way. -रोदःकुहरः the hollow space between heaven and earth
टाङ्कारः स्वर्गरोदःकुहरवलयितस्त्रासकारी कस्य B.
R.*
1.49.
लोकः the celestial region.
paradise. ˚ईश्वरः
Indra.
the body (as enjoying felicity in Indra's heaven). -वधूः, -स्त्री
f.
a celestial damsel, heavenly nymph, an apsaras
स्वर्गस्त्रीणां परिष्वङ्गः कथं मर्त्येन लभ्यते. -वासः residence in heaven. -साधनम् the means of attaining heaven.
Apte 1890
English
स्वर्गः Heaven, Indra's paradise
अहो स्वर्गादधिकतरं निर्वृतिस्थानं Ś. 7.
Comp.
आपगा the celestial Ganges.
ओकस् m. a god, deity.
काम a. desirous of heaven.
गिरिः the heavenly mountain Sumeru.
द,
प्रद a. procuring (entrance into) paradise.
द्वारं heaven's gate, the door of paradise, entrance into heaven
स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नापोर्जितः Bh. 3. 11.
पतिः,
भर्तृ m. Indra.
लोकः {1} the celestial region. {2} paradise. °ईश्वरः {1} Indra. {2} the body.
वधूः, स्त्री f. a celestial damsel, heavenly nymph, an apsaras
स्वर्गस्त्रीणां परिष्वंगः कथं मर्त्येन लभ्यते,
साधनं the means of attaining heaven.
Apte Hindi
Hindi
स्वर्गः
पुं*
- "स्वरितं गीयते - गै + क, सु + ऋज् + घञ्"
"वैकुंठ, इन्द्र का स्वर्ग, बहिश्त"
Wordnet
Sanskrit
Synonyms:
पञ्च, पाण्डवः, शिवास्यम्, इन्द्रियम्, स्वर्गः, व्रताग्निः, महापापम्, महाभूतम्, महाकाव्यम्, महामखः, पुराणलक्षणम्, अङ्गम्, प्राणाः, वर्गः, इन्द्रियार्थः, बाणः
noun
एकाधिकं चत्वारि।
"पञ्चाधिकं पञ्च आहत्य दश भवन्ति।"
Synonyms:
स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः
noun
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
"सत्कर्मणा मनुष्यः स्वर्गे गच्छति।"
Synonyms:
स्वर्गः
noun
सुखस्वरुपं मनमोहकं स्थानम्।
"आतङ्कवादेन सह युद्ध्यमानः काश्मिरदेशः जनैः अधुना स्वर्गः मन्यते।"
वैजयन्तीकोषः
Sanskrit
Word: स्वर्गः
Root: स्वर्ग
Gender: पुं
Number: all
अर्थः देवानाम् आवासस्थानम्
Meaning(s):
Heaven
Shloka(s):
1|1|1|1 स्वर्गो नाकः सुरावास ऊर्ध्वलोकः फलोदयः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|1|2 सौरिको भोगभूमिः स्त्री दिवि द्यौश्च त्रिविष्टपम्॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|2|1 अमर्त्यभवनं गौश्च त्रिदिवः स्यात्स्वरव्ययम्। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|1|1 स्वर्गः (स्वर्ग) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|1|1 नाकः (नाक) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|1|1 सुरावासः (सुरावास) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|1|1 ऊर्ध्वलोकः (ऊर्ध्वलोक) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|1|1 फलोदयः (फलोदय) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|1|2 सौरिकः (सौरिक) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|1|2 भोगभूमिः (भोगभूमि) (स्त्री) Heaven देवानाम् आवासस्थानम्
1|1|1|2 द्यौः (दिव्) (स्त्री) Heaven देवानाम् आवासस्थानम्
1|1|1|2 द्यौः (द्यो) (स्त्री) Heaven देवानाम् आवासस्थानम्
1|1|1|2 त्रिविष्टपम् (त्रिविष्टप) (नपुं) Heaven देवानाम् आवासस्थानम्
1|1|2|1 अमर्त्यभवनम् (अमर्त्यभवन) (नपुं) Heaven देवानाम् आवासस्थानम्
1|1|2|1 गौः (गो) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|2|1 त्रिदिवः (त्रिदिव) (पुं) Heaven देवानाम् आवासस्थानम्
1|1|2|1 स्वर् (स्वर्) (अव्य) Heaven देवानाम् आवासस्थानम्
Related word(s):
अन्यसंबन्धाः लोकपालः
जातिः अलौकिकस्थानम्
अवयव_अवयवीसंबन्धः देवसभा
Tamil
Tamil
ஸ்வர்க3: : தேவலோகம், சுவர்க்கம்.
अमरकोशः
Sanskrit
Word: स्वर्गः
Root: स्वर्ग
Gender: पुं
Number: all
Meaning(s):
heaven
heavenly
celestial
heavenly bliss
indra's heaven or paradise
abode of light and of the gods
going or leading to or being in light or heaven
Shloka(s):
1|1|6|1 स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयः। (स्वर्गवर्गः)
1|1|6|2 सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्॥ (स्वर्गवर्गः)
3|3|25|2 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥ (नानार्थवर्गः)
Synonym(s):
1|1|6|1 स्वर् (स्वर्) (अव्य) light, water, lustre, heaven, the sun, sunshine, bright space or sky, the region of the planets and constellations, space above the sun or between the sun and the polar star
1|1|6|1 स्वर्गः (स्वर्ग) (पुं) heaven, heavenly, celestial, heavenly bliss, indra's heaven or paradise, abode of light and of the gods, going or leading to or being in light or heaven
1|1|6|1 नाकः (नाक) (पुं) sun, tin, sky, heaven, painless, firmament, vault of heaven
1|1|6|1 त्रिदिवः (त्रिदिव) (पुं)
1|1|6|1 त्रिदशालयः (त्रिदशालय) (पुं)
1|1|6|2 सुरलोकः (सुरलोक) (पुं)
1|1|6|2 द्यौः (द्यो) (स्त्री)
1|1|6|2 द्यौः (दिव्) (स्त्री)
1|1|6|2 त्रिविष्टपम् (त्रिविष्टप) (नपुं)
3|3|25|2 गौः (गो) (स्त्री)
3|3|25|2 गौः (गो) (पुं)
Related word(s):
जातिः अलौकिकस्थानम्
अन्यसंबन्धाः देवः
अवयव_अवयवीसंबन्धः देवसभा
शब्दकल्पद्रुमः
Sanskrit
स्वर्गः,
पुं,
(स्वरिति गीयते इति मै + कः ।यद्वा, सुष्टु अर्ज्यते इति अर्ज अर्जने + घञ् ।शङ्कादित्वात् कुत्वम् ।) देवतानामालयः तत्-पर्य्यायः स्वः नाकः त्रिदिवः त्रिदशा-अयः सुरलोकः द्योः द्यौ त्रिपि-ष्टपम् इत्यमरः
मन्दरः १०अवरीहः ११ गौः १२ रमतिः १३ फलो-दयः १४ इति जटाधरः
देवलोकः १५स्वर्लोकः १६ ऊर्द्ध्वलोकः १७ सुखाधारः १८सौरिकः १९ शक्रभुवनम् २० दिवानम् २१ ।इति शब्दरत्नावली
*
तस्य गुणदोषायथा, --सुबाहरुवाच ।“स्वर्गस्य मे गुणान् ब्रूहि साम्प्रतं द्विजमत्तम ।एतत् सर्व्वं द्विजश्रेष्ठ करिष्यामि संशयः
जैमिनिरुवाच
नन्दनादीनि दिव्यानि रम्याणि विविधानि ।तत्रोद्यानानि पुण्यानि सर्व्वकामशुभानि
सर्व्वकामफलैर्वृक्षैः शोभितानि ममन्ततः ।विमानानि सुदिव्यानि परितान्यप्सरोगणैः
सर्व्वत्रैष विघित्राणि कामगानि रसानि ।तरुणादित्यवर्णानि मुक्ताजालान्तराणि
चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि ।सर्व्वकामसमृद्धाश्च सुखदुःखविवर्जिताः
नराः सुकृतिनस्ते तु विचरन्ति यथासुखम् ।न तत्र नास्तिका यान्ति स्तेया नाजितेन्द्रियाः
नृशंसा पिशुनाः कतघ्ना मानिन ।मत्यास्तपःस्थिताः शूरा दयावन्तः क्षमापराः
यन्वानो दानशीलाश्च तत्र गच्छन्ति ते नराः ।न रोगो जरा मृत्युर्न शोको हिमादयः
तत्र क्षुत्पिपासा कस्य ग्लानिर्न दृश्यते ।एते चान्ये वहवो गुणाः सन्ति भूपते
दोषास्तत्रैव ये सन्ति तान् शृणुष्व साम्प्रतम् ।शुभस्य कर्म्मणः कृतुस्नं फलं तत्रैव भुज्यते ।न चात्र क्रियते भूयः सोऽत्र दोषो महान् श्रुतः
असन्तोषश्च भवति दृष्ट्वा दीप्तां परश्रियम् ।संप्राप्ते कर्म्मणामन्त सहसा पतनं तथा
इह यत् क्रियते कर्म्म फलं तत्रैव भुञ्जते ।कर्म्मभूमिरियं राजन् फलभूमिस्त्वसौ स्मृता
”इति पाद्मे भूखण्डे ९० अध्यायः
अन्यत् वह्निपुराणे शिवेरुपाख्याननामाध्यायेमात्स्ये १०३ १०४ अध्याययोरपि द्रष्टव्यम्
अपि ।सुनन्द उवाच ।शृणु राजन् प्रवक्ष्यामि विष्णोरद्भुतकर्म्मणः ।विराडरूपस्य सस्थानमाख्यान महदद्भुतम्
यावती भू समुद्दिष्टा ससमुद्राद्रिकानना ।प्रतिभाता महाराज किरणैश्चन्द्रसूर्य्ययोः
वियच्च तावदुपरि विस्तारपरिमण्डलम् ।पञ्चविंशतिकोट्यस्तु योजनानान्तु तत्स्मृतम्
नवतीनां महस्राणि योजनानि महीपते ।भूमेरूर्द्धञ्च लोकानां सिद्धचारणरक्षमाम्
ये विद्याधरा यक्षरक्षोगन्धर्व्वकिन्नराः ।भूतप्रेतपिशाचाश्च तेषां तत् स्थानमीरितम्
ततो राहुर्न्महाबाहो त्रयोदशसहस्रकम् ।योजनानां पविस्तारं मण्डलं तस्य कथ्यते
स्मरन् वैरं पुरा प्राप्तं यः पर्व्वणि महाग्रहः ।ग्रामाय धावति कोधात् पुप्पवन्तौ महीपते
तदैव भगवच्चक्रं सहस्नार्कोपमद्युति ।उपतिष्ठति तद्भीत्या पुनरेव निवर्त्तते
उपरागं वदन्त्येवं पुण्यकालश्च कथ्यते ।लक्षयोजनतो भानुर्भूमेरेष व्यवस्थितः
तानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरःनक्षत्रमण्डलं चन्द्राल्लक्षयोजनमुच्छ्रितम्
नक्षत्रमण्डलात् सौम्य उपरिष्टाद्विलक्षतः ।बुधात् शुक्रो द्विलक्षे तु शुक्राद्भौमो द्विलक्षके
मङ्गलादुपरिष्टाच्च गीष्पतिर्लक्षकद्वये ।द्विलक्षयोजनोत्मेधः सौरिर्द्देवपुरोहितात्
शतायुतसमुच्छ्रायं सौरेः सप्तर्षिमण्डलम् ।सप्तषिंभ्यः सहस्राणां शतादूर्द्ध्वं धुवस्थितिः
पाडगम्यं हि यत्किञ्चिद्वस्त्वस्ति धरणीतले ।तद्भूर्णोक इति ख्यातं शाकद्वीपादिकाननम्
भूर्लोकाच्च भुवर्लोकः सूर्य्यावधिरुदीरितः ।आदित्यादाध्रुवं राजन् स्वर्लोकः कथ्यते बुधैः
महर्लोकः क्षितेरूर्द्ध्वमेककोटिप्रमाणतः ।कोटिद्वये वर्त्तमानो जनो भूर्लोकतो नृप
उपरिष्टात् जितेरष्टौ कोटवः सत्यमीरितम् ।सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः
भूर्णोकात् परिसंख्यातः कोटिरष्टादश प्रभो ।यत्नास्ते श्रीपतिः साक्षात् सर्व्वेषामभयप्रदः
बैकुण्ठादुत्तरे शैवो लोकः षोडशकोटयः ।तिर्य्यगेव महाराज कैलासाख्यस्तु पर्व्वतः
पार्व्वत्या सहितः शम्भुर्यत्रास्ते स्वगणैर्वृतः
”इति पाद्मे स्वगखण्डेभूरादिलोकवर्णनं अः
स्वर्गस्वरूपं कर्म्मविशेषेण स्वर्गविशेषगमनञ्चयथा, --सूत उवाच ।“स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोध मे ।भारते कृतपुण्यानां देवानामपि चालयम्
मध्ये पृथिव्यामद्रीन्द्रो भास्वाम् मेरुर्हिरण्मयः ।योजनानां सहस्राणि चतुरशीतिः समुच्छ्रितः
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।तावत्प्रमाणा पृथिवी पर्व्वतश्च समन्ततः
तस्य शृङ्गत्रयं मूर्द्ध्नि स्वर्गो यत्र प्रतिष्ठितःनानाद्रुमलताकीर्णं नानारत्नोपशोभितम्
मध्यगं पश्चिमं पूर्व्वं मेरोः शृङ्गाणि त्रीणि वै ।प्रयुतोच्छ्रितमात्राणि द्वे शृङ्गे तस्य मध्यतः
मध्यस्थं स्फाटिकं शृङ्गं वैदूर्य्यकरकामयम् ।इन्द्रनीलमयं पूर्व्वं माणिक्यं पश्चिमं स्मृतम्
योजनानां सहस्राणि नियुतानि चतुर्दश ।उच्छ्रितं मध्यगं शृङ्गं स्वर्गो यत्र प्रतिष्ठितः
प्रयुतान्तरितं शृङ्गं मूर्द्ध्नि च्छत्राकृति स्थितम् ।पूर्व्वपश्चिमशृङ्गाणां सकलं मध्यमस्य
त्रिपिष्टपो नाकपृष्ठो अप्सरःशान्तिनिर्व्वृती ।आनन्दोऽथ प्रमोदश्च स्वर्गाः शृङ्गे मध्यमे
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ।आह्नादः स्वर्गराजश्च स्वर्गाः शृङ्गे तु पश्चिमे
निर्म्मलो निरहङ्कारः सौभाग्यश्चातिनिर्मलः ।सौख्यश्च निर्व्वृतिश्चैव पुण्याहश्च तथा द्विज
स्वर्गाश्चैते द्विजश्रेष्ठ पूर्व्वशृङ्गे समर्थिताः ।एकविंशति ये स्वर्गा निविष्टा मेरुमूर्द्धनि
अहिंसादानकर्त्तारो यज्ञानां तपसां तथा ।तेषु तेषु वसन्ति स्म जनाः क्रोधविवर्जिताः
जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसः ।भृगुप्रपाते सौख्यस्तु रणे चैवास्य निर्म्मलः
अनशने तु सम्बासे मृतो गच्छेत्त्रिविष्टपम् ।क्रतुयाजी नाकपृष्ठमग्निहोत्री निर्व्वृतिम्
तडागकूपकर्त्ता लभते पौष्टिकं द्विज ।सौवर्णदायी सौभाग्यं लभेत् स्वर्गं महातपाः
शीतकाले महावह्निं प्रज्वालयति यो नरः ।सर्व्वसत्त्वहितार्थाय स्वर्गं चाप्सरसं लभेत्
हिरण्यगोप्रदानेन निरहङ्कारमवाप्नुयात् ।भूमिदानेन शुद्धेन लभते शान्तिकं पदम्
रौप्यदानेन शुद्धेन स्वर्गं गच्छति निर्म्मलम् ।अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम्
द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः ।श्वेतन्तु लभते स्वर्गं यत्र गत्वा शोचति
कपिलागोप्रदानेन परार्द्धे चानुभूयते ।गोवृषस्य प्रदानेन स्वर्गं मन्मथमश्नुते
माघमासे सरित्स्नायी तिलधेनुप्रदस्तथा ।छत्रोपानहदाता स्वर्गं यात्युपशोभनम्
देवायतनकर्त्ता वै श्रुश्रूषणपरस्तथा ।तीर्थयात्रापरश्चैव स्वर्गराज्ये महीयते
एकान्नभोजी यो मर्त्यो नक्तभोजी नित्यशः ।उपवासी त्रिरात्राद्यैः शान्तिस्वर्गं शुभं लभेत्
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढब्रतः ।निर्म्मलं स्वर्गमाप्नोति तथा भूतहिते रतः
विद्यादानेन मेध्रावो निरहङ्कारमाप्नुयात् ।येन येन हि भावेन यद्यद्दानं प्रयच्छति ।तत्तत् स्वर्गभवाप्नोति यद्यदिच्छति मानवः
यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।स प्राप्य निवर्त्तेत दिवं शान्तमनामयम्
शृङ्गन्तु पश्चिमं यच्च ब्रह्मा तत्र स्थितः स्वयम् ।पूर्व्वशृङ्गे स्वयं विष्णुर्भध्ये चैव शिवः स्थितः
*
अतः परन्तु विप्रेन्द्र स्वर्गाध्वानमिमं शृणु
विमलं विपुलं शुद्धमुपर्य्युपरिसंस्थितम् ।प्रथमे तु कुमारस्तु द्वितीये मातरः स्थिताः
तृतीये सिद्धगन्धर्व्वास्तुर्य्ये विद्याधरा द्विज ।पञ्चमे नागराजश्च षष्ठे तु विनतासुतः
सप्तमे दिव्यपितरो धर्म्मराजस्तथाष्टमे ।नवमे तु तथा दक्ष आदित्या दशमे पथि
*
भूर्लोकाच्छतसाहस्रमूर्द्ध्वं चरति भास्करः ।योजनानां सहस्रे द्वे विष्कम्भेन समन्वितः
त्रिगुणः परिणाहेन सूर्य्यविम्बप्रमाणतः
सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा ।महेन्द्रस्यामरावत्यां ततस्तिष्ठति भास्करः
मध्याह्ने त्वमरावत्यां यदा भवति भास्करः ।तदा संयमने याम्ये तदोद्यंस्तु प्रदृश्यते
मेरुं प्रदक्षिणं कुर्व्वन् भात्येवं सविता सदा ।ध्रुवाधाररथे तिष्ठन् वालिखिल्यादिभिः स्तुतः
सूर्य्यमण्डलमानात्तु द्विगुणं सोममण्डलम् ।पूर्णे शतसहस्रे तु तस्मान्नक्षत्रमण्डलम्
द्विलक्षे तु बुधस्यापि स्थानं नक्षत्रमण्डलात् ।तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः
अङ्गारकोऽपि शुक्रस्य तावन्माने व्यवस्थितः ।लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः
शौरिर्बृहस्पतेश्चोर्द्ध्वं द्विलक्षे तु व्यवस्थितः ।तस्मात् शनैश्चरादूर्द्ध्वं लक्षे सप्तर्षिमण्डलम्
सप्तर्षिमण्डलादूर्द्ध्वमेकलक्षे ध्रुवः स्थितः ।मेधीभूतः समस्तस्य ज्योतिश्चक्रस्य सत्तम
भास्वांस्तपति विप्रेन्द्र ऊर्द्ध्वं किरणरश्मिभिः ।कालसंख्यां त्रिलोकस्य करोति युगे युगे
जनस्तपस्तथा सत्यमेताल्लोँकान् द्विजाज्ञया ।ब्रह्मणो मुनिशार्दूल विष्णुशक्तिविदीपितः
ऊर्द्ध्वं गतैर्द्विजश्रेष्ठ रश्मिभिस्तपते रविः ।अधोगतैस्तु भूर्लोकं द्योतते दीप्तदीधितिः
तमःपापहरः सूर्य्यः कर्त्ता त्रिभुवनस्य ।छत्रवत् परिदृश्येत मण्डलान्मण्डलं चरन्
द्विगुणेन विस्तीर्णं भूतलात्तत् प्रतिष्ठितम् ।आदित्यमण्डलाधस्तात् भुवो लोकः प्रतिष्ठितः
तदधस्तात्तु विप्रेन्द्र भूर्लोकः संप्रतिष्ठितः ।एवमेतत्त्रिभुवनं विष्णुकाये व्यवस्थितम्
त्रैलोक्यस्येश्वरत्वञ्च विष्णुदत्तं शतक्रोतोः ।लोकपालैश्च सहितो लोकान् रक्षति धर्म्मतः ।वसन् स्वर्गे महाभाग देवेन्द्रः तु कीर्त्तितः
अतोऽधस्ताद्द्विजश्रेष्ठ पातालन्तु स्वयंप्रभम् ।न तत्र तपते सूर्य्यो रात्रिर्न निशाकरः
दिव्यं रूपं समास्थाय तपन्ते सततं जनाः ।पातालस्थाः द्विजश्रेष्ठ दीप्यामानाः स्वतेजसा
स्वर्लोकात्तु महर्लोकः कोटिमाने व्यवस्थितः ।ततो योजनमानेन द्विगुणो मण्डलेन तु
जनलोकस्थितो विप्र पञ्चमो मुनिसेवितः ।तस्योपरि तपोलोकश्चतुर्भिः कोटिभिः स्मृतः
सत्यलोकोऽष्टकोटीभिः सर्व्वेषामुपरिस्थितः ।सर्व्वे छत्राकृतिर्ज्ञेया भुवना भुवनोपरि
ब्रह्मलोकाद्विष्णुलोको द्विगुणेन व्यवस्थितः ।वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः
ततः परं द्विजश्रेष्ठ ततो ह्यण्डकपालकम् ।ब्रह्माण्डात् परतः साक्षात् निर्लेपः पुरुषःस्थितः
यमुपास्य विमुच्येत तपोज्ञानसमन्विताः ।इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ
यस्तु सम्यगिमां वेत्ति याति परमां गतिम् ।”इति नृसिंहपुराणे ३० अध्यायः
पारिभाषिकस्वर्गो यथा, --“मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः ।वासः प्रासादषष्ठेषु स्वर्गः स्याच्छुभकर्म्मणः
”इति गारुडे १०९ ४४
न्यायमते स्वर्गलक्षणं यथा दुःखासम्भिन्न-त्वादिविशिष्टसुखत्वं स्वर्गत्वं तदेव स्वर्गपदशक्य-तावच्छेदकमिति सिद्धान्तः आदिपदेन अन-न्तरदुःखग्रस्तभिन्नत्वाभिलाषोपनीतत्वयोःपरि-ग्रहः अतएव ।“यन्न दुःखेन संभिन्नं ग्रस्तमनन्तरम् ।अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदम्
”इति स्वरादिपदशक्तिग्राहकार्थवादोऽपि संग-च्छते इति गदाधरभट्टाचार्य्यकृतवादार्थः
*
किञ्च ।“मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः ।नरकस्वर्गसंज्ञेवै पापपुण्ये द्विजोत्तमाः
”इति ब्रह्मपुराणे १९ अध्यायः
कृदन्तरूपमाला
Sanskrit
1 {@“ऋज गतिस्थानार्जनोपार्जनेषु”@} 2 ‘ऊर्जनेषु’ इति क्षीरस्वाम्यादीनां पाठः।
ऊर्जनम् = शक्तिप्राप्तिः प्राणनं वेति धातुकाव्ये।
‘ऋञ्जते भर्जने, गत्याद्यर्थे स्यादर्जते त्वृजेः।’ 3 इति देवः।
4 अर्जकः-र्जिका, अर्जकः-र्जिका, अर्जिजिषकः-षिका
अर्जिता-त्री, अर्जयिता-त्री, अर्जिजिषिता-त्री
-- अर्जयन्-न्ती, अर्जयिष्यन्-न्ती-ती
5 अर्जमानः, अर्जयमानः, अर्जिजिषमाणः
अर्जिष्यमाणः, अर्जयिष्यमाणः, अर्जिजिषिष्यमाणः
ऋक्-ऋग्-ऋजौ-ऋजः
-- -- ऋजितम्-तः-तवान्, 6 उपार्जितः, अर्जितः-तम्, अर्जिजिषितः-तवान्
ऋजः, अर्जः, अर्जिजिषुः, अर्जिजयिषुः
अर्जितव्यम्, अर्जयितव्यम्, अर्जिजिषितव्यम्
अर्जनीयम्, अर्जनीयम्, अर्जिजिषणीयम्
7 ऋज्यम्, अर्ज्यम्, अर्जिजिष्यम्
ईषदर्जः, दुरर्जः, स्वर्जः
-- -- ऋज्यमानः, अर्ज्यमानः, अर्जिजिष्यमाणः
अर्जः, 8 स्वर्गः, अर्जः, अर्जिजिषः
अर्जितुम्, अर्जयितुम्, अर्जिजिषितुम्
ऋक्तिः, अर्जना, अर्जिजिषा, अर्जिजयिषा
अर्जनम्, अर्जनम्, अर्जिजिषणम्
9 अर्जित्वा, अर्जयित्वा, अर्जिजिषित्वा
समृज्य, समर्ज्य, समर्जिजिष्य
अर्जम् २, अर्जित्वा २, अर्जम् २, अर्जयित्वा २, अर्जिजिषम्
अर्जिजिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१२१)
02
=>
(१-भ्वादिः-१७६। सक। सेट्। आत्म।)
03
=>
(श्लो-६२)
04
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैश्शुभार्जकैः। समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।’ धा। का। १। २४।]]
05
=>
[पृष्ठम्०१२२+ २४]
06
=>
[[१। ‘उपसर्गादृति धातौ’ (६-१-९१) इति वृद्धिः।]]
07
=>
[[२। ‘ऋदुपधाच्च--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
08
=>
[[३। ‘सुप्रु ऋज्यते = स्थीयते अस्मिन्--इत्यधिकरणे संज्ञायां ‘हलश्च’ (३-३-१२१) इति घञ्। न्यङ्क्वादित्वात् (७-३-५३) कुत्वम्।’ इति अमरसुधा। निष्ठायां सेट्त्वात् अर्ज इत्यत्र कुत्वं न।]]
09
=>
[[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद्गुणः।]]