स्वरोदय (svarodaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishApte Hindi
Hindiस्वरोदय
वि* स्वर-उदय -
जिसके बाद स्वर हो
Aufrecht Catalogus Catalogorum
Englishनरपतिजयचर्या or स्वरोदय on divination from sounds,
etc. composed at Aṇahilapaṭṭana in 1176 by Nara-
pati. Mack. 138. IO. 744. Cambr. 68. Oxf. 399^b
(extracts). L. 1093. K. 230. Kh. 21. B. 4, 150.
Report XXXV. Ben. 27. Pheh 10 (and C.). Rādh
34. Oudh XIV, 116. XIX, 136. Burnell 80^b.
P. 14. Bhk. 36. Bhr. 331. p. 220. Poona 322.
H. 297. 298. Peters. 2, 193. W. 1744. Frag-
ments of this work are: Śakunaśāstra Bik. 321,
Śṛgālaśakuna Bik. 338. Quoted by Raghunandana.
C. Jayalakṣmī by Narapati. L. 1816. 1947.
K. 226. Bik. 341. Rādh 34. NP. V, 4.
Peters. 2, 193.
C. by Narahari, son of Narasiṃha. Mack. 138.
L. 2381. K. 230. Pheh 10. Rādh 34. Oudh
III, 22. P. 14.
C. Mañjarī by Bhūdhara. L. 2097.
C. by Rāmanātha. NW. 552.
समरसार or स्वरोदय prognostics derived from mystic
circles, particular stellar conjunctions, the turn of the
breath, the flight of birds and suchlike, of success
or defeat in warfare etc. Pheh 10 (and C.). Rādh
36 (and C.). This topic is generally classed with
the Jyotiṣa.
--and C. by Rāmacandra IO. 1519. W. p. 273. L.
799. K. 244. B. 4, 6. 204. Ben. 27. Oudh VII, 8
(only C.). Rice 36. Peters. 2, 195. 3, 398. BP.
273. 309.
C. Khn. 94.
C. by the author's younger brother Bharata. L.
2417. Oudh XI, 38. NP. V, 92. BP. 309.
C. by Dāmodara. Ben. 27. NP. II, 114.
C. by Dīkṣitasāṃvatsara. Peters. 2, 195.
C. by Rāmadatta. NW. 532. NP. 1, 160.
C. by Rāmaśaṅkara. NW. 530.
C. Karaṇālaṃkṛti by Viṭṭhalamiśra. NP. V, 92. 94.
स्वरोदय See Svaraśāstra. Mack. 129. L. 484. Khn.
92. K. 246. B. 4, 6 (attributed to Vyāsa and
Śiva). 212. Kāṭm. 11 (in 4 khaṇḍa). Rādh 36.
NW. 246. Burnell 80^b. Oppert 6701. SB. 281.
Proceed. ASB. 1865, 140. 1871, 282. Some of
these treatises differ no doubt from each other.
Quoted by Raghunandana, in Saṃskārakaustubha,
Muhūrtacintāmaṇiṭīkā, by Sundaradeva Hall p. 18,
in Prāṇatoṣiṇī p. 2. See Tatkālendupraśnasvarodaya.
C. Svarodayavivaraṇa by Bāvā Śāstrin. Hall p. 200.
नरपतिजयचर्या or स्वरोदय by Narapati. CU. add.
1679. 2390. IO. 744. 745. 936. 1043. 1984. 2297.
2445. Oudh XX, 138. Peters. 4, 35. Stein 164.
Fragments of it are: Pañcapakṣinirūpaṇa Peters.
4, 35. Sarvatobhadracakra, with a C. Jayavilāsa by
Gokulanātha IO. 2701.
C. Jayalakṣmī by Narapati. This is the C. by
Harivaṃśa.
C. by Narahari. Stein 164 (fr.).
C. Jayalakṣmī by Harivaṃśa Pāṭhaka. Oudh
XX, 140. Peters. 2, 193. 4, 35. Stein 164.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritस्वरोदयः, (स्वराणामुदयो यत्र । स्वरज्ञापक-ग्रन्थविशेषः । यथा, --सूत उवाच ।“हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ।कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्त्तितः ॥
वायुसंस्थः स्थितो राहुर्दक्षरन्ध्रावभासकः ।गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ॥
वामनाड्यान्तु मध्यस्थान् कारयेदात्मनस्तथा ।यदा चार इडायुक्तस्तदा कर्म्म समाचरेत् ॥
स्थानसेवां तथा ध्यानं बाणिज्यं राजदर्शनम् ।अन्यानि शुभकर्म्माणि कारयेत प्रयत्नतः ॥
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैंहिकः ।इनश्चैव तथाप्येव पापानामुदयो भवेत् ॥
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ।देहमध्ये स्थिता नाड्यौ बहुरूपाः सुविस्तराः ॥
नाभेरधस्ताद् यः कन्दो अङ्कुरास्तत्र निर्गताः ।द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ॥
चक्रवच्च स्थितास्तास्तु सर्व्वाः प्राणहराः स्मृताः ।तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः ॥
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ।मध्यमा च भवेदग्निः फलतां कालरूपिणी ॥
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता ।दक्षिणा रौद्रभागेन जगच्छोषयते सदा ॥
द्वयोर्ब्बाहे तु मृत्युः स्यात् सर्व्वकार्य्यविनाशिनी ।निगमे च भवेद्वामा प्रवेशे दक्षिणा स्मृता ॥
कारयेत् क्रूरकर्म्माणि प्राणे पिङ्गलसंस्थिते ।इडाचारे तथा सौम्यं चन्द्रसूर्य्यगतस्तथा ॥
यात्रायां सर्व्व कार्य्येषु विषापहरणे इडा ।भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका ॥
उच्चाटमारणाद्येषु कर्म्मस्वेतेषु पिङ्गला ।मैथुने चैव संग्रामे भोजने सिद्धिदायिका ॥
शोभनेषु च कार्य्येषु यात्रायां विषकर्म्मणि ।शान्तिमुक्त्यर्थमिद्ध्यै च इडा योज्या नराधिपैः ॥
द्वाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्ज्जने ।विषुवं तन्तु जानीयात् संस्मरेत्तु विचक्षणः ॥
सौम्यादि शुभकार्य्येषु लाभादिजयजीविते ।गमनागमने चैव वामा सर्व्वत्र पूजिता ॥
युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे ।प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्म्मणि ॥
शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयी ।जीवो जीवाय यत्पृच्छेत् न सिध्यति च मध्यमा ॥
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ।तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः ।वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ।तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्फला ॥
वामे वा दक्षिणे वापि यत्र संक्रमते शिवा ।घोरे घोराणि कार्य्याणि सौम्येवै मध्यमानि च ॥
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्व्ववाहिनि ।तदा मृत्युं विजानीयाद्योगी योगविशारदः ॥
यत्र यत्र स्थितः पृच्छेद्वामदक्षिणसंमुखः ।तत्र तत्र समं दिश्याद्वातस्थोदयनं सदा ॥
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा ॥
जीवी जीवति जीवेन यच्छून्यं तत् स्वरो भवेत् ॥
यत्किञ्चित् कार्य्यमुद्दिष्टं जयादिशुभलक्षणम् ।तत् सर्वं पूर्णनाड्यान्तु जायते निर्व्विकल्पतः ॥
अन्यनाड्यादिपर्य्यन्तपक्षत्रयमुदाहृतम् ।यावत् पष्ठीन्तु पृच्छायां पूर्णायां प्रथमो जयेत् ॥
रिक्तायान्तु द्वितीयान्तु कथयेत्तदशङ्कितः ।वामाचारसमा वायुर्जायते कर्म्मसिद्धिदः ॥
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् ।अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् ॥
तदासौ जयमाप्नोति योधः संग्राममध्यतः ।दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ॥
जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत् ।पिङ्गलान्तर्गते प्राणे शमनीयाहवञ्जयेत् ॥
यावन्नाड्योदयं चारस्तां दिशं यावदापयेत् ।न दातुं जायते सोऽपि नात्र कार्य्या विचा-रणा ॥
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ।सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्द्दिशेत् ॥
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ।जयं पराजयं चैव यो जानाति स पण्डितः ॥
वामे वा दक्षिणे वापि यत्र सञ्चरते शिवम् ।कृत्वा तत्पदमाप्नोति यात्रा सन्ततिशोमना ॥
शशिसूर्य्यप्रवाहे तु सति युद्धं समाचरेत् ।तत्रस्थः पृच्छते यस्तु स साधु जायते ध्रुवम् ॥
यां दिशं वहते वायुस्तां दिशं यावदाजयेत् ।जयते नात्र सन्देह इन्द्रो यद्यग्रतः स्थितः ॥
मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिता ।चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात् ॥
निगमे निर्गमं याति संग्रहे संग्रहं विदुः ।पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् ॥
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ।ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः ॥
मध्ये तु पृथिवी ज्ञेया लाभः सर्व्वत्र सर्व्वदा ।ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोच्चाटयेत्सधीः ।मध्ये स्तम्भं विजानीयान्मोक्षः सर्व्वत्र सर्व्वगे ॥
”इति गारुडे पवनविजयादिः ६७ अध्यायः ॥
* ॥
अन्यच्च ।श्रीपार्व्वत्युवाच ।“देवदेव महादेव तत्त्वज्ञ परमेश्वर ।कथयस्व प्रभो ज्ञानं कृपां कृत्वा ममोपरि ॥
कथं ब्रह्माण्डमुत्पन्नं कथं वा परिवर्त्तते ।कथं विलीयते देव वद ब्रह्माण्डनिर्णयम् ॥
श्रीमहादेव उवाच ।तत्त्वाद्ब्रह्माण्डमुत्पन्नं तत्त्वेन परिवर्त्तते ।तत्त्वेन लीयते देवि तत्त्वाद्ब्रह्माण्डनिर्णयः ॥
देव्युवाच ।तत्त्वमेव परं मूलं निश्चितं तत्त्ववेदिभिः ।तत्त्वस्वरूपं किं देव तत्त्वमेव प्रकाशय ॥
ईश्वर उवाच ।निरञ्जनो निराकार एकदेवो महेश्वरः ।तस्मादाकाशमुत्पन्नं आकाशाद्वायुमम्भवः ॥
वायोस्तेजस्ततश्चापस्ततः पृथ्वीसमुद्भवः ।एतानि पञ्चतत्त्वानि विस्तीर्णानि च पञ्चधा ॥
तेभ्यो ब्रह्माण्डमुत्पन्नं तैरेव परिवर्त्तते ।विलीयते च तत्रैव तत्रैव रमते पुनः ॥
* ॥
पञ्चतत्त्वमये देहे पञ्चतत्त्वानि सुन्दरि ।सूक्ष्मरूपेण वर्त्तन्ते ज्ञायते तत्त्वयोगिभिः ॥
अत एव प्रवक्ष्यामि शरीरस्थं स्वरोदयम् ।हंसचारस्वरूपेण भवेद् ज्ञानं त्रिकालगम् ॥
गुह्याद्गुह्यतरं सारमुपकारप्रकाशकम् ।इदं स्वरोदयं ज्ञानं ज्ञानिनां मस्तके मणिः ॥
सूक्ष्मात् सूक्ष्मतरं ज्ञानं सुबोधं सत्यप्रत्ययम् ।आश्चर्य्यं नास्तिके लोके आधारस्त्वास्तिके जने ॥
शान्ते शुद्धे सदाचारे गुरुभक्तैकमानसे ।दृढचित्ते कृतज्ञे च देयञ्चैव स्वरोदयम् ॥
शठे च दुर्ज्जने शूद्रे अशान्ते गुरुलोपके ।हीनसत्त्वे दुराचारे स्वरज्ञानं न दीयते ॥
* ॥
शृणु त्वं कथितं देवि देहस्य ज्ञानमुत्तमम् ।येन विज्ञानमात्रेण सर्व्वज्ञत्वं प्रजायते ॥
स्वरे वेदाश्च शास्त्राणि स्वरे गान्धर्व्वमुत्तमम् ।स्वरे सर्व्वञ्च त्रैलोक्यं स्वरे आत्मस्वरूपकः ॥
स्वरहीनोऽथ दैवज्ञो नाथहीनं यथा गृहम् ।शास्त्रहीनो यथा वक्ता शिरोहीनञ्च यद्वपुः ॥
नाडीभेदं यथा प्राणं तत्त्वभेदं तथैव च ।सुषुम्रामिश्रभेदञ्च यो जानाति स मुक्तिगः ॥
साकारे वा निराकारे शुभवायुबले कृते ।कथयन्ति शुभं केचित् स्वरज्ञानं वरानने ॥
ब्रह्माण्डखण्डपिण्डाद्यं स्वरेणैव हि निर्म्मितम् ।सृष्टिसंहारकर्त्ता च स्वरः साक्षान्महेश्वरः ॥
स्वरज्ञानात् परं मित्र स्वरज्ञानात् परं धनम् ।स्वरज्ञानात् परं गुह्यं न वा दृष्टं न वा श्रुतम् ॥
शत्रुं हन्यात् स्वरबलैस्तथा मित्रसमागमः ।लक्ष्मीप्राप्तिः स्वरबलैः कीर्त्तिः स्वरबलैस्तथा ॥
कन्याप्राप्तिः स्वरबलैः स्वरबलै राजदर्शनन् ।स्वरबलैर्देवतासिद्धिः स्वरबलैः क्षितिपो वशः ॥
स्वरबलैर्गम्यते देशे भोज्यं स्वरबलैस्तथा ।लघु दीर्घं स्वरबलैर्मलञ्चैव निवारयेत् ॥
सर्व्वशास्त्रपुराणादिस्मृतिवेदाङ्गपूर्व्वकम् ।स्वरज्ञानात् परं मित्रं नास्ति किञ्चिद्वरानने ॥
नामरूपादिकाः सर्व्वे मिथ्या सर्व्वे कविभ्रमाः ।अज्ञानमोहिता मूढा यावत्तत्त्वं न विद्यते ॥
इदं स्वरोदयं शास्त्रं सर्व्वशास्त्रोत्तमोत्तमम् ।आत्मघटप्रकाशार्थं प्रदीपकलिकोपमम् ॥
यस्मै कस्मै परस्मै वा न प्रोक्तं प्रश्नहेतवे ।तस्मादेतत् स्वयं ज्ञेयमात्मनैवात्मनात्मनि ॥
न तिथिर्न च नक्षत्रं न वारग्रहदेवताः ।न विष्टिर्न व्यतीपातो विरुद्धाद्यास्तथैव च ॥
कुयोगा नैव देवेशि प्रभवन्ति कदाचन ।प्राप्ते स्वरबले सिद्धिं सर्व्वमेव फलं शुभम् ॥
* ॥
देहमध्ये स्थिता नाङ्यो बहुरूपाः सविस्तराः ।ज्ञातव्याश्च बुधैनित्यं स्वदेहे ज्ञानहेतवे ॥
नाभिस्थानककन्दोर्द्ध्वमङ्कुरादेव निर्म्मिताः ।द्विसप्ततिसहस्राणि देहमध्ये व्यवस्थिताः ।नाडीस्था कुण्डली शक्तिर्भुजङ्गाकारशायिनी ।ततो दशोर्द्ध्वगा नाड्यो दशैवाधः प्रतिष्ठिताः ॥
देहे तिर्य्यग्गता नाड्यश्चतुर्विंशतिसंख्यया ।प्रधाना दश नाड्यस्तु दश वायुप्रवाहकाः ॥
तिर्य्यगूर्द्ध्वमधस्ताद्वा वायुर्देहे समन्वितः ।चक्रवत्तु स्थिता देहे सर्व्वाः प्राणसमाश्रिताः ॥
तासां मध्ये दश श्रेष्ठा दशानां तिस्र उत्तमाः ।इडा च पिङ्गला चैव सुषुम्रा च तृतीयिका ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।अलम्बुषा कुहूश्चैव शङ्खिनी दशमी तथा ॥
इडा वासे स्थिता भागे दक्षिणे पिङ्गला तथा ।सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ॥
दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ।यशस्विनी वामकर्णे आनने चाप्यलम्बुषा ॥
कुहूश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी ।एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडिकाः ॥
इडा पिङ्गला सुषुम्ना च प्राणमार्गे समा-श्रिताः ।एता हि दश नाड्यस्तु देहमध्ये व्यवस्थिताः ।नामानि नाडिकानान्तु वातानां प्रवदाम्यहम् ।प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥
नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः ।हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले ॥
समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।व्यानो व्यापो शरीरेषु प्रधानाः पञ्च वायवः ॥
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्चवायवः ।तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् ॥
उद्गारे नाग आख्यातः कूर्म्म उन्मीलने स्मृतः ।कृकरः क्षुत्कृतो ज्ञेयो देवदत्तो विजृम्भणे ।न जहाति मृते क्वापि सर्व्वव्यापी धनञ्जयः ।एते नाडीषु सर्व्वासु भ्रमन्ते जीवरूपिणः ॥
प्रकटप्राणसञ्चारं लक्षयेत् देहमध्यतः ।इडापिङ्गलासुषुम्नाभिर्नाडीभिस्तिसृभिर्बुधः ॥
इडा वामे च विज्ञेया पिङ्गला दक्षिणे स्मृता ।इडानाडीस्थिता वामा ततो व्यस्ता चपिङ्गला ॥
इडायां संस्थितश्चन्द्रः पिङ्गलायाञ्च भास्करः ।सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपकः ॥
हंकारो निर्गमे प्रोक्तः सकारस्तु प्रवेशने ।हंकारः शिवरूपेण सकारः शक्तिरुच्यते ॥
शक्तिरूपः स्थितश्चन्द्रो वामनाडीप्रवाहकः ।दक्षनाडीप्रवाहश्च शुम्भुरूपी दिवाकरः ॥
श्वासे सकारसंस्थे तु यद्दानं दीयते बुधैः ।तद्दानं जीवलोकेऽस्मिन् कोटिकोटिगुणं भवेत् ॥
अनेन लक्षयेद् योगी चैकचित्तः समाहितः ।सर्व्वमेव विजानीयान्मार्गं तच्चन्द्रसूर्य्ययोः ॥
ध्यायेत्तत्त्वं स्थिरे जीवे अस्थिरे न कदाचन ।इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ॥
चन्द्रसूर्य्यौ यदाभ्यासौ ये कुर्व्वन्ति सदा नराः ।अतीतानागतज्ञानं तेषां हस्तगतं सदा ॥
वामे चामृतरूपस्था जगदाप्यायिनी परा ।दक्षिणा चरमे भागे जगदुत्पादयेत् सदा ॥
मध्यमा भवति क्रूरा दुष्टा सर्व्वत्र कर्म्मसु ।सर्व्वत्र शुभकाय्येषु वामा भवति पुष्टिदा ॥
निर्गमे च शुभा वामा प्रवेशे दक्षिणा शुभा ।शुभकार्य्ये शुभा वामा दक्षिणा क्रूरकर्म्मसु ।चन्द्रः समस्तु विज्ञेयो रविस्तु विपमः सदा ।चन्द्रः स्त्री पुरुषः सूर्य्यश्चन्द्रो गौरो रविःसितः ॥
इडा पिङ्गला सुषुम्रा च तिस्रो नाड्यः प्रकी-र्त्तिताः ।इडायाश्च प्रवाहेण सौम्यकर्म्माणि कारयेत् ॥
पिङ्गलायाः प्रवाहेण रौद्रकर्म्माणि कारयेत् ।सुषुम्नाया प्रवाहेण सिद्धिमुक्तिफलानि च ॥
* ॥
आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे ।प्रतिपत्तो दिनान्याहुः त्रीणि त्रीणि क्रमोदये ॥
सार्द्धद्विघटिका ज्ञेया शुक्ले कृष्णे शशी रविः ।वहत्येकदिनेनैव यथाषष्टिघटीक्रमात् ॥
वहेत्तावद्घटीमध्ये पञ्चतत्त्वानि निर्द्दिशेत् ।प्रतिपत्तो दिनान्याहुर्विपरीते विपर्य्ययः ॥
शुक्लपक्षे वहेद्वामा कृष्णपक्षे च दक्षिणा ।जानीयात् प्रतिपत्पूर्व्वं योगी तद्गतमानसः ॥
उदयश्चन्द्रमार्गेण सूर्य्येणास्तं गतो यदि ।ददाति गुणसंघातं विपरीते विपर्य्ययम् ॥
शशाङ्कं वारयेद्रात्रौ दिवा कार्य्यो दिवाकरः ।इत्यभ्यासरतो योगी स योगी नात्र संशयः ॥
सूर्य्येण बध्यते सूर्य्यश्चन्द्रश्चन्द्रेण बध्यते ।यो जानाति क्रियामेतां त्रैलोक्यं वशयेत्क्षणात् ॥
* ॥
गुरुशुक्रबुधेन्दूनां वासरे वामनाडिका ।सिद्धिदा सर्व्वकार्य्येषु शुक्लपक्षे विशेषतः ।अर्काङ्गारकसौरीणां वासरे दक्षनाडिका ।स्मर्त्तव्या चरकार्य्येषु कृष्णपक्षे विशेषतः ॥
एकैकस्य घटीपञ्चक्रमेणैवोदयन्ति च ।क्रमादेकैकनाड्यान्तु तत्त्वानां पृथगुद्भवः ॥
अहोरात्रस्य मध्ये तु ज्ञेया द्वादश संक्रमाः ।वृषकर्क्कटकन्यालिमृगमीने निशाकरः ॥
मेषे सिंहे च धनुषि तुलायां मिथुने घटे ।उदयो दक्षिणे ज्ञेयः शुभाशुभविनिर्णयः ॥
* ॥
तिष्ठेत् पूर्व्वोत्तरे चन्द्रः सूर्य्यो दक्षिणपश्चिमे ।वामाचारप्रवाहेण न गच्छेत् पूर्व्व उत्तरे ॥
दक्षनाडीप्रवाहे तु न गच्छेत् याम्यपश्चिमे ।परिपन्थिभयं यस्य गतोऽसौ न निवर्त्तते ॥
तस्मात्तत्र न गन्तव्यं बुधैः सर्व्वहितेप्सुभिः ।तदा तत्र तु संघातमृत्युरेव न संशयः ॥
सूर्य्योदये यदा सूर्य्यश्चन्द्रश्चन्द्रोदये यदा ।सिध्यन्ति सर्व्वकार्य्याणि दिवारात्रिगतान्यपि ॥
शुक्लपक्षे द्वितीयायामर्के वहति चन्द्रमाः ।दृश्यते लाभदः पुंसां सोमे सौख्यं प्रजायये ॥
चन्द्रकाले यदा सूर्य्यः सूर्य्यश्चन्द्रोदये भवेत् ।उद्वेगः कलहो हानिः शुभं सर्व्वं निवारयेत् ॥
* ॥
विपरीतलक्षणम् ।यदा प्रत्यूषकाले तु विपरीतोदयो भवेत् ।चन्द्रस्थाने वहत्वर्को रविस्थाने च चन्द्रमाः ॥
प्रथमे मानसीद्वेगं धनहानिं द्वितीयके ॥
तृतीये गमनं प्रोक्तमिष्टनाशं चतुर्थके ॥
पञ्चमे राज्यविध्वंसं षष्ठे सर्व्वार्थनाशनम् ।सप्तये न्याधिदुःखानि अष्टमे मृत्युमादिशेत् ॥
कालत्रये दिनान्यष्टौ विपरीतं यदा भवेत् ।तदा दुष्टफलं प्रोक्तं किञ्चिन्न्यूने तु शोभनम् ॥
प्रातर्म्मध्याह्नयोश्चन्द्रः सायंकाले दिवाकरः ।तदा नित्यं जयं लाभं विपरीतन्तु दुःखदम् ॥
दक्षिणे यदि वा वामे यत्र संक्रमते शिवः ।तत्पादमग्रतः कृत्वा निःसरेत् निजमन्दिरे ॥
चन्द्रः समपदः कार्य्यो रविस्तु विषमः सदा ।पूर्णपादं पुरस्कृत्य यात्रा भवति सिद्धिदा ॥
चन्द्रचारे चतुष्पादं पञ्चपादाश्च भास्करे ।पवन्तु गमनं श्रेष्ठं साधयेद्भुवनत्रयम् ॥
यत्राङ्गे चरते वायुस्तदङ्गस्य करस्थलम् ।सुप्तोत्थितो मुखं स्पृष्ट्वा लभते वाच्छितं फलम् ॥
परदत्ते तथा ग्राह्ये गृहान्निर्गमनेऽपि च ।यदङ्गे बहते नाडी ग्राह्यं गतिकराङ्घ्रिणा ॥
न हानिः कलहो नैव कण्टकैर्नापि भिद्यते ।निवर्त्तते सुस्त्रेनैव सर्व्वापद्भिर्व्विवर्जितः ॥
गुरुबन्धुनृपामात्या अन्यैऽपीप्सितदायिनः ।पूर्णाङ्गे खलु कर्त्तव्या कार्य्यमिद्धिमभीप्सता ।आमने शयने वापि पूर्णाङ्गविनिवेशिताः ।वशीभवन्ति कामिन्यो न कर्म्म नियमान्तरम् ॥
अरिचौराधमाद्याश्च अन्ये उत्पातविग्रहाः ।कर्त्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः ॥
दूरदेशे विधातव्यं गमनं तुहिनव्युतौ ।अभ्यर्णदेशे दीप्ते तु तरणाविदति केचन ॥
यत्किञ्चित् पूर्व्वमुद्दिष्टं लाभादिसमरागमः ।तत् सर्व्वं पूर्णनाडीषु जायते निर्व्विकल्पकम् ॥
शून्यनाड्यां रिपुं जेतुं यत् पूर्व्वं प्रतिपादितम् ।जायते नान्यथा चैव यथा सर्व्वज्ञभाषितम् ॥
रिपुं जेतुमित्यत्र विपर्य्यस्तमिति च पाठः ।व्यवहारे खलोच्चाटे द्वेषिविद्यादिवञ्चकाः ।कुपितस्वामिचौराद्याः पूर्णस्था स्युर्भयङ्काराः ॥
दूराध्वनि शुभश्चन्द्रो निर्व्विघ्नमिष्टसिद्धिदः ।प्रवेशकार्य्यहेतुः स्यात् सूर्य्यः शीघ्रं प्रशस्यते ॥
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।वामे च वामिका प्रोक्ता दक्षिणे दक्षिणास्मृता ॥
चन्द्रचारे विषं हन्ति सूर्य्यो बालावशं नयेत् ।सुषुम्नायां भवेन्मोक्ष एक एव त्रिधा स्मृतः ॥
अयोग्ये योग्यता नाडी योग्यस्थानेऽप्ययोग्यता ।कार्य्यानुबन्धतो जीवः कथं रुद्र समाचरेत् ॥
शुभाशुभानि कार्य्याणि क्रियन्तेऽहर्निशं यदा ।तदा कार्य्यानुबन्धेन कार्य्यं नाडीप्रचालनम् ॥
* ॥
अथ इडा ।स्थिरकर्म्मण्यलङ्कारे दूराध्यगमने तथा ।आश्रमे हर्म्म्यप्रासादे वस्तूनां संग्रहेपि च ॥
वापीकूपतडागादिप्रतिष्ठा स्तम्भदेवयोः ।यात्रादाने विवाहे च वस्त्रालङ्कारभूषणे ॥
शान्तिकं पौष्टिकं चैव दिव्यौषधिरसायने ।स्वस्वामिदर्शने मैत्रे बाणिज्ये धनसंग्रहे ॥
गृहप्रवेशे सेवायां कृष्यां बीजादिवापने ।शुभकर्म्मणि सन्धी च निर्गमे च शुभः शशी ॥
विद्यारम्भादिकार्य्येषु बान्धवानाञ्च दर्शने ।जलमोक्षेषु धर्म्मेषु दीक्षायां मन्त्रसाधने ॥
कालविज्ञानमूत्रेण चतुष्पादगृहागमेकलाव्याधिचिकित्सायां स्वामिसम्बोधने तथा ॥
गजाश्वारोहणे धन्वी गजाश्वानाञ्च बन्धने ।परोपकरणे चैव निधीनां स्थापने तथा ॥
गीतवाद्येऽपि नृत्ये च गीतशास्त्रविचारणे ।पुरग्रामप्रवेशे च तिलके सूत्रधारणे ॥
पुत्त्रशोके विषादे च ज्वरिते मूर्च्छितेऽपि वा ।स्वजनस्वामिसम्बन्धे धान्यादिदारुसंग्रहे ॥
स्त्रीणां दन्तादिभूषायां कृषेरागमने तथा ।गुरुपूजा विषादीनां चाननञ्च वरानने ॥
इडायां सिद्धिदं प्रोक्तं योगाभ्यासादिकर्म्म च ।तत्रापि वर्ज्जयेद्वायुं स्तेज आकाशमेव च ॥
सर्व्वमार्य्याणि सिध्यन्ति दिवारात्रिगतान्यपि ।सर्व्वेषु शुभकार्य्येषु चन्द्रचारः प्रशस्थते ॥
* ॥
अथ पिङ्गला ।कटिनक्रूरविद्यानां पठने पाठने तथा ।स्त्रीसङ्गवेश्यागमने महानौकाधिरोहणे ॥
नष्टकार्य्ये सुरापाने वीरमन्त्राद्युपासने ।बहलध्यंसदेशादिविषदानादिवैरिणि ॥
शस्त्राभ्यासे च गमने मृगयापशुविक्रये ।इष्टकाकाष्ठपाषाणरबधर्षणदारणे ॥
गत्यभ्यामे यन्त्रतन्त्रे दुर्गपर्व्वतरोहणे ।द्यते चौर्य्ये गजाश्वादिरथसाधनवाहने ॥
व्यायामे मारणोच्चाटे षट्कर्म्मादिकसाधने ।नदीजलौघतरणे भेषजे लिपिलेखने ॥
मारणं मोहनं स्तम्भं विद्वेषोच्चाटनं वशम् ।प्रेरणाकर्षणे क्षोभे दाने च क्रयविक्रये ॥
खड्गहस्ते वैरियुद्धे भोगे वा राजदर्शने ।भोज्ये स्राने व्यवहारे क्रूरे दीप्ते रविः शुभः ॥
भुक्तमात्रेण मन्दाम्नौ स्त्रीणां वश्यादिकर्म्मणि ।शयनं सूर्य्यवाहेन कर्त्तव्यन्तु सदा बुधैः ॥
क्रूराणि यानि कर्म्माणि चराणि विविधानि च ।तानि सिध्यन्ति सूर्य्येण नात्र कार्य्या विचा-रणा ॥
* ॥
अथ सुषुम्ना ।क्षणं वामे क्षण दक्षे यदा वहति मारुतः ।सुषुम्ना सा च विज्ञेया सर्व्वकार्य्यहरा स्मृता ॥
तस्यां नाड्यां स्थितो वह्निर्ज्वलन्तं कालरूपि-णम् ।विषुवन्तं विजानीयात् सर्व्वकार्य्यविनाशनम् ॥
यदानुक्रममुल्लङ्घ्य यस्य नाडीद्वयं वहेत् ।तदा तस्य विजानीयादशुभं समुपस्थितम् ॥
क्षणं वामे क्षणं दक्षे विषमं भावमादिशेत् ।विपरीतफलं ज्ञेयं ज्ञातव्यञ्च वरानने ॥
उभयोरेव सञ्चारे विषुवन्तं समादिशेत् ।न कुर्य्यात् क्रूरसौम्यानि तत्सर्व्वं निष्फलं भवेत् ॥
जीविते मरणे प्रश्ने लाभालाभौ जयाजयौ ।विषुवे वैपरीत्यं स्यात् संस्मरेज्जगदीश्वरम् ॥
ईश्वरस्मरणं कार्य्यं योगाभ्यासादिकर्म्मसु ।अन्यत्तत्र न कर्त्तव्यं जयलाभसुखार्थिभिः ॥
सूर्य्येण वहमानायां सुषुम्नायां मुहुर्म्महुःशापं दद्यात् वरं दद्यात् सर्व्वथा च तदन्यथा ॥
नाडीसंक्रमणे काले तत्त्वसंक्रमणे तथा ।शुभं किञ्चिन्न कर्त्तव्यं पुण्यदानादि कोटिधा ॥
विषमस्योदये यात्रां मनसापि न चिन्तयेत् ।यात्रा हानिकरी तस्य मृत्युः क्लेशो न संशयः ॥
पुरो वामोर्द्ध्वतश्चन्द्रो दक्षाधः पृष्ठतो रविः ।पूर्णरिक्तविवेकोऽयं ज्ञातव्यो देशिकैः सदा ॥
ऊर्द्ध्ववामाग्रतो दूतो ज्ञेयो वामपथि स्थितः ।पृष्ठे दक्षे तथाधस्तात् सूर्य्यवाहगतः शुभः ॥
अनादिविषमं सन्धिं निराधारं निराकुलम् ।परे सूक्ष्मे विलीयेत सा सन्ध्या सन्धिरुच्यते ॥
न सन्ध्यां सन्धिमित्याहुः सन्ध्या सन्धिर्निगद्यते ।विषुवत् सन्धिगः प्राणः सा सन्ध्या सन्धिरुच्यत्रे ॥
न वेदं वेदमित्याहुर्व्वेदे वेदो न विद्यते ।परात्मा विद्यते येन स वेदो वेद उच्यते ॥
”इति नाडीभेदः समाप्तः ॥
* ॥
अथ तत्त्वनिर्णयः ।देव्युवाच ।“देवदेव महादेव संसारार्णवतारक ।स्थितं त्वदीयहृदये रहस्यं वद मे प्रभो ॥
ईश्वर उवाच ।स्वरज्ञानं रहस्यं तु न किञ्चिदिष्टदेवता ।स्वरज्ञानरतो योगी स योगी परमो मतः ॥
एञ्चतत्त्वात भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते ।पञ्चतत्त्वं परं तत्त्वं तत्त्वातीतं निरञ्जनम् ॥
तत्त्वानां नाम विज्ञेयं सिद्धियोगेन योगिनाम् ।भूतानां दुष्टचिह्नानि जानन्ति हि स्वरोत्तमाः ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।पञ्चभूतात्मकं सर्व्वं यो जानाति स पूजितः ॥
सर्व्वलोकेषु जीवानां न देहे भिन्नतत्त्वकम् ।भूर्लोकात् सत्यपर्य्यन्तं नाडीभेदः पृथक् पृथक् ॥
वामे वा दक्षिणे वापि उदयाः पञ्च कीर्त्तिताः ।अष्टधा तत्त्वविज्ञानं शृणु वक्ष्यामि सुन्दरि ।प्रथमे तत्त्वसंख्यायां द्वितीये श्वाससन्धिषु ।तृतीये स्वरचिह्णानि चतुर्थे स्थानमेव च ॥
पञ्चमे तस्य वर्णश्च षष्ठे तु प्राणमेव च ।सप्तमे स्वादुसंयुक्तमष्टमे गतिलक्षणम् ॥
एवमष्टविधं प्राणं विषुवन्तं चराचरम् ।स्वरात् परतरं देवि नान्यथा त्वम्वुजासने ।निरीक्षितव्यं यत्नेन यदा प्रत्यूषकालतः ।कालस्य वञ्चनार्थाय कर्म्म कुर्व्वन्ति योगिनः ॥
श्रुत्योरङ्गुष्ठकौ मध्याङ्गुल्यौ नासापुष्टद्वये ।वदनप्रान्तयोरन्ते तर्ज्जन्यौ तु दृगन्तयोः ॥
अस्यान्तरं पार्थिवादितत्त्वज्ञानं भरेत् क्रमात् ।पीतश्वेतारुणश्यामैर्बिन्दूभिर्निरुंपाधि खन् ॥
दर्पणेन ममालोक्य श्वामं तत्र विनिक्षिपेत् ।आकारैस्तु विजानीयात् तत्त्वभेदं विचक्षणः ॥
चतुरस्रं चार्द्धचन्द्रं त्रिकोणं वर्त्तुलं स्मृतम् ।बिन्दूभिस्तु नभो ज्ञेयमाकारैस्तत्त्वलक्षणम् ॥
मध्ये पृथ्वी ह्यवश्चापश्चार्धं वहति चानलः ।तिर्य्यग् वाय्प्रचारश्च नभा वहति संकमे ॥
* ॥
माहेयं मधुरं स्वादु कपायं जलमेव च ।तिक्तं तेजश्च वायुम्लं आकाश कटुकं तथा ॥
अष्टाङ्गुलं वहेद्वायुरनलश्चतुरङ्गुलम् ।द्वादशाङ्गुलमाहेयं षोडशाङ्गुलवारुणम् ॥
आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः ॥
मारुतो नीलजीमूत आकाशं भूमिवर्णकम् ॥
* ॥
स्कन्धदेशे स्थितो वह्निः नाभिमूले प्रभञ्चनः ।जानुदेशे महीतोयं पादान्ते मस्तके नभः ॥
ऊर्द्ध्वं मृत्युरधः शान्तिस्तिर्य्यगुच्चाटनं तथा ।मध्ये स्तम्भं विजानीयात् नभः सर्व्वत्र मध्यगम् ॥
पृथिव्यां स्थिरकर्म्माणि चरकर्म्माणि वारुणे ।तेजसा समकार्य्याणि मारणोच्चाटनेऽनिले ॥
ष्योम्नि किञ्चिन्न कर्त्तव्यमभ्यसेत् योगसेवया ।शून्यता सर्व्वकार्य्येषु नात्र कार्य्या विचारणा ॥
*पृथ्वीजलाभ्यां सिद्धिः स्यात् मृत्युर्व्वह्नौ क्षयो-ऽनिले ।नभसि निप्फलं सर्व्वं ज्ञातव्यं तत्त्ववेदिभिः ॥
चिरलाभः क्षितौ ज्ञेयस्तत्क्षणात्तोयतत्त्वतः ।हानिः स्याद्वह्निवाताभ्यां नभसो निष्फलंभवेत् ॥
पीतः शनैर्मध्यवाही शृणुयाच्च गुरुध्वनिम् ।कवीष्णः पार्थिवो वायुः स्थिरकार्य्यप्रसाधकः ॥
अधोवाहो गुरुध्वानः शीघ्रगः शीतलः शितः ।वः षोडशाङ्गुलो वायुः स प्रायः शुभकर्म्मकृत् ॥
आवर्त्तगश्चात्युष्णश्च शोणाभश्चतुरङ्गुलः ।ऊर्द्ध्ववाही तु यः क्रूरः कर्म्मकारी स तैजसः ॥
उष्णशीतः कृष्णवर्णस्तिर्य्यग्गामी षडङ्गुलः ।वायुः पवनसंज्ञो यः चरकर्म्मसु सिद्धिदः ॥
यः समीरः समरसः सर्व्वतत्त्वगुणावहः ।अम्वरं तं विजानीयात् योगिनां योगदायकम् ।षीतञ्चैव चतुष्कोणं मधुरं मध्यमाश्रयम् ।भोगदं पार्थिवं तत्त्वं प्रवाहे द्वादशाङ्गुलम् ॥
श्वेतमर्द्धेन्दुसङ्काशं स्वादु काषायमादकम् ।लाभकृद्वारुणं तत्त्वं प्रवाहे षोडशाङ्गुलम् ॥
रक्तं त्रिकोणं तिक्तं स्यात् ऊर्द्ध्वमार्गप्रवाहकम् ।दीप्तञ्च तैजसं तत्त्वं प्रवाहे चतुरङ्गुलम् ॥
नीलवत्तलसङ्काशं स्वाद्वम्लं तिर्य्यगाश्रितम् ।चपलं मारुतं तत्त्वं प्रवाहेऽष्टाङ्गुलं स्मृतम् ॥
वर्णाकारं स्वादुवाहं अव्यक्तं मर्व्वगामि च ।मोक्षदं व्योमतत्त्वं हि सर्व्वकार्य्येषु निष्फलम् ॥
पृथ्वीजले शुभे तत्त्वे तेजोमिश्रफलोदये ।हानिमृत्युकरौ पुंसामशुभौ व्योममारुतौ ॥
अप्पूर्व्वा पश्चिसे पृथ्वी तेजश्च दक्षिणे तथा ।वायुरुत्तरदिग्भागे मध्यकोणे गतं नभः ॥
चिरलाभः क्षितौ ज्ञेयस्तत्क्षणात्तोयतत्त्वतः ।हानिः स्याद्वह्निवाताभ्यां नभस्यालिङ्गनंलभेत् ।चन्द्रे पृथ्वीजले स्यातां सूर्य्येचाग्निर्यदा भवेत् ।तदा सिद्दिर्न मन्देहः सौम्यामौम्यपु कर्म्मसु ॥
लाभः पृथ्वीकृतो वह्निर्निशायां लाभकृज्जलम् ।वह्नौ मृत्युः क्षतिर्यायौ नभःस्थानं दहेत् क्वचित् ॥
जावितष्ये जये लाभे कृप्याञ्च धनकर्पणे ।मन्त्रार्थे युद्धपश्ने च गमनागमने तथा ॥
आयाति वारुणे तत्त्वे तत्रस्थोऽपि शुभं क्षितौ ।प्रयाति वायुतोऽन्यत्र हानिर्म्मृत्युर्नभेऽनले ॥
* ॥
पृथिव्यां मूलचिन्ता स्यात् जीवस्य जलवातयोः ।तेजमा धातुचिन्तां स्यात् शून्यमाकाशतो वदेत् ॥
पृथिव्यां बहुपादाः स्युर्द्विपदास्तोयवायुतः ।तेजमा च चतुष्पादा नभमा पादवर्ज्जिताः ॥
कुजो वह्नी रविः पृथ्वी मौरिरापः प्रकीर्त्तिताः ।वायुस्थानस्थितो राहुर्दक्षरन्ध्रप्रवाहकः ॥
जलं चन्द्री वुधः पृथ्वी गुरुर्वातः सितोऽनलः ।वामनाड्यां स्थिताः सर्व्वे सर्व्वकार्य्येषु निश्चिताः ॥
प्रवासिपश्रः ।“चन्द्रादित्यौ परित्यज्य यदा राहुगतोऽनिलः ।तदासौ चलितो ज्ञेयः स्थानान्तरमपेक्षते ॥
आयाति वारुणे तत्त्वे तत्रैवास्ति शुभं क्षितौ ।प्रवामी पवनेऽन्यत्र मृत्युरेवानले वदेत् ॥
पृथ्वोतो मूलविज्ञानं जीवज्ञानं जले तथा ।आग्नेय्यां धातुविज्ञानं व्योम्निशून्यं विनिर्द्दिशेत् ।तुष्टिपुष्टिरतिक्रोडा जयो हास्यं धरातले ।तेजो बायुश्च सुप्ताक्षः ज्वरकम्पप्रवासिनः ॥
गतायुर्म्मृत्युराकाशे चन्द्रावस्थाः प्रकीर्त्तिताः ।द्वादशैता प्रयत्नेन ज्ञातव्या देशिकोत्तमैः ॥
पूर्व्वायां पश्चिमे याम्ये उत्तरायां यथाक्रमम् ।पृथिव्यादीनि भूतानि बलिष्ठानि विनिर्द्दिशेत् ॥
*पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।पञ्चभूतात्मकं देहं ज्ञातव्यञ्च वरानने ॥
अस्थि मांसं त्वचा नाडी रोम चैव तु पञ्च-मम् ।पृथ्वी पञ्चगुणोपेता ब्रह्मज्ञानेन भाषितम् ॥
शुक्रशोणितमज्जा च लालामूत्रञ्च पञ्चमम् ।आपः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
क्षुधा तृष्णा तथा निद्रा श्रान्तिरालस्यमेव च ।तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
धारणं चालनं गन्धं सङ्कोचनप्रसारणे ।वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषिताः ॥
रागद्वेषौ तथा लज्जा भयं मोहश्च पञ्चमः ।नभःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
* ॥
पृथिवीपलपञ्चाशत् चत्वारिशदपस्तथा ।तेजस्त्रिंशद्विजानीयाद्वायोर्विंशतिर्द्विर्नभः ॥
पार्थिवे चिरकालेन लाभश्चापे क्षणात् भवेत् ।जायते पवनात् स्वल्पः सिद्धोऽप्यग्नौ विनश्यति ॥
वह्निवायुकृते प्रश्न लाभालाभं वदेद्बुधः ।परतो वारुणे लाभः स्थिरेण च पुरन्दरे ॥
ज्ञातव्यं जीवने शून्यं सिद्धो व्योम्नि विनश्यति ॥
वृथ्वी पञ्च अपां वेदाः गुणास्तेजो द्विवायुतः ।नभ एकगुणञ्चैव तत्त्वज्ञानमिदं भवेत् ॥
फुत्कारकृत् प्रस्फुटिता विदीर्णा पतिताधरा ।ददाति सर्व्वकार्य्येषु अवस्थासदृशं फलम् ॥
* ॥
भरणी कृत्तिका पुष्या मघा पूर्व्वा च फल्गुनी ।पूर्व्वभाद्रपदः स्वातिः तेजस्तत्त्वमिति प्रिये ॥
विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्व्वसः ।अश्विनी मृनशीर्षा च वायुतत्त्वमुदाहृतम् ॥
पूर्व्वाषाढा तथाश्लेषा मूलमार्द्रा च रोहिणी ।उत्तरभाद्रप्रदा तोयतत्त्वं शतभिषा प्रिये ॥
धनिष्ठा रोहिणी ज्येष्ठानुराधा श्रवणा तथा ।अभिजिच्चोत्तराषाढा पृथ्वीतत्त्वमुदाहृतम् ॥
वहन्नाडीस्यितो दूती यत् पृच्छति शुभाशुभम् ।तत् सर्व्वं मद्धिमायाति शून्ये शून्यं न संशयः ॥
तत्त्व रामो अयं प्राप्तः मुतत्त्वे च धनञ्जयः ।कौरवा निहताः सर्व्वे युद्धे तत्त्वविपर्य्यये ॥
जन्मान्तरीयसंस्कारात् प्रसादादथवा गुरोः ।केपाञ्चिज्जायते तत्त्वे वासना विमलात्मनाम् ॥
”अथ पञ्चतत्त्वध्यानम् ।“लं वीजं धरणीं ध्यायत् चतुरस्रा सुपीतभाम् ।सुगन्धं स्वर्णवर्णत्वमारोग्यं देहलाघवम् ॥
व बीज वारुणं ध्यायेदर्द्धचन्द्रं शशिप्रभम् ।क्षुत्पिपामासहिष्णुत्वं जलमध्येषु मज्जनम् ॥
रं बीजं शिखिनं ध्यायेत् त्रिकोणमहणप्रभम् ।वह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता ॥
यं बीज पवनं ध्यायेद्वर्त्तुलं श्यागलप्रभम् ।आकाशगमनाद्यञ्च पक्षिवद्गमनं तथा ॥
हं बीजं गगनं ध्यायेत् निराकारं बहुप्रभम् ।ज्ञानं त्रिकालविषयमैश्वर्य्यमणिमादिकम् ॥
स्वरज्ञानी नरो यत्र धनं नास्ति ततः परम् ।स्वरज्ञानेन गमयेत् अनायासफलं भवेत् ॥
सर्व्वञ्च घनमधनं सर्व्वाधिकारसंयुतम् ।लक्षैकेन न सिध्यन्ति तत्त्वहीना यदा नराः ॥
स्नातं तेन समस्ततोर्थसलिलैः स्वर्व्यापिशक्रावनि-र्यज्ञानाञ्च कृतं हि कार्य्यमखिलं देवाश्चसन्तर्पिताः ।संसाराच्च समुद्धृताः स्वपितरः त्रैलक्यःपूज्योऽप्यसौयस्य ब्रह्मविचारणे क्षणमपि स्थैर्य्यं मनःप्राप्नुयात्”इति तत्त्वज्ञानं संपूर्णम् ॥
अथ युद्धप्रकरणम् ।देव्युवाच ।“देवदेव महादेव महाज्ञानं स्वरोदयम् ।त्रिकालविषयज्ञानं कथं भवति शङ्करः ॥
ईश्वर उवाच ।अर्थकाण्डं जयप्रश्नं शुभाशुभमिति त्रिधा ।पतत् त्रिकालविज्ञानं नान्यद्भवति सुन्दरि ॥
तत्त्वे शुभाशुभं कार्य्यं तत्त्वे जयपराजयौ ।तत्त्वे समर्घमाहार्घ्यं तत्त्वे त्रिपदमुच्यते ॥
श्रीदेव्युवाच ।देवदेव महादेव मर्व्वसंमारतारक ।किं नराणां परं मित्रं सर्व्व कार्य्यार्थसाधकम् ॥
शिव उवाच ।पाण एव परं मित्रं प्राण एव परः सखा ।प्राणतुल्यः परो बन्धुर्नास्त्रि नास्ति वरानने ॥
देव्युवाच ।कथं प्राणस्थितो वायुर्देहे किं प्राणरूपकम् ।तत्त्वेषु सञ्चरेत् प्राणा ज्ञायते योगिभिः कथम् ॥
शिव उवाच ।कायानगरमध्ये तु मारुतः क्षितिपालकः ।भोजने वञ्चने चैव गतिरष्टादशाङ्गुला ॥
प्रवेशे दशभिः प्रोक्तो निर्गभे द्वादशाङ्गलः ।प्राणस्थे तु गतिर्देवि स्वभावाद्द्वादशाङ्गुला ॥
गमने च चतुर्व्विंशा नेत्रवेदास्तु धावने ।मैथुने पञ्चषष्टिश्च शयने च शताङ्गुला ॥
एकाङ्गुलकृते न्यूने प्राणे निष्कामता मता ।आनन्दस्तु द्वितीये स्यात् कविशक्तिस्तृती-यके ॥
वाचासिद्धिश्चतुर्थे तु दूरदृष्टिस्तु पञ्चमे ।षष्ठे त्वाकाशगमनं चण्डवेगश्च सप्तमे ॥
अष्टमे सिद्धयश्चाष्टी नवमे निधयो नव ।दशमे दशमूर्त्तिश्च क्षयनाशो दशैकके ॥
द्वादशे हंसचारश्च गङ्गामृतरमं पिबेत् ।आनखाग्रे प्राणपूर्णे कस्य भक्ष्यञ्च भोजनम् ॥
एवं प्राणविधिः प्रोक्तः सर्व्वकार्य्यफलप्रदः ।ज्ञायते गुरुवाक्येन न विद्याशास्त्रकोटिभिः ॥
* ॥
प्रातश्चन्द्रो रविः सायं यदि दैवान्न लभ्यते ।मध्याह्नान्मध्यरात्राद्वा परतस्तु प्रवर्त्तते ॥
दरयुद्धे जयी चन्द्रः समीपे च दिवाकरः ।वहन्नाड्यां गतः पादे सर्व्वसिद्धिः प्रजायते ॥
यात्रारम्भे विवाहे च प्रयेशे नगरादिके ।शुभकार्य्येषु सर्व्वेषु चन्द्रचारः प्रशस्यते ॥
अयनतिथिदिनेशः स्वोयतत्त्वेन युक्तोयदि वहति कथञ्चित् दैवयोगेन पुंसाम् ।स जयति रिपुसैन्यं स्तम्भमात्रस्वरेणप्रभवति न च विघ्नः केशवस्यापि लोके ॥
जीवलक्षं जीवरक्षां जीवाङ्गे परिधाय च ।जीवो व्रजति यो युद्धे जीवो जयति मेदिनीम् ॥
भूमौ जले च कर्त्तव्यं गमनं शान्तिकर्म्मसु ।वह्नौ वायौ प्रदीप्ते तु खे पुनर्न भवत्यपि ॥
जीवेन शस्त्रं बध्नीयात् जीवेनैव विकाशयेत् ।जीवेन प्रक्षिपेत् शस्त्रं युद्धे जयति सर्व्वथा ॥
आक्रम्य प्राणपवनं समारोहेत वाहनम् ।समुत्तरेत् पदं दत्त्वा सर्व्वकार्य्याणि साधयेत् ।अपूर्णशत्रुमामग्रीं पूर्णं वा स्ववलं यदा ।कुरुते पूर्णतत्त्वस्थो जयत्येको वसुन्धराम् ॥
यन्नाडो वहते चाङ्गे तस्यामेवाधिदेवता ।सम्मुखापि दिशा तेषां सर्व्वकार्व्यफलप्रदा ॥
आदौ तु क्रियते मुद्रा पश्चाद्युद्धं समाचरेत् ।सर्व्वा मुद्रा कृता येन तेषां मिर्द्धिर्न संशयः ॥
चन्द्रप्रवाहेऽप्यथ सूर्य्यवाहेभटाः समायान्ति च युद्धकामाः ।समोरणस्तत्त्वविदा प्रयातोया शून्यता सा प्रतिकूलदृष्टा ॥
यद्दिशं वहते वायुर्युद्धं तद्दिशि दापयेत् ।जयत्येव न सन्देहः शक्रोऽपि यदि वाग्रतः ॥
यत्र नाड्यां वहेद्वायुस्तदन्तः प्राणमेव च ।आकृष्य गच्छेत् कर्णान्त जयत्येव पुरन्दरम् ॥
प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गं योऽभिरक्षति ।न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥
अङ्गुष्ठतर्ज्जनीवश्ये पादाङ्गुष्ठस्तथाध्वनि ।युद्धकाले च कर्त्तव्यं लक्षयोद्धा जयी भवेत् ॥
निशाकरे रवौ चारे मध्ये यस्य समीरणः ।स्थितो रक्षेत् दिगन्तानि जयाकाङ्क्षी नरःसदा ॥
श्वासप्रवेशकालेषु दूतो जल्पति वाञ्छितम् ।तस्यार्थाः सिद्धिमायान्ति निर्गमे नैव सुन्दरि ॥
लाभादीन्यपि कार्य्याणि पृष्टानि कीर्त्तितानि चजीवे विशति सिध्यन्ति हानिर्निःसरणे भवेत् ॥
नरि दक्षा स्वकीया च स्त्रियां वामा प्रशस्यते ।कुम्भकं युद्धकाले च तिस्रो नाड्यश्च या गतिः ॥
हकारस्य सकारस्य विना भेदं स्वरः कथम् ।सोऽहं हंसपदेनैब जीवो जपति सर्व्वदा ॥
शून्याङ्गं पूरितं कृत्वा जीवाङ्गं गोपयेद् यदि ।जीवाङ्गे घातमाप्नोति शून्याङ्गं रक्षते सदा ॥
वामे वाप्यथवा दक्षे यदि पृच्छति पृच्छकः ।तत्र घातो न जायेत शून्ये घातं विनिर्द्दिशेत् ॥
भूतत्त्वेनोदरे घातः पादस्थानेऽम्बुना भवेत् ।उरःस्थानेऽग्नितत्त्वेन करस्थाने च वायुना ॥
शिरसि व्योमतत्त्वेन कृत आघातनिर्णयः ।एवं पञ्चविधो घातः स्वरशास्त्रे प्रकाशितः ॥
युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम् ।यदा सूर्य्यप्रवाहस्तु वादी विजयते तथा ॥
जयमध्ये तु सन्देहो नाडीमध्ये तु लक्षयेत् ।सषुम्नायां गतः प्राणं समरे शत्रुसङ्कटे ॥
यस्यां नाड्यां भवेच्चारस्तादृशं युडमाश्नयेत् ।तेनासौ जयमाप्नोति नात्र कार्य्या विचारणा ॥
यदि संग्रामकाले तु वामनाड्यां सदा वहेत् ।स्थायिनो विजयं बिन्द्यात् रिपुवश्यादयोऽपि च ॥
यदि संग्रामकाले तु सूर्य्यस्तु व्यावृतो वसेत् ।तदा जयी जयं बिन्द्यात् स देवासुरमानवात् ॥
रणे हरति शक्रस्थं वामायां प्रविशेन्नरः ।स्थानं द्विधावचाराभ्यां जयं सूर्य्येण धावति ॥
योधद्वयकृते प्रश्ने पूर्णस्य प्रथमो जयः ।रिक्ते चैव द्वितीयस्तु जयी भवात नान्यथा ॥
पूर्णनाडोगतः पृष्ठ शून्याङ्गञ्च तदग्रतः ।शून्यस्थाने कृतः शत्रुर्म्रियते नात्र संशयः ॥
वामचारे समं नाम यस्य तस्य जयो भवेत् ।पृच्छको दक्षिणे भागे विजयी विषमाक्षरः ॥
यदा पृच्छति चन्द्रस्थस्तदा सन्धानमादिशेत् ।पृच्छेद्यदा च सूर्य्यस्थस्तदा जानीहि विग्रहम् ॥
पार्थिवे च समं युद्धं सिद्धिर्भवति वारुणे ।वह्नौ युद्धे जयस्तस्य मृत्युर्वायौ च नाभसे ॥
नैमित्तिकप्रमादाद्वा यदा न ज्ञायतेऽनिलः ।प्रश्नकाले तदा कुर्य्यात् द्वन्द्वं यत्नेन बुद्धिमान् ॥
निश्चलां धारणां कृत्वा पुष्पं हस्तात् निपातयेत् ।पूर्णाङ्गे पुष्पपतनं शून्ये वा तत्फलं वदेत् ॥
तिष्ठन्नुपविशन् वापि प्राणमाकर्षयेन्निजम् ।मनीभङ्गमकुर्व्वाणः सर्व्वकार्य्येषु पूजितः ॥
न कालो विविधं घोरं न शस्त्रं न च पन्नगाः ।न शत्रुव्याधिचौराद्याः शून्यस्थं नाशितुं क्षमाः ॥
जीवेन स्थापयेद्वायुं जीवेनारम्भयेत् पुनः ।जीवेन क्रीडते नित्यं द्यूतं जयति सर्व्वदा ॥
कथञ्चिद्विजयी युद्धे स्वरज्ञानं विना नृपः ।स्वरज्ञानवलादग्रे निष्फलं कोटिधा भवेत् ।इह लाके परत्रैव स्वरज्ञानी बली सदा ॥
दशशतायुतं लक्षं देशाधिपबलं क्वचित् ।शतक्रतुसुरन्द्राणां बलं कोटिगुणं भवेत् ॥
ओँकारः सर्व्ववर्णानां ब्रह्माण्डे भास्करो यथा ।मर्त्यलोके तया पूज्यः स्वरज्ञानी पुमानपि ॥
एकाक्षरप्रदातारं नाडीभेदनिवेदकम् ।पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥
देव्युवाच ।परस्परं मनुष्याणां युद्धे प्रोक्तो जयस्तथा ।यमयुद्धे समुत्पन्ने मनुष्याणां कथं जयः ॥
ईश्वर उवाच ।ध्यायेद्देवं स्थिरे जीवे जुहुयात् जीवसङ्गमे ।इष्टसिद्धिर्भवेत्तस्य महालाभो जयो भवेत् ॥
निराकारात् समुत्पन्नं साकारं सकलं जगत् ।तत् साकारं निराकारे ज्ञाने भवति तन्मयम् ॥
”इति युद्धप्रकरणम् ॥
श्रीदेव्युवाच ।“नरयुद्धं यमयुद्धं द्वयं प्रोक्तं महेश्वर ।इदानीं देवदेवीनां वशीकरणकं वद ॥
ईश्वर उवाच ।चन्द्रं सूर्य्येण चाकृष्य स्थापयेज्जीवमण्डले ।आजन्मवशगा वामा कथितोऽयं तपोधनैः ॥
जीवेन गृह्यते जीवो जीवो जीवस्य दीयते ॥
जीवस्थाने गतो जीवो वालाजीवान्तवश्यकृत् ।चन्द्रं पिबति सूर्य्येण सूर्य्यं पिबति चन्द्रतः ।अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् ॥
पतज्जानाति यो योगी एतत् पठति नित्यशः ।सर्व्वदुःखविनिर्म्मुक्तो लभते वाञ्छितं फलम् ॥
सेफोऽङ्गे वहते नाडी तन्नाडीबोधनं कुरु ।करे बद्धा स्वमुष्कञ्च जरणं जयते युवा ॥
उभयोः कुम्भकं कत्वा मुखे श्वामं निपीयते ।निश्चला च यदा नाडी देवकन्यावशं कुरु ॥
रात्रौ च यामवेलायां प्रसुप्ते कामिनीजने ।ब्रह्मबीजं पिबेद् यस्तु बालाजीवहरो नरः ॥
इति देवीवश्यप्रकरणम् ॥
* ॥
अष्टाक्षरं जपित्वा तु तस्मिन् काले ऋतौ सति ।तत्क्षणं दीयते चन्द्रो मोहमायाति कामिनी ॥
शयने वा प्रसङ्गे वा चुम्बनालिङ्गनेऽपि वा ।यः सूर्य्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः ॥
शिवमालिङ्गते शक्त्या प्रमङ्गे दक्षिणेऽपि वा ।तत्क्षणाद्दापयेद्यस्तु मोहयेत् कामिनीशतम् ॥
सप्तनवत्रयपञ्चवारान् सङ्गांस्तु सूर्य्यगे ।चन्द्रे द्वितूर्यषट् कृत्वा वश्या भवति कामिनी ॥
मूर्य्यचन्द्रौ समाकृष्य सर्पाक्रान्त्याधरोष्ठयोः ।महापद्मे मकं स्पृष्टा वारं वारमिदं चरेत् ।आघाणपेति पद्मस्य यादन्निदावशं गता ।पश्चाज्जाग्रनि वेलायां चोष्यते गलचक्षुषो ॥
अनेन विधिना कामी वगयेत् मर्व्वकामिनीम् ।इदं न वाच्यमन्यस्मिन्नि आज्ञा परमेश्वरि ॥
इति रतिस्त्रीवश्यप्रकरणम् ॥
* ॥
अथ गर्भप्रकरणम् ।ऋतुकालभवा नारी पञ्चमेऽह्नि यदा भवेत् ।सूर्य्याचन्द्रमसोर्योगे सेवनात् पुत्त्रसम्भवः ॥
शङ्खवल्ली गवां दुग्धं पृथ्व्यापी वहते यदा ।भर्त्ताग्रे वदेद्वाक्यं अर्घ्यं देहि त्रिभिर्व्वचः ॥
ऋतुस्नाता पिबेन्नारी ऋतुदानञ्च योजयेत् ।रूपनावण्यसम्पन्नो नरसिंहः प्रसूयते ॥
सुषुम्ना सूर्य्यगन्धेन ऋतुदानञ्च योजयेत् ।अङ्गहीनः पुमान् यस्तु जायते कृशविग्रहः ॥
विषमाङ्के दिवा रात्री विषमाङ्के दिनाधिपः ।चन्द्रनेत्राग्नितत्त्वेषु बन्ध्या पुत्त्रमवाप्नुयात् ॥
रतारम्भे रविः पुंसां सुरतान्ते सुधाकरः ।अनेन क्रमयोगेन नादत्ते दैवदण्डकः ।रतारम्भे रविः पुंसां स्त्रियाञ्चैव सुधाकरः ।उभयोः सङ्गमे प्राप्ते बन्ध्या पुत्त्रमवाप्नुयात् ॥
चन्द्रनाडी वहेत् प्रश्ने गर्भे कन्या तदा भवेत् ।सूर्य्ये भवेत्तदा पुत्त्रो शून्ये गर्भो निहन्यते ॥
चन्द्रे स्त्री पुरुषः सूर्य्ये मध्यमार्गे नपुंसकः ।गर्भप्रश्ने यदा दूतः तदा पुत्त्रः प्रजायते ॥
पृथ्व्यां पुत्त्री जले पुत्त्रः कन्यका तु प्रभञ्जने ।तेजसा गर्भपातः स्यात् नभस्यपि नपुंसकम् ॥
शून्ये शून्यं युगे युग्मं गर्भपातस्तु संक्रमे ।सूर्य्यभागे कृते पुत्त्रश्चन्द्रचारे तु कन्यका ॥
विषुवे गर्भपातः स्यात् भावी वाथ नपुंसकः ।तत्त्वे वित्तं विजानाति कथितं तत्र सुन्दरि ॥
गर्भाधानं मारुते स्याच्च दुःखीदिशाख्यातो वारुणे सौख्ययुक्तः ।गर्भस्रावी स्वल्पजीवो च वह्नौभोगी भव्यः पार्थिवेनार्थयुक्तः ॥
धनवान् मौख्यसंयुक्तो भोगवान् गर्भसंस्थितः ।स्यान्नित्यं वारुणे तत्त्वे व्योम्नि गर्भं निहन्यते ॥
माहेयेषु सुतोत्पत्तिर्व्वारुणे दुहिता भवेत् ।शेषेषु गर्भहानिः स्यात् जातमात्रस्य वा मृतिः ।रविमध्यगतश्चन्द्रश्चन्द्रमध्यगतो रविः ।ज्ञातव्यं गुरुतः शोघ्रं न विद्याशास्त्रकोटिभिः ॥
इति गर्भप्रकरणम् ॥
* ॥
अथ संवत्सरप्रकरणम् ।चैत्रशुक्लप्रतिपदि प्रातस्तत्त्वविभेदतः ।पश्येद्विचक्षणो योगी दक्षिणे चोत्तरायणे ॥
चन्द्रस्योदयवेलायां वहमानोऽथ तत्त्वतः ।पृथिव्यापस्तथा वायुः सुभिक्षं सर्व्वशस्यजम् ॥
तेजो व्योम्नि भय घोरं दुर्भिक्षं कालतत्त्वतः ।एवं तत्त्वफलं ज्ञेयं वर्षे मासे दिने तथा ॥
पृथिव्यादिकतत्त्वेन दिनमासाब्दजं फलम् ।शोभनञ्च तथा दुष्टं व्योममारुतवह्निभिः ॥
मध्यमा भवति क्रूरा दुष्टा च सर्व्वकर्म्मसु ।देशभङ्गमहारागक्लेशकष्टादिदुःखदा ॥
मेषमंक्रान्तिदिवमे स्वग्भेदं विचारयेत् ।सम्बत्सरफलं ब्रूयात् लोकानां तत्त्वचिन्तकः ॥
सुभिक्षं राष्ट्रवृद्धिः स्यात् बहुशस्या वसुन्धरा ।बहुवृष्टिस्तथा सौख्यं पृथ्वीतत्त्वं बहेद्यदि ॥
अतिवृष्टिः सुभिक्षं स्यादाबोग्यं सौख्यमेव च ।बहुशस्या तथा पृथ्वी जलतत्त्वं बहेद्यदि ॥
दुर्भिक्षं राष्ट्रभङ्गः स्याद्रोगोत्पत्तिस्तु दारुणा ।अल्पादल्पतरा वृष्टिरग्नितत्त्वं वहेद्यदि ॥
उत्पातोपद्रवा भीतिरल्पवृष्टिः स्युरीतयः ।मेषसंक्रान्तिवेलायां वायुतत्त्वं वहेद्यदि ॥
उद्गारतापज्वरा भीतिरल्पा वृष्ठिः क्षितौभवेत् ।मेषसंक्रान्तिवेलायां व्योमतत्त्वं वहेद्यदि ॥
तत्रापि शून्यता ज्ञेया शस्यादीनां सुखस्य च ।पूर्णे प्रवेशने श्वासे स्वस्वतत्त्वेन सिद्धिदः ॥
सूर्य्ये चन्द्रेऽन्यथाभूते संग्रहः सर्व्वसिद्धिदः ।विषमे वह्नितत्त्वस्य ज्ञायते केवलं नभः ॥
तत् कुर्य्याद्वस्तु संग्राह्यं द्विमासे च महार्घता ।स्वरज्ञानं शिवः पश्येल्लक्ष्मीपतिस्तथा भवेत् ॥
एकत्र शरीरं यस्य सुखं तस्य सदा भवेत् ।नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च ॥
नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ।रवौ संक्रमणे नाडी गलान्ते च प्रवर्त्तते ॥
सलिले वह्नियोगेऽपि रौरवं जगतीतले ।इति संवत्ररफलम् ॥
* ॥
अथ रोगप्रकरणम् ।महीतत्त्वे स्वरोगञ्च जले च जलमातरः ।रवौ चारे तेजस्तत्त्वे वायुतत्त्वे च शाकिनी ॥
शून्यतत्त्वेन रोगश्च पित्तदोषसमुद्भवः ।दानपुण्यं द्विजातीनां पिण्डश्राद्धं विधीयते ॥
आदौ शून्यगतं पृच्छेत् पश्चात् पूर्णो विशेद्यदि ।मूर्च्छितोऽपि ध्रुवं जीवेत् यदर्थं परिपृच्छति ॥
चन्द्रस्थाने स्थितो जीवः सूर्य्यस्थाने च पृच्छति ।तदा प्राणविनिर्म्मक्तो यदि वैद्यशतैर्वृतः ॥
पिङ्गलायां स्थितो जीवो वामे दूतश्च पृच्छति ।तदापि म्रियते रोगी यदि त्राता महेश्वरः ॥
दक्षिणेन यदा वायुर्द्दखं रौद्राक्षरं वदेत् ।तदा जीवति जीवोऽसौ चन्द्रे समफलं भवेत् ॥
जीवाकारञ्च वा धृत्वा जीवाकारं विलोकयन् ॥
जीवस्थो जीवितं पृच्छेत्तस्माज्जीवन्ति तेध्रुवम् ॥
प्रश्ने वाधः स्थितो जीवस्तदा जीवो हि जीवति ।ऊर्द्ध्वचारगतो जीवो याति जीवो यमालयम् ॥
विपरीताक्षरं प्रश्ने रिक्तायां पृच्छको यदि ।विपर्य्ययञ्च विज्ञेयं विषमस्थोदये सति ॥
यस्मिन् भागे चरेत् जीवस्तत्रस्थः परिपृच्छति ।तदा जीवति जीवोऽसौ यदि रोगैः प्रपीडितः ॥
वातोदये वातकरञ्च भक्ष्यंपित्तोदये पित्तकरञ्च भक्ष्यम् ।श्लेष्मोदये श्लेष्मकरञ्च भक्ष्यंपुंसि प्रभुक्ते प्रभवन्ति रोगाः ॥
एकस्य भूतस्य विपर्य्ययेणरोगाभिभूतिर्भवतीह पुंसाम् ।तयार्द्वयार्बन्धुसुहृद्विपत्तिःपक्षत्रये व्यत्ययतो मृतिः स्यात् ॥
इति रोगज्ञानम् ॥
* ॥
अथ कालज्ञानम् ।मासादौ वत्सरादौ च पक्षादौ च यथाक्रमम् ।क्षयं कालं परीक्षेत वायुचारवशात् सुधीः ॥
पञ्चभूतात्मकं देह शशी स्नेहेन सिञ्चति ।रक्षयेत् सूर्य्यवातेन तेन जीवः स्थिरो भवेत् ॥
मारुतं बन्धयित्वा तु सूर्य्यं बन्धयते यदि ।अभ्यासाज्जीवते जीवः सूर्य्यकालेऽपि वञ्चते ॥
गगनादवते चन्द्रः कायापद्मानि सिञ्चति ।कर्म्मयागः सदाभ्यासात् रमते शशिनः प्लवात् ॥
शशाङ्कं वारयेद्रात्रौ दिवा वार्य्यो दिवाकरः ।इत्यभ्यासरतो योगी स योगी नात्र संशयः ॥
दिवा न पूजयेत् लिङ्गं रात्रौ देवीं न पूजयेत् ।रहसि ज्ञानजनकं पञ्चसूत्रे समन्वितम् ॥
अहोरात्रं यदैकत्र वहते यस्य मारुतः ।तदा तस्य भवेदायुः संपूर्णं वत्सरद्वयम् ॥
अहोरात्रद्वयं यस्य पिङ्गलायां सदागतेः ।तस्य वर्षद्वयं ज्ञेयं जीवितं तत्त्ववेदिभिः ॥
त्रिरात्रं वहते यस्य वायुरेकपुटे स्थितः ।वत्सरं यावदायुः स्यात् प्रवदन्ति मनीषिणः ॥
रातौ चन्द्रो दिवा सूर्य्यो वहेद्यस्य निरन्तरम् ।विजानीयात्तस्य मृत्युः षण्मासाभ्यन्तरे सुधीः ॥
एकादिषोडशाहानि यदि भानुर्निरन्तरम् ।वहेद्यस्य च वै मृत्युः शेषाहेन च मासिकैः ॥
सम्पूर्णं वहते सूर्य्यश्चन्द्रमा नैव दृश्यते ।पक्षेण जायते मृत्युः कालज्ञानेन भाषितम् ॥
सम्पूर्णं वहते चन्द्रः सूर्य्यो नैव च दृश्यते ।मासेन दृश्यते मृत्युः कालज्ञानेन भाषितम् ॥
मूत्रं पुरीषं वायुश्च समकालं प्रजायते ।तदासौ चलितो ज्ञेयो दशाहे म्रियते ध्रुवम् ॥
एवं चन्द्रप्रवाहञ्च सुखलाभजयस्तथा ।सूर्य्यचन्द्रप्रणाशे तु सद्यो मृत्युर्न संशयः ॥
अरुन्धती ध्रुवश्चैव विष्णोस्त्रीणि पदानि च ।आयुर्हीना न पश्यन्ति चतुर्थं मातृमण्डलम् ॥
अरुन्धती भवेज्जिह्वा ध्रुवो नामाग्रमुच्यते ।भ्रुवोर्म्मध्ये विष्णुपदं तारकं मातृमण्डलम् ॥
नवध्रुवः सप्तमो वा पञ्चतारा त्रिनासिका ।जिह्वामेकदिनं प्रोक्तं म्रियते मानवो ध्रुवम् ।कोणमष्णोऽङ्गुलीभ्यान्तु किञ्चित् पीड्य निरी-क्षयेत् ।यदा न दृश्यते बिन्दुर्द्दशाहेन जनो मृतः ॥
इति कालज्ञानम् ॥
* ॥
इडा गङ्गेति विज्ञेया पिङ्गला यमुना नदी ।मध्ये सरस्वती विद्यात् प्रयागादि समन्ततः ॥
आदौ साधनमाख्यातं सद्यःप्रत्ययकारकम् ।बद्धपद्मासनो योगी बन्धयेदुड्डियानकम् ॥
पूरकः कुम्भकश्चैव रेचकश्च तृतीयकः ।ज्ञातव्यो योगिभिर्नित्यं देहसंसिद्धिहेतवे ॥
पूरकः कुरुते पुष्टीर्धातुमाम्यं तथैव च ।कुम्भकः स्तम्भनं कुर्य्यात् जीवरक्षाविवर्द्धनम् ॥
रेचको हरते पापं कुर्य्याद्योगपदं व्रजेत् ।पश्चात् संग्रामवत्तिष्ठेत् पद्मे बन्धे च कारयेत् ॥
कुम्भयेत् सहजं वायुं यथाशक्त्या प्रयत्नतः ।रेचयेच्चन्द्रमार्गेण सूर्य्येण पूरयेत् सुधीः ॥
चन्द्रं पिबति सूर्य्यश्च सूर्य्यं पिबति चन्द्रमाः ।अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् ॥
स्वीयाङ्गे वहते नाडी तन्नाडीरोधनं कुरु ।मुखबन्धममुञ्चन् वै पवनं जायते युवा ॥
मुखनासाक्षिकर्णानामङ्गुलीभिर्निरोधयेत् ।तत्त्वोदयमिति ज्ञेयं सम्मुखीकरणं प्रिये ॥
तस्य रूपं गतिः स्वादो मण्डलं लक्षणन्त्विदम् ।यो वेत्ति वा नरो लोके स तु शूद्रोऽपि योग-वित् ॥
निराशीर्निर्म्मली योगी न किञ्चिदपि चिन्तयेत् ।वासनामुन्मनां कृत्वा काणं जयति लीलया ॥
विश्वस्य वेशिका शक्तिर्नेत्राभ्यां परिदृश्यते ।तत्रस्थं तु मनो यस्य याममात्रं भवेदिह ॥
तस्यायुर्व्वर्द्धते नित्यं घटिका त्रिप्रमाणतः ।शिवेनोक्तं पुरा तन्त्रं सिद्धस्य गुणगह्वरम् ॥
बद्ध्वा पद्मासनस्थो गुदपवनलयं संनिरुध्योर्द्ध्व-मुच्चैःप्राणं रन्ध्रेण कुम्भत्रयजितमनिलं प्राणशक्त्यानिरुध्य ।एकीभूतं सुषुम्नाविबरमुखगतं ब्रह्मरन्ध्रे चनीत्वानिःक्षिप्याकाशमार्गे शिवचरणरता यान्ति तेकेऽपि धन्याः ॥
* ॥
एतज्जानाति यो योगी एतत् पठति नित्यशः ।सर्व्वदुःखैर्व्विनिर्मक्तो लभते वाञ्छितं फलम् ॥
स्वरज्ञानं गिरो यस्य लक्ष्मीः करतले भवेत् ।एतत्तु शरीरे यस्य सुखं तस्य सदा भवेत् ॥
प्रणवः सर्व्ववेदानां ब्रह्माण्डे भास्करो यथा ।मर्त्यलोके तथा पूज्यः स्वरज्ञानी पुमानपि ॥
नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च ।नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ॥
एकाक्षरप्रदातारं नाडीभेदनिवेदकम् ।पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥
स्वरस्तत्त्वं तथा युद्धं देववश्यं स्त्रियस्तथा ।गर्भाब्दरोगकालाख्यं नवप्रकरणान्वितम् ॥
एवं प्रवर्त्तितं लोके सिद्धिदं सिद्धयोगिभिः ।आचन्द्रार्कं गृही जीयात् पठनात् सिद्धि-दायकम् ॥
सुस्थासने समासीनं निद्रामाहारमल्पकम् ।चिन्तयेत् परमात्मानं यद्वदेत्तद्भविष्यति ॥
”इति शिवगौरीसंवादे नवप्रकरणान्वितपवन-विजयं नाम स्वरोदयं ममाप्तम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
