| YouTube Channel

स्वरभेदः (svarabhedaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्वरभेदः,
पुं,
(स्वरस्य भेदो यस्मात् ।) स्वरभङ्ग-रोगः यथा अथ स्वरभेदाधिकारः तत्रस्वरभेदस्य निदानसम्प्राप्तिपूर्व्वकं लक्षणमाह ।“अत्युच्चभाषणविषाध्ययनाभिघातैःसन्दूषणैः प्रकुपिताः पवनादयस्तु ।स्रोतःसु ते स्वरवहेषु नताः प्रतिष्ठांहन्युः स्वरं भवति चापि हि षड्विधः सः
अध्ययनमुच्चैर्व्वेदादिपाठः अभिघातः कण्ठादि-देशे लगुडादिभिः एतैरत्युच्चभाषणादिभिः-श्चतुर्भिः संदूषणैरन्यैरपि निजैर्दुष्टहेतुभिः ।स्रोतःसु सुश्रुतोक्तेषु चतुर्षु प्रतिष्ठाम् स्थितिम् ।हन्युः स्वरमिति लक्षणम् स्वरभेदः षड्विधः ।वातपित्तकफसन्निपातक्षयमेदोभवभेदैः
*
तत्र वातिकस्वरभेदिनो लक्षणमाह ।“वातेन कृष्णनयनाननमूत्रवर्च्चाभिन्नं शनैर्वदति गर्द्दभवत् स्वरञ्च ।” * ।पित्तेनाह ।“पित्तेन पीतनयनाननमूत्रवर्च्चाब्रूयाद्गलेन दाहसमन्वितेन
”नलदाहोऽत्र वचनसमय एव बोद्धव्यः
*
कफेनाह ।“ब्रूयात् कफेन सततं कफरुद्धकण्ठः ।खल्पं शनैर्व्वदति चापि दिवाविशेषात्
”दिवा सूर्य्यरश्मिभिः कफस्याल्पीभावात्
*
सन्निपातेनाहःसर्व्वात्मके भवति सर्व्वविकारसम्प-त्तच्चाप्यसाध्यमृषयः स्वरभेदमाहुः
*
अयजमाह ।“धूप्येत बाक्क्षयकृते क्षयमाप्नुयाच्चस्वादेषु चापि हतवाक् परिवर्ज्जनीयः
”न्नाक् धूप्येत सधूमेव निःसरति क्षयञ्चाप्नुयात्वागेव
*
मेदोभवमाह ।“अन्तर्गलं स्वरमलक्ष्यपदं चिरेणमेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः
”अन्तर्गलं गलमध्ये एव स्वरं वदति दिग्धगलःमेदसा श्लेष्मणाबलिप्तगलः तृषार्त्तः मेदसोष्म-मार्गावरोधात्
*
असाध्यमाह ।“क्षीणस्य वृद्धस्य कृशस्य चापिचिरोत्थितो यश्च सहोपजातः ।मेदस्विनः सर्व्वसमुद्भवश्चस्वरामयो यो सिद्धिमेति
”क्षीणस्य क्षयरोगिणः कृशस्य अपुष्टस्य
*
अथ स्वरभेदस्य चिकित्सा ।“वातादिजनितश्वासकासघ्ना ये प्रकीर्त्तिताः ।योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः
वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम् ।कफे सक्षारकटुकक्षौद्रः कवल इष्यते
गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः ।तेन निष्कृष्यते श्लेष्मा स्वरश्चाशु प्रसीदति
आद्ये कोष्णं जलं पेयं भुक्त्वा घृतगुडौदनम् ।क्षीरानुपानं पित्तोत्थे पिबेत् सर्पिरतन्द्रितः ।पिप्पलीं पिप्पलीमूलं मरिचं विश्वभेषजम् ।पिबेन्मूत्रेण मतिमान् कफजे स्वरसंक्षये
निदिग्धिका तुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु ।तदर्द्धं चित्रकस्यापि दशमूलञ्च तत्समम्
जलद्रोणद्वये क्वाथ्यं गृह्णीयादाढकं ततः ।पूते पिबेत्तदर्द्धन्तु पुराणस्य गुडस्य
सर्व्वमेकत्र कृत्वा तु लेहवत् साधु साधयेत् ।अष्टीपलानि पिप्यलास्त्रिजातकपलं तथा
मरिचस्य पलं चैकं सर्व्वमेकत्र चूर्णितम् ।मधुनः कुडवं दत्त्वा तदश्नीयाद्यथानलम्
निदिग्धिकावलेहोऽयं भिषग्भिर्मुनिभिर्म्मतः ।स्वरभेदहरो मुख्यः प्रतिश्याय हरस्तथा
काशश्वामाग्निमान्द्यादीन् गुल्ममेहगलामयान् ।आनाहं मूत्रकृच्छ्रानि हन्याद्ग्रन्थ्यर्व्वुदानिच
”इति निदिग्धिकावलेहः
*
“मृगनाभिः सुसूक्ष्मैलालवङ्गकुसुमान्वितैः ।त्वक्क्षीरी चेति लेहोऽयं मर्पिर्मधुसमायुतः
ब्राह्मी वचाभया वासा पिप्पली मधुसंयुता ।अस्य प्रयोगात् सप्ताहात् किन्नरैः सहगायति
”इति स्वरभेदाधिकारः
इति भावप्रकाशः
*
अन्यच्च ।“विभीतकस्य वै चूर्णं पिप्पलीमैन्धवस्य ।पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर
”इति गारुडे १९४ २८
(तथास्य चिकित्सान्तरं यथा, --“भृङ्गराजामृतावल्ली वासकदशमूलकासमर्द्द-रसैः ।सर्पिः सपिप्पलीकं सिद्धं स्वरभेदकासजिन्म-धुना
”इति भृङ्गराजाद्यं घृतम्
इति वैद्यकचक्रपाणिसंग्रहे स्वरभेदाधिकारे
तथात्र पथ्यापथ्यनियमो यथा, --“स्वेदो वस्तिर्धूमपानं विरेकः कवलग्रहः ।नस्यं भाले सिरावेधो यवा लोहितशालयः
हंसाटवीताम्रचूडकेकिमांसरसाः सुरा ।गोकण्टकः काकमाची जीवन्ती वालमूलकम् ।द्राक्षा पथ्या मातुलुङ्गं लशुनं लवणार्द्रकम् ।ताम्बूलं मरिचं सर्पिः पथ्यानि स्वरभेदिनाम्
”अपथ्यानि यथा, --“आमं कपित्थं वकुलं शालूकं जम्बवानि ।तिन्दुकानि कषायाणि वमिं स्वप्नं प्रजल्पनम्
अनुपानञ्च यत्नेन स्वरभेदी विवर्ज्जयेत्
”इति वैद्यकपथ्यापथ्यविधिः
)