| YouTube Channel

स्वयंहारिका (svayaMhArikA)

 
Monier Williams Cologne
English
स्वयं—हार-करी, स्वयं—हारिका and स्वयं—हारी,
f.
‘self-seizing’,
N.
of a daughter of Nirmārṣṭi (and Duḥsaha
she is described as exercising an evil influence on certain substances, e.g. by abstracting the colour from saffron and the thread from cotton),
MārkP.
शब्दकल्पद्रुमः
Sanskrit
स्वयंहारिका,
स्त्री,
स्त्रीविशेषः सा ब्रह्म-मानससृष्टदुःसहस्य निर्माष्ट्यां पत्न्यां जाता ।यथा, --“दुःसहस्याभवत् भार्य्या निर्माष्टिर्नाम नामतः ।जाता कलेस्तु पाप्मायां ऋतौ चाण्डालदर्शनात्
तयोरपत्यान्यभवन् जगद्व्यापीनि षोडश ।अष्टौ कुमाराः कन्याश्च तथाष्टावतिभोषणाः
नियाजिका वै प्रथमा तथैवान्या विराधिना ।स्वयंहारकरी चैव भ्रामणी ऋतुहारिका
स्मृतिबीजहरे चान्य तयोः कन्ये सुदारुणे ।अष्टमी द्वेषणी नाम कन्या चातिभयावहा
एतासां कर्म्म वक्ष्यामि दोषप्रशमनञ्च यत् ।धान्यम्खलाद्गृहाद्गोष्ठात् पयः सर्पिस्तयापरा
समृद्धिमृद्धिमद्द्रव्यादपहन्ति कन्यका ।सा स्वयंहारिकेत्युक्ता सदान्तर्द्धानतत्परा
महानसादर्द्धसिद्धमन्नागारस्थितम् तथा ।परिवेश्यमानञ्च सदा सार्द्धम् भुङ्क्ते भुञ्जता
उच्छिष्टानां मनुष्याणां हरत्यन्नञ्च दुर्द्धरा ।कर्म्मान्ताङ्गारशालाभ्यः सिद्ध्यृद्धिं हरति द्विज
गोस्त्रीस्तनेभ्यश्च पयः क्षोरहारी सदैव सा ।दध्ना घृतं तिलात्तैलं सुरागारात्तथा सुराम्
रङ्गं कुसुम्भकादिभ्यः कार्पासात् सूत्रमेव ।सा स्वयंहारिका नाम हरत्यविरतं द्विज
”तच्छान्तिर्यथा, --“कुर्य्यात शिखण्डिकोद्बद्धां रक्षार्थं कृत्रिम-स्त्रियम् ।रक्षा चैव गृहे लेख्या वर्ज्या चोच्छिष्टतातथा
”शिखण्डिकोद्वद्धाम् स्थाने शिखण्डिनोद्वन्द्वमितिच पाठः ।“होमाग्निदेवताधूपभस्मना परिक्रिया ।कार्य्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम्
”इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा-ध्यायः
वाचस्पत्यम्
Sanskrit
स्वयंहारिका स्त्री ब्रह्मणो मानससृष्टपुत्रस्य दुःसहस्यनिर्माष्ट्या भार्य्यायामुत्पन्ने कन्याभेदे मार्कण्डेयपु० तत्कन्याश्चाष्टौ नियोजिकादयः तासां कर्माणि तत्रोक्तानितत्र “एतासां कर्म वश्यामि दापप्रशमनञ्च यत्” इत्युपक्रमे“धान्यं खलात् गृहात् गोष्ठात् पयःसर्पिस्तथा परा ।समृद्धिमृद्धिवद्द्रव्यमपहन्ति कन्यका सा स्वयंहारि-केत्युक्ता सदान्तर्द्धानतत्परा” इति तस्याः कर्मोक्तम्