| YouTube Channel

स्वधर्म्मः (svadharmmaH)

 
शब्दकल्पद्रुमः
Sanskrit
स्वधर्म्मः,
पुं,
क्ली,
(स्वस्य धर्म्मः ।) स्वजात्युक्ताचारः ।यथा, --“श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः
”इति श्रीभगवद्गीतायां अध्यायः
*
अपि ।“यो यस्य विहितो धर्म्मः तज्जातिः प्रकी-र्त्तितः ।तस्मात् स्वधर्म्मं कुर्व्वीत द्विजो नित्यमनापदि
चत्वारो वर्णा राजेन्द्र चरेयुश्चापि वाश्रमाः ।ऋते स्वधर्म्मं विपुलं ते यान्ति परां गतिम्
स्वधर्म्मेण यथा नॄणां नरसिंहः प्रतुष्यति ।न तुष्यति तथान्येन वेदवाक्येन कर्म्मणा
”इति श्रीनारसिंहपुराणम्
*
स्वधर्म्मत्यागी कृतघ्नः यथा, --सनातन उवाच ।“स्वधर्म्मं हन्ति यो विप्रः सन्ध्यात्रयविवर्ज्जितः ।अतर्पणञ्च यत् स्नानं विष्णुनैवेद्यवञ्चितः
विष्णुमन्त्रविष्णुपूजाविष्णुभक्तिविहीनकः ।एकादशीविहीनश्च श्रीकृष्णजन्मवासरे
शिवरात्रौ यो भुङ्क्ते श्रीरामनवमीदिने ।पितृकृत्यं देवकृत्यं कृतघ्न इति स्मृतम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ ४५ -- ४७