| YouTube Channel

स्वत्वं (svatvaM)

 
Apte 1890
English
स्वत्वं 1 Self-existence.
2 Ownership, proprietory right.
शब्दकल्पद्रुमः
Sanskrit
स्वत्वं,
क्ली,
(स्वस्य भावः स्व + त्व ।) शास्त्र-सम्मतयथेष्टविनियोगार्हत्वम् सप्तपदार्थाति-रिक्तपदार्थः निरूपकतासम्बन्धेन स्वामित्वम् ।यथा स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्र-बोधितत्वमिति प्राञ्चः
अतिरिक्तपदार्थ इतिशिरोमणिः
स्वामित्वञ्च तन्निरूपकत्वम् ।निरूपकतया तदेव वा तच्च द्रव्यगतं गुण-गतञ्च द्रव्यस्य दानादिश्रुतेः नीलं बा वृषमुत्-सृजेदित्यादौ लौहित्यादिगुणविशिष्टपारिमा-षिकनीलवृषोत्सर्गश्रुतेश्च वस्तुतस्तु आत्म-समवेतं स्वामित्वमेवातिरिक्तपदार्थः विक्रय-दानादीनां तन्नाशकत्वे क्रयप्रतिग्रदादीनाञ्चतद्धेतुत्वे सम्बन्धलाघवसम्भवात् तदेव निरूप-कतया स्वत्वव्यवहारहेतुः अतएव निबन्धादौभाविन्यपि स्वत्वमिति अन्यथा प्रतिमासं प्रति-वर्षंवा देयत्वेन प्रतिश्रुतधाम्यादिरूपस्य भावित्वेतत्र तदुत्पत्त्यनुपपत्तेरिति चूडामणिसम्मतोलीलावतीरहस्यपन्थाः सम्नीचीनः तत्र स्वत्व-धारावारणाय सजातीयस्वत्वं प्रतिस्वत्वं विरोधिसजातीयमिति करणात् पराजितनृपतिराज्या-न्तर्व्वर्त्तितत्तत्पुरुषीयक्र मागतस्थावरादौ जया-दिना जेतुर्नृपतेः करग्रहणोपयोगिस्वत्वोत्पादेतथा क्रीते अतिगृहीतराज्यान्तर्व्वर्त्तिनि तादृश-स्थावरादौ क्रेत्रादेः क्रयाद्यधीनस्वत्वोत्-पादेऽपि व्यभिचार इति संक्षेपः इतिदायभागटीकायां श्रीकृष्णतर्कालङ्कारः