| YouTube Channel

स्वतः (svataH)

 
Wordnet
Sanskrit
Synonyms:
स्वयम्, स्वतः
adverb
अन्यप्रतियोगित्वम्।
"गान्धीमहोदयः साहाय्यार्थं स्वयं प्राप्तः।"
शब्दकल्पद्रुमः
Sanskrit
स्वतः [स्]
व्य,
(स्व + तसिल् ।) आत्मनः आपनहैते इति भाषा यथा स्रोतोऽम्बुसरणंस्वतः इत्यमरः १० ११
(यथा, रघुः ५८ ।“अतिप्रबन्धप्रहितास्त्रवृष्टिभि-स्तमाश्रयं दुष्प्रसहस्य तेजसः ।शशाक निर्वापयितुं वासवःस्वतश्च्युतं वह्निमिवाद्भिरम्बुदः
”धनात् यथा, मनुः १६६ ।“ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतोऽव्ययः ।दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः
”)अस्य अव्ययत्वप्रमाणं यथा तद्धितश्चासर्व्व-विभक्तिः यस्मात् सर्व्वा विभक्तिर्नोत्पद्यते सतद्धितान्तोऽव्ययं स्यात् परिगणनं कर्त्तव्यम् ।तसिलादयः प्राक् पाशपः इति सिद्धान्त-कौमुदी
कृदन्तरूपमाला
Sanskrit
1 {@“अत सातत्यगमने”@} 2 ‘बन्धनेऽन्तति, सातत्यगमनेऽतति, चिन्तयेत्।’ 3 इति देवः।
सातत्यगमनम् = सन्ततगमनम्।
आतकः-तिका, आतकः-तिका, अतितिषकः-षिका
अतिता-त्री, आतयिता-त्री, अतितिषिता-त्री
4 अतन्-न्ती, आतयन्-न्ती, अतितिषन्-न्ती
अतिष्यन्-न्ती-ती, आतयिष्यन्-ती-न्ती, अतितिषिष्यन्-न्ती-ती
आतयमानः, आतयिष्यमाणः
अत्-अतौ-अतः, मार्गात्
5 अतितम्-तः-तवान्, आतितः, अतितिषितम्-तः-तवान्
6 अतः 7, पदातिः 8, मार्गातः, आतः, अतितिषुः, आतितयिषुः
अतितव्यम्, आतयितव्यम्, अतितिषितव्यम्
अतनीयम्, आतनीयम्, अतितिषणीयम्
आत्यम्, आत्यम्, अतितिष्यम्
ईषदतः, दुरतः, स्वतः
ईषदातः, दुरातः, स्वातः
अत्यमानः, आत्यमानः, अतितिष्यमाणः
आतः, आतः, अतितिषः
अतितुम्, आतयितुम्, अतितिषितुम्
अत्तिः, आतना, अतितिषा, आतितयिषा
अतनम्, आतनम्, अतितिषणम्
अतित्वा, आतयित्वा, अतितिषित्वा
समत्य, समात्य, समतितिष्य
आतम् २, अतित्वा २, आतम् २, आतयित्वा २, अतितिषम्
अतितिषित्वा
9 अतिथिः, आत्मा 10।।
प्रासङ्गिक्यः
01
=>
(१९)
02
=>
(१-भ्वादिः-३८-सक। से। पर।)
03
=>
(श्लो। ९४)
04
=>
[[(अ)। ‘ग्रामं ग्रामाय वा अतन्-’ इत्यत्र ‘गत्यर्थकर्मणि--’ (२-३-१२।) इत्यनेन द्वितीयाचतुर्थ्यौ भवतः।]]
05
=>
[[(आ)। ‘अतितो ग्रामम्, अतितो ग्रामः, अतितं देवदत्तेन, इदमेषामतितम्।’ इत्यादौ ‘गत्यर्थाकर्मक--’ (३-४-७२) इति, ‘क्तोऽधिकरणे ध्रौव्यगति--’ (३-४-७६) इति क्रमेण कर्तृ-कर्म-भाव-अधिकरणेषु क्तः प्रत्ययः।]]
06
=>
[पृष्ठम्००१८+ ३५]
07
=>
[[आ। ‘अभियाऽतावरं तुङ्गं भूभृतं रुचिरं पुरः। कर्कशं प्रस्थितं धाम ससत्त्वं पुष्करेक्षणम्।’ भ। का। १०-२१। अतस्यावरः। पचाद्यच्]]
08
=>
[[१। ‘पादस्य पदाज्याति--’ (६-३-५२) इति पद्भावः। औणादिक इणू प्रत्ययः।]]
09
=>
[[२। दशपाद्युणादिवृत्तौ १-४४। इथिन् प्रत्ययः।]]
10
=>
[[३। मनिण् प्रत्ययः ६-८१। द-उ।]]