| YouTube Channel

स्रोतोञ्जनं (srotoJjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्रोतोञ्जनं,
क्ली,
(स्रोतोभवमञ्जनम्) यमुना-स्रोतोभवाञ्जनम् तत्पर्य्यायः सौवीरम् २कापोताञ्जनम् यामुनम् इत्यमरः ।१००
अञ्ज्यते नयनमनेन चक्षुष्यत्वादञ्जनंअनट् यमुनायाः स्रोतोभवत्वात् स्रोतसो-ऽञ्जनं स्रोतोञ्जनम् सुवीरदेशे भवं सौवौरंष्णः स्रोतोञ्जनाद्विलक्षणं सौवीरमिति ख्यातम् ।अदूरभवत्वाद्भेदेऽपि एकत्वोपनिबन्धनमितिसुभूतिः कपोतस्यायं कापोतो वर्णः तद्युक्त-मञ्जनं कापोताञ्जनम् कापोतवर्णमञ्जनंकापोताञ्जनमिति स्वामी यमुनायां भवंयामुनं ष्णः इति तट्टीकायां भरतः
*
अपरञ्च ।“स्रोतोञ्जनं नदीजञ्च कृष्णं श्वेतञ्च लोहितम्
”इति रत्नमाला
तत्पर्य्यायान्तरं यथा वारिभवम् स्रोतोभवम् ६स्रोतनदीभवम् सौवीरसारम् कपोत-सारम् वल्मीकशीर्षम् १० अस्य गुणाः ।शीतत्वम् कटुत्वम् कषायत्वम् क्रमिनाशि-त्वम् रसायनत्वम् रसे योग्यत्वम् स्तनवृद्धि-करत्वञ्च तस्य लक्षणं यथा, --“बल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम् ।घृष्टे गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनञ्च तत्
”इति राजनिर्घण्टः
अपि ।“स्रोतोञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् ।दृष्टे कण्डूमलहरं दाहक्लेदरुजापहम्
अक्ष्णो रूपावहञ्चैव सहते मारुतातपौ ।नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत्
”स्रोतोऽञ्जनं कृष्ण सुरमा इति शोधनं विनापिसिन्धुनामपर्व्वतस्तत्र भवम् इति ।अथ सुरमा सौवीर ।“अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि ।तत्र स्रोतोञ्जनं कृष्णं सौवीरं श्वेतमीरितम्
स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् ।स्रोतोञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत्
कषायं लेखनं स्निग्धं ग्राहि छर्द्दिविषापहम् ।सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः
स्रोतोञ्जनगुणाः सर्व्वे सौवीरेऽपि मता बुधैः ।किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोञ्जनं स्मृतम्
”इति भावप्रकाशः