| YouTube Channel

स्रोतः (srotaH)

 
Wordnet
Sanskrit
Synonyms:
स्रोतः
noun
शरीरस्थमार्गविशेषः यस्य सङ्ख्या पुरुषेषु नव तथा स्त्रीषु एकादश इति मन्यते।
"शरीरे स्त्रोतसः प्राणान्नजलरसरक्तमांसमेदमलमूत्रशुक्रार्तवादीनां सञ्चारः भवति।"
Synonyms:
सूत्रम्, स्रोतः
noun
कस्यापि ज्ञानस्य सूचनायाः वा प्राप्तिस्थानम्।
"विश्वस्तैः सूत्रैः ज्ञातं यद् अस्मिन् नगरे पाकिस्तानिनः हस्तकाः सन्ति।"
Synonyms:
प्रवाहः, स्रवः, स्रवणम्, स्रोतः, प्रस्रवः, प्रस्रावः, स्रावः, स्यन्दः, स्यन्दनम्, निस्यन्दः, अभिष्यन्दः
noun
द्रवपदार्थस्य वहनक्रिया।
"सः जलस्य प्रवाहे निर्गतः।"
Synonyms:
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
noun
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ पेयम्।"
शब्दकल्पद्रुमः
Sanskrit
स्रोतः, [स्]
क्ली,
(स्रवतीति स्रु गतौ + “स्रुरीभ्यांतुट् ।” उणा० २०१ इति असुन् ।तुट् ।) स्वतोऽम्बुसरणम् इत्यमरः ।१० ११
वेगेन जलवहनं स्रोतः स्वतःस्वयमम्बुनः सरणं गमनं स्रोतः इत्यन्वयः स्वतइत्यात्महेतुकं परहेतुकम् तस् क्तेरितितृतीयायास्तस् स्रवति स्रोतः स्रुद्रुवत् त्रासुसितिअस् निपातनात्तन् स्रोतः सान्तम् स्रोतः सद्यःसकलसलिलं सिंहकं सक्वमूलम् इति दन्त्या-दावुष्मभेदः स्रोतमदन्तञ्च स्रोतः स्रोतं महा-नदः स्रवः पैञ्चषमस्त्रियाम् इति हडडचन्द्रः ।इत्यमरटीकायां भरतः
(यथा, आर्य्या-सप्तशत्याम् ४९१ ।“रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे ।स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः”)नदी यथा, गीतायाम् १० ३१ ।“झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी
”शरीरस्थनवच्छिद्राणि (मनःप्राणान्नपाणी-यादिव हशरीरस्थासंख्यमार्गविशेषः इति भाव-प्रकाशादयः
) यथा, --“स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम्
”इति राजनिर्घण्टः
(“यावन्तः पुरुषे मूर्त्तिमन्तो भावविशेषास्तावन्त-एवास्मिन् स्रोतसां प्रकारविशेषा सर्व्वभावा हिपुरुषेणान्तरेण स्रोतांस्यभिनिर्व्वर्न्तन्ते क्षयं वान गच्छन्ति स्रोतांसि खलु परिणाममापद्य-मानानां धातूनामभिवाहीनि भवन्ति अयनार्थे-नांपि चैके स्रोतसामेव समुदायं पुरुषमिच्छन्तिसर्व्वगतत्वात् सर्व्वसरत्वाच्च दोषप्रकोपप्रशमा-नानां नत्वेतदेवं यस्य सहि स्रोतांसि यच्च वहन्तियच्चावहन्ति यत्र चावस्थितानि सर्व्वं तदन्य-त्तेभ्यः अतिबहुत्वात्तु खलु केचिदपरिसङ्ख्ये-यानि आचक्षन्ते स्रोतांसि परिसङ्ख्येयानि पुन-रन्ये तेषां स्रोतसां यथास्थलं कतिचित् प्रकारान्मूलतश्च प्रकोपपरिज्ञानतश्चानुव्याख्यास्यामःये भविष्यन्त्यलमनुक्तार्थज्ञानवते विज्ञानायचाज्ञानाय तद्यथा प्राणोदकान्नरसरुधिर-मांसमेदोऽस्थि-मज्जाशुक्र-मूत्रपुरीषस्वेदवहानिवातपित्तश्लेष्मणां पुनः सर्व्वशरीरचराणां सर्व्व-स्रोतांसि अयनभूतानि तद्वदतीन्द्रियाणांपुनः सत्त्वादीनां केवलं चेतनावत् शरीरमयन-भूतमधिष्ठावभूतञ्च तदेतत् स्रोतसां प्रकृति-भूतत्वात् विकारैरुपसृज्यते शरीरम् ।” इतिचरके विमानस्थाने पञ्चमाध्वाये
)