| YouTube Channel

स्रन्सु (sransu)

 
धातुप्रदीपः
Sanskrit
स्रन्सुँ स्रन्सु प्रमादे
- स्रंसते सस्रंसे अस्रंसिष्ट स्रंसित्वा स्रस्त्वा स्रस्तम् सास्रस्यते नीग्वञ्चु (7/4/84) इत्यादिना नीगागमो भवति तत्र ध्वन्सुसाहचर्य्यात् एव स्रन्सुगृह्यते यङोऽचि (2/4/74) इति लुक् चातो लोप (6/4/48) मकृत्वा सर्वविधिभ्यो लुग्विधिर्बलवानिति न्यायात् तेनातो लोपस्य स्थानिवद्भावादनुनासिकलोपो भवति सास्रंते इति एवञ्च कृत्वा लोलुवाद्यर्थं धातुलोप (1/1/4) इत्युक्तम् द्युतादावप्ययं पठिष्यते तस्यैव ध्वन्सुभ्रन्सुसाहचर्य्यान् नीगित्याहुः दत्वे पुनरसाहचर्य्यम् इच्छन्ति-उखास्रदिति संयोगान्तसाधर्म्येण सकारान्तोऽप्ययमत्र निर्दिश्यते संयोगान्तप्रकरणानुरोधात् ।। 394 ।।
स्रन्सुँ स्रन्सु
मानकरूपान्तरम् - भ्रन्शुँ
भ्रन्शु
मानकरूपान्तरम् - ध्वन्सुँ
ध्वन्सु अधःपतने, अवस्रंसने
- स्रंसते सस्रंसे व्यस्रंसत् व्यस्रंसिष्ट स्रस्तम् स्रंसित्वा स्रस्त्वा सनीस्रस्यते सनीस्रंसः उखास्रत् भ्रंशते बभ्रंशे भ्रंशित्वा भ्रष्ट्वा भ्रष्टः भ्रष्टिः भ्रश्यते इति भ्रशो रूपम् 486। ध्वन्सु गतौ ध्वंसते दध्वंसे अध्वंसत् अध्वंसिष्ट ।। 757-759 ।।
क्षीरतरङ्गिणी
Sanskrit
स्रन्सुँ स्रन्सु
मानकरूपान्तरम् - ध्वन्सुँ
ध्वन्सु
मानकरूपान्तरम् - भ्रन्शुँ
भ्रन्शु अवस्रंसने
- स्रंसते नीग्वन्चुस्रन्सु (तु07484) इति सनीस्रस्यते वसुस्रंसुध्वंस्वनडुहो दः (तु08272) उखास्रत् स्रस्त्वा स्रंसित्वा क्तिन् आबादिभ्यः (3394 वा0) स्रस्तिः ध्वंसते दनीध्वस्यते पर्णध्वत् ध्वस्तिः ध्वस्त्वा, ध्वंसित्वा ध्वस्तः भ्रंशते भ्रष्टिः बनीभ्रश्यते भ्रष्टवा भ्रंशित्वा भ्रष्टः दिवादौ (4118) भ्रश्यति 732-734
धातुवृत्तिः
Sanskrit
स्रन्सुँ स्रंसु
मानकरूपान्तरम् - ध्वन्सुँ
ध्वंसु
मानकरूपान्तरम् - भ्रन्सुँ
भ्रंसु (अर्थः) अवस्रंसने
741