| YouTube Channel

स्यात् (syAt)

 
शब्दसागरः
English
स्यात् Ind. It may be perhaps, perchance, &c.
implying doubt, as स्यादस्ति,
स्यान्नास्ति it may be, it may not be.
E.
The verbal conditional form
used as a particle, or third person singular of the potential of अस्
Wilson
English
स्यात् ind. It may be: implying doubt, as स्यादस्ति, स्यान्नास्ति it may
be, it may not be.
E.
the verbal conditional form used as a particle.
Apte
English
स्यात् [syāt],
ind.
(Strictly 3rd.
pers.
sing.
of the Potential of अस् 'to be') It may be, perhaps, per chance.Comp. -वादः an assertion of probability (in
phil.
), a form of scepticism of the Jainas. -वादिन्
m.
a sceptic.
Apte 1890
English
स्यात् ind. (Strictly 3rd. pers. sing. of the Potential of अस् ‘to be’) It may be, perhaps, per chance.
Comp.
वादः an assertion of probability (in phil.), a form of scepticism.
वादिन् m. a sceptic.
Monier Williams Cologne
English
स्यात्
ind.
(3. sg.
Pot.
of 1. अस्) it may be, perhaps, perchance (esp. used in Jaina works and occurring in 7 formulas, viz. 1. स्याद् अस्ति, ‘perhaps it is [under certain circumstances]’
2. स्यान् नास्ति, ‘perh° it is not,
&c.
3. स्याद् अस्ति नास्ति च, ‘perh° it is and is not [under certain circumstances]’
4. स्याद् अवक्तव्यः, ‘perh° it is not expressible in words’
5. स्याद् अस्ति चावक्तव्यः, ‘perhaps it is and is not expressible in words’
6. स्यान् नास्ति चावक्तव्यः, ‘perhaps it is not and is and is not expressible in words’
7. स्याद् अस्ति नास्ति चावक्तव्यः,
Sarvad.
Monier Williams 1872
English
स्यात् स्यात्, ind. (properly 3rd sing. Pot.
of rt. 1. अस्), it may be, perhaps, perchance, (स्याद्
अस्ति, it may be, perhaps it is
स्यान् नास्ति, it may
not be.)
—स्याद्-वाद, अस्, m. (probably) assertion
of possibility (in phil.).
—स्याद्वाद-मञ्जरी, f.,
N. of a philosophical work classed under the Ārhata-
darśana in the Sarva-darśana-saṅgraha.
—स्याद्वाद-
वादिन्, ई, m., N. of an Arhat.
—स्याद्-वादिन्, ई, m.
one who asserts possibility.
Macdonell
English
स्यात् s-yāt, 3. sg. pot. (√ 1. as) it may be, 🞄perhaps: in the dialectical scepticism of the 🞄Jains there are seven formulae containing 🞄this word (syād asti, perhaps it is
syān 🞄na‿asti, perhaps it is not, etc.).
Hindi
Hindi
हो सकता है
Apte Hindi
Hindi
स्यात्
अव्य* - "अस् धातु का विधिलिङ् में, प्र* पु*, ए* व*"
"ऐसा हो सकता है, शायद, कदाचित्"
L R Vaidya
English
syAt {% ind. (third person sing. of the potential of अस् (II)) %} It may be, perhaps, perchance.
Edgerton Buddhist Hybrid
English
syāt, siyāti (as in Pali, AMg. siyā
in only Jain Skt., see BR), perhaps
common at end of Jātaka stories, usually: syāt khalu (punar) bhikṣavaḥ yuṣmākam (rarely omitted) evam asyā (or asyāt), it may be, however, monks, that you may have the idea …, Mv 〔ii.64.2〕
〔68.13〕
〔72.4, 8, 10〕
〔81.17〕
〔83.7〕
〔89.1, 3, 6〕
〔94.5, 8〕
〔113.16〕
〔114.3〕
〔176.15〕
〔219.4〕
〔iii.76.18〕, and often in Mv
so in Mv 〔i.45.1, 5, 8, 11〕, read siyāti (〔§ 29.41〕
Senart siyā ti) punar evam asya syāt
yasyeha pariśeṣaṃ syān (so mss. 〔ii.3.7〕, in 〔i.199.9〕 syā) nārīye (°yo) jīvitaṃ bhavet Mv 〔i.199.9〕 = 〔ii.3.7〕 (vs), of what woman there may be perchance remaining in this world a life (of ten months and seven days)
Senart reads syā in both places and takes it for the pronoun asyāḥ, which seems to me impossible (〔§ 21.84〕).
Sanskrit Tibetan
Tibetan
gyur cig
१) अस्तु २) भवन्तु ३) भवि ४) भवेयम् ५) भूत् ६) भोन्तु ७) व्यजन्तु ८) सन्तु ९) स्यात्
gyur na
१) अभविष्यत् २) भवति ३) भवेत् ४) याति ५) सति ६) स्यात् ७) स्याताम् ८)
gyur pa
१) अवस्था २) आगत ३= आपन्न ४) आसन् ५) आसीत् ६) उपपन्न ७) कृत ८) गत ९) जात १०) ज्ञात ११) निवृत्त १२) परिणति १३) प्रवृत्त १४) प्राप्त १५) प्राप्ति १६) बद्ध १७) भवतः १८) भव्ति १९) भवन्ति २०) भवेत् २१) भवेय २२) भाव २३) भाविन् २४) भू २५) याति २६) संवृत्त २७) सत् २८) संभव २९) स्यात् ३०)
gyur pa yin
१) आगत २) स्यात्
gyur pa yin pa
स्यात्
gyur ba zhig na
१) भवेत् २) स्यात्
mchis pa
१) उपसंक्रान्त २) प्रतिवसति ३) भवेया ४) स्यात् ५)
Tamil
Tamil
ஸ்யாத் : ஒருவேளை, ஒருக்கால், இப்படியும் இருக்கலாம்
कृदन्तरूपमाला
Sanskrit
1 {@“ज्ञा अवबोधने”@} 2 प्वादिः।
‘जानातीति श्नि सिद्ध्येत्, ज्ञपयति तु पुनर्मारणादौ घटादेः णौ3मित्त्वेऽपीदमेव ज्ञपनमिति 4 पदं ज्ञापने मारणादौ।
तेनार्थाज्ञापनेऽर्थे ज्ञपयतिपदवज् ज्ञापयेदित्यपि स्यात्
उक्तस्योक्तिः, ‘णिचश्चे’ 5 त्युदितविहतये
ज्ञापयेत्-- ‘ज्ञा नियोगे’।।
6 इति देवः।
7 ज्ञायकः-यिका, 8 ज्ञापकः- 9 ज्ञपकः-पिका, 10 जिज्ञपयिषकः-षिका, ज्ञीप्सकः- प्सिका, 11 जिज्ञासकः-सिका, 12 जाज्ञायकः-यिका
ज्ञाता-त्री, ज्ञापयिता-ज्ञपयिता-त्री, जिज्ञपयिषिता-ज्ञीप्सिता-त्री, जिज्ञासिता-त्री, जाज्ञायिता-त्री
13 14 जानन् 15 -ती, 16 17 सञ्जानन्, 18 प्रतिजानन्, 19 20 जानन्, ज्ञापयन्-ज्ञपयन्-न्ती, जिज्ञपयिषन्-ज्ञीप्सन्-न्ती, 21 22 अनुजिज्ञासन् 23 -न्ती
ज्ञास्यन्-न्ती-ती, ज्ञापयिष्यन्-न्ती-ती, जिज्ञपयिषिष्यन्-न्ती-ती, ज्ञीप्सिष्यन्-न्ती-ती, 24 अनुजिज्ञासिष्यन्-न्ती-ती
-- 25 26 अपजानानः, 27 28 29 जानानः, 30 31 सञ्जानानः, 32 प्रतिजानानः, 33 34 जानानः, 35 36 जानानः, ज्ञापयमानः-ज्ञपय- मानः, जिज्ञपयिषमाणः-ज्ञीप्समानः, 37 38 जिज्ञासमानः, 39 40 41 42 अपजिज्ञासमानः, 43 जिज्ञासमानः, 44 सञ्जिज्ञासमानः, 45 प्रतिजिज्ञासमानः, 46 47 अनुजिज्ञासमानः, जाजायमानः
48 49 अपज्ञास्यमानः, ज्ञापयिष्यमाणः-ज्ञपयिष्यमाणः, जिज्ञपयिषिष्यमाणः- ज्ञीप्सिष्यमाणः, 50 अपजिज्ञासिष्यमाणः, जाज्ञायिष्यमाणः
51 सुज्ञाः-सुज्ञौ-सुज्ञः
-- -- -- 52 ज्ञातम्-ज्ञातः-ज्ञातवान्, ज्ञापितः-ज्ञपितः- 53 ज्ञप्तः, जिज्ञपयिषितः- ज्ञीप्सितः, जिज्ञासितः, जाज्ञायितः-तवान्
54 ज्ञः, 55 अज्ञः, 56 पथिप्रज्ञः, 57 58 प्राज्ञः, 59 अभिज्ञः, 60 नयज्ञः, 61 62 63 मनसाऽऽज्ञायी, 64 नीतिज्ञः, ज्ञापः-ज्ञपः, जिज्ञपयिषुः-ज्ञीप्सुः, जिज्ञासुः, 65 जिज्ञापयिषुः, 66 जाज्ञः
ज्ञातव्यम्, ज्ञापयितव्यम्-ज्ञपयितव्यम्, जिज्ञपयिषितव्यम्-ज्ञीप्सितव्यम्, जिज्ञासितव्यम्, जाज्ञायितव्यम्
ज्ञानीयम्, ज्ञापनीयम्-ज्ञपनीयम्, जिज्ञपयिषणीयम्-ज्ञीप्सनीयम्, जिज्ञासनीयम्, जाज्ञानीयम्
ज्ञेयम्, ज्ञाप्यम्-ज्ञप्यम्, जिज्ञपयिष्यम्-जीप्स्यम्, जिज्ञास्यम्, जाज्ञाय्यम्
67 ईषज्ञानः-दुर्ज्ञानः-सुज्ञानः
-- -- -- ज्ञायमानः, ज्ञाप्यमानः-ज्ञप्यमानः, जिज्ञपयिष्यमाणः-ज्ञीप्स्यमानः, जिज्ञास्यमानः, जाज्ञाय्यमानः
ज्ञायः, ज्ञापः-ज्ञपः, जिज्ञपयिषः-ज्ञीप्सः, जिज्ञासः, जाज्ञायः
ज्ञातुम्, ज्ञापयितुम्-ज्ञपयितुम्, जिज्ञपयिषितुम्-ज्ञीप्सितुम्, जिज्ञासितुम्, जाज्ञायितुम्
68 ज्ञातिः, 69 आज्ञा, 70 अनुज्ञा, 71 उपज्ञा, 72 उपज्ञम्, संज्ञा, प्रज्ञा, 73 74 आज्ञापना-ज्ञपना, जिज्ञपयिषा-ज्ञीप्सा, जिज्ञासा, जाज्ञा
ज्ञानम्, ज्ञापनम्-ज्ञपनम्, जिज्ञपयिषणम्-ज्ञीप्सनम्, जिज्ञासनम्, जाज्ञायनम्
ज्ञात्वा, ज्ञापयित्वा-ज्ञपयित्वा, जिज्ञपयिषित्वा-ज्ञीप्सित्वा, जिज्ञासित्वा, जाज्ञायित्वा
विज्ञाय, अनुज्ञाप्य- 75 अनुज्ञपय्य, प्रजिज्ञपयिष्य-प्रज्ञीप्स्य, प्रजिज्ञास्य, प्रजाज्ञाय्य
ज्ञायम् २, ज्ञात्वा २, ज्ञापम् २- 76 ज्ञपम् २- ज्ञापम् २, ज्ञापयित्वा २- ज्ञपयित्वा २, जिज्ञपयिषम् २, जिज्ञपयिषित्वा २, ज्ञीप्सम् २, ज्ञीप्सित्वा २, जिज्ञासम् २, जिज्ञासित्वा २, जाज्ञायम्
जाज्ञायित्वा २।
प्रासङ्गिक्यः
01
=>
(६२५)
02
=>
(९-क्र्यादिः-१५०७। सक। अनि। पर। मित्।)
03
=>
[चौ]
04
=>
[ज्ञप मिद् इति]
05
=>
(१-३-७४)
06
=>
(श्लो। ८)
07
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति ण्वुलि परतो युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
08
=>
[[२। मारणाद्यर्थस्याप्रतीत्या, अत्र मित्त्वं
\n\n अतः, उपधाह्रस्वो न। एवं सर्वत्र ण्यन्ते मारणाद्यर्थाप्रतीतौ ज्ञेयम्।]]
09
=>
[[३। घटादौ ‘मारणतोषणनिशामनेषु ज्ञा’ (ग। सू। भ्वादौ) इति जानातेः मित्संज्ञायाम्, आदन्तलक्षणे पुगागमे उपधाह्रस्वे रूपमेवम्। एवं ण्यन्ते ह्रस्वघटितरूपस्योपपत्तिः सर्वत्र ज्ञेया।]]
10
=>
[[४। अस्य धातोर्ण्यन्तात् सनि रूपाणि प्रदर्शितानि। तत्र हेतुस्तु--‘सनीवन्तर्धभ्रस्ज- दम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति सूत्रेण ण्यन्तात् परस्य सन इड्- विकल्प एव। इट्पक्षे जिज्ञपयिषकः इति रूपम्। एवं इट्पक्षे सर्वत्र ण्यन्तात् सनि रूपं ज्ञेयम्। इडभावपक्षे, ‘आप्ज्ञपृधामीत्’ (७-४-५५) इतीत्त्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे रूपम्--ज्ञीप्सकः इत्यादि। एवं ण्यन्तात् सनि इडभावपक्षे रूपं ज्ञेयम्।]]
11
=>
[[५। द्वित्वे, अभ्यासस्य, ‘सन्यतः’ (७-४-७९) इतीत्वे रूपम्। एवं सन्नन्ते सर्वत्र रूपं ज्ञेयम्।]]
12
=>
[[६। द्वित्वे, अभ्यासस्य, ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
13
=>
[पृष्ठम्०५९२+ ३१]
14
=>
[[१। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। “ज्ञाजनोर्जा (७-३-७९) इति जादेशे, ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे नुमि रूपम्। अस्य प्वादित्वेऽपि ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वो न, ‘जा’ इति दीर्घादेशविधानसामर्थ्यात्। एवं जानानः इत्यत्रापि प्रक्रिया ज्ञेया।]]
15
=>
[[आ। ‘जानन् अनादिविहितानपराधवर्गान् स्वामिन् भयात् किमपि वक्तुमहं शक्तः।’ वग्दराजपञ्चाशति ३।]]
16
=>
[मातुः]
17
=>
[[२। ‘संप्रतिभ्यामनाध्याने’ (१-३-४६) इत्यत्र ‘अनाध्याने’ इत्युक्तत्वात्, प्रकृते शानज् न। आध्यानम् = उत्कण्ठापूर्वकं स्मरणम्।]]
18
=>
[पितुः]
19
=>
[स्वां गां]
20
=>
[[३। ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इत्यत्र शानचो विकल्पितत्वात्, पक्षे शता भवति।]]
21
=>
[पुत्रं]
22
=>
[[४। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति विहितस्य शानचोऽनुपूर्वके सन्नन्ते ‘नानोर्ज्ञः’ (१-३-५८) इति निषेधात् शता भवति।]]
23
=>
[[B। ‘अनुजिज्ञासतेवाथ लङ्कादर्शनमिन्दुना।’ भ। का। ८। ३५।]]
24
=>
[पुत्रं]
25
=>
[शतं]
26
=>
[[५। ‘अपह्नवे ज्ञः’ (१-३-४४) इति जानातेः शानच्। शतं अपलपत इत्यर्थः।]]
27
=>
[[C। ‘आत्मानमपजानानः शशमात्रोऽनयद् दिनम्। ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः।।’ भ। का। ८। २६।]]
28
=>
[सर्पिषो]
29
=>
[[६। ‘अकर्मकाच्च’ (१-३-४५) इत्यात्मनेपदं शानच्। सर्पिषोपायेन प्रवर्तत इत्यर्थः। ‘ज्ञोऽविदर्थस्य करणे’ (२-३-५१) इति सूत्रेण, करणस्य शेषत्वेन विवक्षितत्वे षष्ठी।]]
30
=>
[शतं]
31
=>
[[७। ‘संप्रतिभ्यामनाध्याने’ (१-३-४६) इति शानच्। शतम् अपेक्षमाणः, सहस्रम् अङ्गीकुर्वाणः इति क्रमेणार्थः।]]
32
=>
[सहस्रं]
33
=>
[गां]
34
=>
[[८। ‘अनुपसर्गाज्ज्ञः’ (१-३-७६) इति कर्त्रभिप्राये शानच्। उपसर्गसमभिव्याहारे तु प्रतिजानन् इत्येव भवति।]]
35
=>
[स्वां गां]
36
=>
[[९। ‘विभाषोपपदेन प्रतीयमाने’ (१-३-७७) इति शानज्विकल्पः।]]
37
=>
[धर्मं]
38
=>
[[१०। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तात् शानच्।]]
39
=>
[[ड्। ‘प्रेम जिज्ञासमानाभ्यः ताभ्योऽशप्सत कामिनः।।’ भ। का। ८। ३३।]]
40
=>
[शतं]
41
=>
[पृष्ठम्०५९३+ २६]
42
=>
[[१। अत्र सर्वत्र ‘पूर्ववत् सनः’ (१-३-६२) इत्यात्मनेपदं, शानच्।]]
43
=>
[सर्पिषो]
44
=>
[शतं]
45
=>
[सहस्रं]
46
=>
[औषधस्य]
47
=>
[[२। ‘मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्’ (परिभाषा ६२) इति न्यायेन ‘नानोर्ज्ञः’ (१-३-५८) इति निषेधः, ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इत्यस्यैव बाधकः, तु ‘पूर्ववत् सनः’ (१-३-६२) इत्यस्य
\n\n तेन ‘पूर्ववत्--’ (१-३-६२) इति शानच् भवति।]]
48
=>
[[३। ‘अपह्नवे ज्ञः’ (१-३-४४) इति शानच्। एवं पूर्वोक्तेषु सर्वेष्वप्युदाहरणेषु स्यप्रत्यये शानजन्तानि रूपाणि स्वयमूह्यानि।]]
49
=>
[शतं]
50
=>
[शतं]
51
=>
[[४। क्विपि, रुत्वविसर्गौ भवतः। आकारान्तोऽयं शब्दः।]]
52
=>
[[आ। ‘न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते।’ किरातार्जुनीये ११। ४२।]]
53
=>
[[५। ‘वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ (७-२-२७) इति ण्यन्तात् निष्ठायां मित्त्वपक्षे इडभावो विकल्पेन निपातितः। तेन रूपद्वयं बोध्यम्।]]
54
=>
[[६। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः। आदन्तलक्षणण- प्रत्ययस्यापवादः।]]
55
=>
[[B। ‘व्रीताशबृंहितजुषाभ्रिणता गजेन प्रक्षेतुमज्ञमनसा समनुद्रुतेन।’ धा। का। ३। ९।]]
56
=>
[[७। प्रकर्षेण पन्थानं जानातीति पथिप्रज्ञः। ‘प्रे दाज्ञः’ (३-२-६) इति कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इति आकारलोपः।]]
57
=>
[[C। ‘विश्वासप्रदवेषोऽसौ पथिप्रज्ञः समाहितः।’ भ। का। ६। ९०।]]
58
=>
[[८। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कप्रत्ययः। आकारलोपः। प्रकर्षेण = समन्तात् जानातीति प्राज्ञः = पण्डितः।]]
59
=>
[[ड्। ‘इन्द्रजिद्विक्रमाभिज्ञो मन्वानो वानरं जितम्।।’ भ। का। ९। ५२।]]
60
=>
[[९। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मोपपदे कर्तरि कप्रत्ययः। आकारलोपः।]]
61
=>
[[E। ‘इति विविधमुदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम्।’ किरातार्जुनीये १६। ६३।]]
62
=>
[पृष्ठम्०५९४+ २१]
63
=>
[[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिः। ‘मनसः संज्ञा- याम्’ (६-३-४) इति स्थिते, ‘आज्ञायिनि च’ (६-३-५) इति तृतीयाया अलुक्।]]
64
=>
[[आ। ‘नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः। ब्रह्मज्ञा अपि सुलभाः स्वाज्ञानज्ञानिनो विरलाः।।’ नी। दीक्षितस्य वैरारयशतके २७।]]
65
=>
[[B। ‘स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम्।’ भ। का। ९। ३७।]]
66
=>
[[२। यङन्तात् पचाद्यचि यङवयवस्याकारस्यातो लोपे, यङोऽवशिष्टस्य लुकि, अल्लोपस्य स्थानिवद्भावादाकारलोपे रूपम्।]]
67
=>
[[३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
68
=>
[[४। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति क्तिच्।]]
69
=>
[[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
70
=>
[[C। ‘तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाज्ञया।’ भ। का। ६। १४५।]]
71
=>
[[६। उपज्ञायते इत्युपज्ञा। कर्मण्यङ्। ‘पाणिन्युपज्ञं व्याकरणम्’ इत्यत्र पाणिनिकर्तृकप्राथमिकज्ञानविषयो व्याकरणमित्यर्थः। ‘उपज्ञोपक्रमं तदाद्या- चिख्यासायाम्’ (२-४-२१) इति नपुंसकत्वम्।]]
72
=>
[[ड्। ‘अथ प्राचेतसोपज्ञं रामायणमितस्ततः।’ रघुवंशे १५। ६३।]]
73
=>
[पृष्ठम्०५९५+ २३]
74
=>
[[आ। ‘आज्ञापनामिह विभाज्य नृपेण दृष्टौ तौ शर्धनाय समयातयतां नियुद्धम्।।’ धा। का। ३। ४०।]]
75
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति मित्पक्षे ण्यन्ताल्ल्यपि णेरयादेशः।]]
76
=>
[[२। मित्त्वपक्षे ण्यन्ताण्णमुलि ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घ- विकल्पः।]]
1 {@“ज्ञा नियोगे”@} 2 स्वभावादयं धातुराङ्पूर्वः।
नियोगः = प्रेरणम्।
‘जानातीति श्नि सिध्येत्, ज्ञपयति तु पुनर्मारणादौ घटादेः णौ3, मित्त्वेऽपीदमेव ज्ञपनमिति 4 पदं ज्ञापने मारणादौ।
तेनार्थाज्ज्ञापनेऽर्थे ज्ञपयतिपदवत्--ज्ञापयेदित्यपि स्यात्
उक्तस्योक्तिः--‘णिचश्चे’ 5 त्युदितविहतये
ज्ञापयेत्-- ‘ज्ञा नियोगे’।।’ 6 इति देवः।
आज्ञापकः-पिका, 7 आज्ञापनम्, इत्यादीनि सर्वाण्यपि रूपाणि मारणाद्यति- रिक्तार्थस्य ज्ञाधातोः 8 ण्यन्ते यानि प्रदर्शितानि तान्येवात्रापि बोध्यानि।
ण्यन्तात सनि तु इमानि रूपाणीति विशेषः।
आजिज्ञापयिषकः-षिका, आजिज्ञापयिषिता-त्री, आजिज्ञापयिषन्-न्ती, आजिज्ञापयिषिष्यन्-न्ती-ती
आजिज्ञापयिषमाणः, अजिज्ञापयिषिष्यमाणः
आजिज्ञापयिट्-यिषौ-यिषः
आजिज्ञापयिषितः-तवान्, आजिज्ञापयिषुः, आजिज्ञापयिषितव्यम्, आजि- 9 ज्ञापयिषणीयम्, आजिज्ञापयिष्यम्, ईषदाजिज्ञापयिषः-दुराजिज्ञापयिषः- स्वाजिज्ञापयिषः, आजिज्ञापयिष्यमाणः, आजिज्ञापयिषः, आजिज्ञापयिषितुम्, आजिज्ञापयिषा, आजिज्ञापयिषणम्, जिज्ञापयिषित्वा, आजिज्ञापयिष्य, आजिज्ञापयिषम् जिज्ञापयिषित्वा
प्रासङ्गिक्यः
01
=>
(६२६)
02
=>
(१०-चुरादिः-१७३३। सक। सेट्। उभ।)
03
=>
[चौ]
04
=>
[ज्ञप मिदिति]
05
=>
(१-३-७४)
06
=>
(श्लो। ८)
07
=>
[[आ। ‘आज्ञापनामिह विभाज्य नृपेण दृष्टौ तौ शर्धनाय समयातयतां नियुद्धम्।।’ धा। का। ४०।]]
08
=>
(६२५)
09
=>
[पृष्ठम्०५९६+ २७]
1 {@“पृ पालनपूरणयोः”@} 2 3 “ह्रस्वान्तोऽयं धातुरिति-वर्धमान-काश्यप-आभरण-पुरुषकाराः।
4 स्वामी तु दीर्घान्तं पठित्वा, ‘ह्रस्वान्तोऽयम्’ इति नन्दी।’ इति।
आत्रेय- मैत्रेयौ तु ह्रस्वान्तं पठित्वा, ‘दीर्घान्तमेके’ इति।
…वृत्तिकारस्य तु दीर्घान्त एवेष्टः।
यदाह-- ‘शॄदॄप्रां ह्रस्वो वा’ 5 इत्यत्र “केचित् एतत् सूत्रं प्रत्याचक्षते।
‘श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे’ इत्येषाम्, ‘बह्वर्था अपि धातवः’ 6 इति श्रॄदॄप्राम् अर्थे वर्तमानानां ‘विशश्रतुः’ इत्यादीनि रूपाणि साधयन्ति।
तथा सति, ‘विशुश्रुवान्’ इति क्वसौ एतद्रूपं स्यात्।” इति।
यदि ह्रस्वान्तः स्यात् प्रातिना प्रत्याख्यानम्, ‘पिपृवान्’ इति प्रयोजनकथनं चानुपपन्नं स्यात्।
तथा वृत्ति-न्यास पदमञ्जरी- प्रदीपकारादयोऽपि।
किञ्च, अपाणिनीयश्च ह्रस्वान्तः।
यदि हि स्यात्
किं ह्रस्वविकल्पेन? यत् क्रैयादिकाद् दीर्घान्तरूपाणि, अस्माच्च ह्रस्वान्तरूपाणि भविष्यन्ति।
एवञ्च, “तं पिपृतं रोदसी--” 7 ‘पाहि माऽग्ने पिपृहि--’ 8 इत्यादयश्छान्दसा द्रष्टव्याः।।” इति मा।
धा।
वृत्तौ सुदूरं विचार्य ह्रस्वान्तपाठाभावः समर्थितः।
तथापि, सिद्धान्त- कौमुद्यादिषु, पूर्वेषां ग्रन्थेषु ह्रस्वान्तस्याप्युपलम्भात्तेषां मतानुरोधेनात्र ह्रस्वान्तस्य रूपाणि प्रदर्शितानि।]] 9 ‘पृणाति पूरणे, श्लौ तु पिपर्ति, णिचि पारयेत्।।’ 10 इति देवः।
पारकः-रिका, पारकः-रिका, 11 पुपूर्षकः-र्षिका, 12 पेप्रीयकः-यिका
पर्ता-पर्त्री, पारयिता-त्री, पुपूर्षिता-त्री, पेप्रीयिता-त्री
13 पिप्रत्-पिप्रतौ-पिप्रतः, पिप्रती, पारयन्-न्ती, पुपूर्षन्-न्ती
-- 14 परिष्यन्-न्ती-ती, पारयिष्यन्-न्ती-ती, पुपूर्षिष्यन्-न्ती-ती
-- व्यतिपिप्राणः, पारयमाणः, व्यतिपुपूर्षमाणः, पेप्रीयमाणः
व्यतिपरिष्यमाणः, पारयिष्यमाणः, व्यतिपुपूर्षिष्यमाणः, पेप्रीयिष्यमाणः
व्यापृत्-व्यापृतौ-व्यापृतः
-- -- -- व्यापृतम्-तः-तवान्, पारितः, पुपूर्षितः, पेप्रीयितः-तवान्
परः, व्यापारी, पारः, पुपूर्षुः, 15 पिपारयिषुः, पेप्रियः
16 पर्तव्यम्, पारयितव्यम्, पुपूर्षितव्यम्, पेप्रीयितव्यम्
परणीयम्, पारणीयम्, पुपूर्षणीयम्, पेप्रीयणीयम्
17 पार्यम्, पार्यम्, पुपूर्ष्यम्, पेप्रीय्यम्
ईषत्परः-दुष्परः-सुपरः
-- -- -- 18 व्याप्रियमाणः, पार्यमाणः, पुपूर्ष्यमाणः, पेप्रीय्यमाणः
व्यापारः, पारः, पुपूर्षः, पेप्रीयः
पर्तुम्, पारयितुम्, पुपूर्षितुम्, पेप्रीयितुम्
व्यापृतिः, पारणा, पुपूर्षा-पिपारयिषा, पेप्रीया
परणम्, पारणम्, पुपूंर्षणम्, पेप्रीयणम्
पृत्वा, पारयित्वा, पुपूर्षित्वा, पेप्रीयित्वा
व्यापृत्य, व्यापार्य, व्यापुपूर्ष्य, प्रपेप्रीय्य
पारम् २, पृत्वा २, पारम् २, पारयित्वा २, पुपूर्षम् २, पुपूर्षित्वा २, पेप्रीयम्
पेप्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(१०४४)
02
=>
(३-जुहोत्यादिः-१०८६। सक। अनि। पर।)
03
=>
[[[अ]
04
=>
[क्षीर]
05
=>
(७-४-१२)
06
=>
(भाष्यम् १-३-१)
07
=>
(तै। ब्रा। २। ८। ४। ८।)
08
=>
(तै। सं। १। ३। ३। १।)
09
=>
[पृष्ठम्०८८५+ १८]
10
=>
(श्लो। ३६)
11
=>
[[१। सन्नन्ते सर्वत्र, ‘अज्झनगमां सनि, (६-४-१६) इति दीर्घे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे ‘उद् ओष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्त्वे रपरत्वे ‘हलि च’ (८-२-७७) इति दीर्घः। ‘इट् सनि वा’ (७-२-४१) इत्यत्रोपदेशाधिकारादत्र सनि इड्विधिर्न।]]
12
=>
[[२। यङन्ते सर्वत्र ‘रीङ् ऋतः’ (७-४-२७) इति रीङागमः। अभ्यासे गुणः।]]
13
=>
[[३। शतरि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लुः विकरणप्रत्ययः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘अर्तिपिपर्त्योश्च’ (७-४-७७) इति अभ्यासस्ये- त्वम्। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः।]]
14
=>
[[४। ‘ऋद्धनोः स्ये’ (७-२-७०) इति स्यप्रत्ययस्येडागमः।]]
15
=>
[[५। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्येकारः।]]
16
=>
[पृष्ठम्०८८६+ २५]
17
=>
[[१। ‘ऋहलोः--’ (३-१-१२४) इति भावकर्मणोर्ण्यत्प्रत्ययः।]]
18
=>
[[२। यकि, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशः।]]
1 {@“ओ लडि उत्क्षेपणे”@} 2 अत्र ओकारः इत्संज्ञक इति चान्द्रा आहुः।
धात्ववयव एव ओकार इति क्षीरस्वामिप्रभृतयः।
‘उलडि’ इति पठित्वा ‘उलण्डयति’ इति केचिदु- दाहरन्ति।
एवं बहुधा विप्रतिपत्तिरत्र।
ओकारो धात्ववयव इत्यभ्युपगत्या- स्माभिः पूर्वं 3 ओलण्डक इत्यादीनि रूपाणि ण्यन्तात्, ण्यन्तप्रकृतिक- सन्नन्ताच्च प्रदर्शितानि।
ओकार इत्संज्ञक इति पक्षे-लण्डकः-ण्डिका इत्यादीनि रूपाणि यथासम्भवं स्वयमेवोह्यानि।
‘अनित्यण्यन्ताः चुरादयः’ इत्याश्रित्य ओकारेत्त्वपक्षे ‘ओदितश्च’ 4 इति निष्ठानत्वे लण्ड्नः इत्यपि निष्ठायां प्रदर्शयन्ति।
“दौर्गास्तु क्ते लण्डिन इत्युदाजह्रुः
तच्च पापात् पापीयः।
अव्यवहितस्य 5 नत्वात्” इति क्षीरस्वामी।
युक्तं चैतत्
अन्यथा विन्नादिवत् विदित इत्यत्रापि निष्ठातकारस्य नकारः स्यात्
इत्यलमत्राधुना।
‘ओलण्डितमिवापश्यत् उग्रं समरताण्डवम्’ 6 ‘ओलण्डिताद्रिरपि जालितदिव्यधामा--’ 7 इत्यादिषु ओकारो धात्वयव इत्येव प्रयोगा उपलभ्यन्ते इत्यपीहावधेयम्।
प्रासङ्गिक्यः
01
=>
(१४६७)
02
=>
(१०-चुरादिः-१५४२। सक। सेट्। उभ।)
03
=>
(१३८)
04
=>
(८-२-४५)
05
=>
(निष्ठातकारस्यैव)
06
=>
(यादवाभ्युदयः- १६-६४)
07
=>
(धातुकाव्यम्-३-१४)
1 {@“वृषु सेचने”@} 2 3 अयं धातुः सकर्मकः।
कर्मणः प्रसिद्धत्वात्तु प्रयुज्यते।
यथा ‘मेघो वर्षति’ इत्यत्र अनुक्तमपि जलरूपं कर्म गम्यते।
यदि जलातिरिक्तं कर्म स्यात्
तदा प्रयुज्यते कर्म ‘पार्थः शरान् वर्षति’ इति।]] ‘… सेके वर्षेत्, स्नेहे तु वर्षते।।’ 4 इति देवः।
‘-- हिंसासंक्लेशनयोः’ इति धातुवृत्तिः।
वर्षकः-र्षिका, वर्षकः-र्षिका, विवर्षिषकः-षिका, वरीवृषकः-षिका
वर्षिता-त्री, वर्षयिता-त्री, विवर्षिषिता-त्री, वरीवृषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकपर्षतिवत् 5 ज्ञेयानि।
6 वर्षम्, 7 वृषः, 8 प्रवर्षुकः 9, 10 प्रावृट्-उपावृट्-वृषौ-वृषः, 11 वृष्यम् 12 -वर्ष्यम्, 13 वर्षणम्, वृष्ट्वा-वर्षित्वा, 14 वृष्टिः, 15 वृषणः, 16 इति निप्रत्ययः किच्च भवति।
तेन रूपमेवम्।
वर्षतीति वृष्णिः = वसुदेववंशः, मेघो वा।]] वृष्णिः, 17 इति कनिन्प्रत्यये रूपमेवम्।
वृषा = महेन्द्रः वृषभश्च।
महेन्द्राद्रिः, नभश्च इति केचित्।]] वृषा, 18 19 वृषभः, 20 वृषलः, वृष्टो देवः, इमानि विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१६३६)
02
=>
(१-भ्वादिः-७०६। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(श्लो। १७६)
05
=>
(१०५४)
06
=>
[[१। वर्षतीति--वर्षम्। ‘अज्विधौ भयादीनामुपसंख्यानं नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति अच्प्रत्ययः। वर्षा = ऋतुः। “अजन्तस्य पुंस्त्वं प्रायिकम्। ‘वर्षोऽस्त्री’ इति दर्शनाद् घञपि” इति प्र। सर्वस्वे।]]
07
=>
[[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
08
=>
[[३। ‘लषपतपदस्थाभूवृष--’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ्प्रत्यये रूपमेवम्। प्रवर्षुकः = पर्जन्यः।]]
09
=>
[[आ। ‘जग्मुः प्रसादं द्विजमानसानि द्यौर्वर्षुका पुष्पचयं बभूव।’ भ। का। २-३७।]]
10
=>
[[४। सम्पदादित्वात् स्त्रियां क्विप्प्रत्यये संहितायां विषये ‘नहिवृतिवृषि--’ (६-३-११६) इति उपसर्गस्य दीर्घः।]]
11
=>
[[५। ऋदुपधत्वान्नित्ये क्यपि प्राप्ते ‘विभाषा कृवृषोः’ (३-१-१२०) इति विकल्पेन क्यप्प्रत्ययः। तेन रूपद्वयं बोध्यम्। वृषाय हितम् इत्येतस्मिन् तद्धितार्थे ‘खलय- वमाषतिलवृष--’ (५-१-७) इति यत्प्रत्ययः।]]
12
=>
[[B। ‘धर्मकृत्यरतां नित्यमवृष्यफलभोजनाम्।’ भ। का। ६-६३।]]
13
=>
[[६। ‘वृषभो वर्षणात्’ (पस्पशायां महाभाष्ये १-१-१) इति भाष्यकारप्रयोगात् ल्युडपि भवति। नपुंसके क्तप्रत्ययस्य पाक्षिकोऽपवादोऽयम्।]]
14
=>
[[७। ‘तितुत्र--’ (७-२-९) इति निषेधात् इडागमो भवति।]]
15
=>
[[८। बाहुलकात् औणादिके क्युन्प्रत्यये, णत्वे रूपमेवम्।]]
16
=>
[[९। ‘सृवृषिभ्यां कित्’ [द। उ। १-१९]
17
=>
[[१०। ‘कनिन् युवृषि--’ [द। उ। ६-५१]
18
=>
[पृष्ठम्१२६१+ २६]
19
=>
[[१। ‘ऋषिवृषिभ्यां कित्’ (द। उ। ७-१९) इत्यभच्प्रत्यये रूपमेवम्। वृषभः = गोपतिः, युवा वा। वायुः इति केचित्।]]
20
=>
[[२। ‘वृषादिभ्यश्चित्’ (द। उ। ८-१०९) इति कलप्रत्ययः। वृषलः = शूद्रः।]]
Stchoupak
French
स्यात्
opt. de 1 -अस्- (qqf. adv.
peut-être)
-स्यामहे id.
(1{^re^}
pl.
moy.)