स्यमु (syamu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit स्यम्
स्यमु
शब्दे
भ्वादिः
अकर्मकः
सेट्
परस्मैपदी
स्यमति
फणादिः, घटादिः उदित् च
धातुप्रदीपः
Sanskritस्यमुँ स्यमु
मानकरूपान्तरम् - स्वनँ
स्वन
मानकरूपान्तरम् - ध्वनँ
ध्वन शब्दे
- स्यमति । सस्याम, स्येमतुः सस्यमतुः, सस्यमुः स्येमुः । स्यमित्वा स्यान्त्वा । स्यान्तम् । सेसिम्यते । स्वनति । विष्वणति । अवष्वणति मांसम् । विस्वनति मृदङ्गः । अवस्वनति वीणा । स्वेनतुः सस्वनतुः, स्वेनुः सस्वनुः । स्वनः स्वानः । निस्वनः निस्वानः । एते फणादयः । ध्वनति । दध्वान, दध्वनतुः, दध्वनुः । ध्वनिः ।। 828-830 ।।
क्षीरतरङ्गिणी
Sanskritस्यमुँ स्यमु
मानकरूपान्तरम् - स्वनँ
स्वन
मानकरूपान्तरम् - स्तनँ
स्तन
मानकरूपान्तरम् - ध्वनँ
ध्वन शब्दे
- इतः क्षलान्ता (1588) अष्टाविंशतिः सेटः परस्मैपदिनश्च स्यमति स्येमुः सस्यमुः उणादौ (द्र0 346) स्यमीका क्रिमिः स्वनति स्वेनुः सस्वनुः वेश्च स्वनो भोजने (8369) षत्वम्-विष्वणति, अवष्वणति स्वनयति स्वनान्तः फणादिः स्तनति, स्तनयति ध्वनति, ध्वनयति ष्टन इति चन्द्रः तिष्टनयिषति 795-798
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritस्यमुँ स्यमु
मानकरूपान्तरम् - स्वनँ
स्वन
मानकरूपान्तरम् - ध्वनँ
ध्वन (अर्थः) शब्दे
स्यमादयः ज्वलन्ता उदात्ता उदात्तेतः ( स्येति सस्याम सस्यमतुः स्येमतुः सस्यमिथ स्येमुः ) इत्यादि (अस्यम्) इदितृयत्र "अतो हलादेः'' इति वृद्धिः "ह्मम्यन्त'' इति निषिध्यते ( सिस्यमिषति सेसिम्यते ) "स्वपिस्यमिव्येञां यङि'' इति सम्प्रसारणे द्विर्वचने अभ्यासस्य गुणः ( संस्यमीति संस्यन्ति ) यङो लुका लप्त्वा तत्परत्वाभावान्न्संप्रसारणम्, "नुगतोनासिकान्तस्य''इति अभ्यासस्य नुक् ( संस्यान्त ) इत्यादौ "अनुनासिकस्य क्विझलोः'' इति दीर्घः (संस्यन्मि ) "मो नो धातोः'' "म्वोश्च'' इति नत्वम् (संस्यादीकस्यत्र) पूर्वमनुनासिकस्य दीर्घे पश्चात् "नश्चापदान्तस्य ज्ञलि'' इत्यनुस्वारः (असंस्यन्नित्यत्र) पदान्तत्वात् "मो नो धातोः'' इति नः (स्यमयति असिस्यमत् ) अमन्तत्वान्मित्त्वम् ( स्यमित्वा स्यान्त्वा ) उदित्त्वादिड्विकल्पः अनिट्पक्षे "अनुनासकस्य'' इति दीर्घः ( स्यान्तम् ) "यस्य विभाषा'' इत्यनिट् (स्यमन्तको मणिः ) बाहुलकादन्तचि संज्ञायां कन् अयं चुरादौ वितर्कार्थः (स्वनति सस्वान सस्वनतुः स्वेनतुः स्वनितेत्यादि अस्वनीत् अस्वानीत् ) "अतो हलादेः'' इति वा वृद्धिः ( सिस्वनिषति संस्वन्यते संस्वन्ति संस्वान्तः स्वनयन्ति असिस्वनत् ) शब्दे घटादित्वान्मित्त्वम् ( विष्वणति अवष्वणति ) "वेश्च स्वनः'' इति षत्वम् चकारेणावादित्यनुक्ष्यते (विष्वणनं ) सशब्दभोजनम् तथा च वृत्तौ अभ्यवहारक्रियाविशेषोभिधीयते यत्र स्वननमस्तीति सशब्दं भुङ्णे इत्यर्थः पिनाकी तु भुञ्जानः किं चिच्छब्दं करोतीति काश्यपस्तु भोजनमेवार्थमाह बोधिन्यासेपि पक्षत्रयमपि दर्शितम् ( विषष्वाण विषिष्वणिषतीत्यादौ ) "स्थादिष्वभ्यासेन'' इत्युभयत्र षत्वम् तच्चाषोपदेशार्थमवर्णाभ्यासार्थं षणि प्रतिषेधार्थं चेत्युक्तम् ( व्यष्वणत् ) "प्राक्सितात्'' इति षत्वम् (अवषंष्वण्यत) इत्यादौ "नुम्विसर्जनीय''इति "वेश्चस्वनः"इति षत्वम् उक्तं च अयोगवाहानामट्सु णत्वं शर्षु भष्भावषत्वे इति अयोगवाहाश्चानुस्वाविसर्जनीयोपध्सानीयजिह्वामूलीययमा उक्ताः षत्वे कृते "रषाभ्याम्'' इति णत्वे विष्वणतीत्यत्र णत्वं, पूर्वत्रासिद्धत्वात् "नश्चापदान्तस्य ज्ञलि'' इतृयनुस्वारे परसवर्णो नकारः तस्य पुनर्णत्वं नभवति असिद्धत्वादेव (स्वनः स्वानः) "स्वनहसोवा'' इति वा अप् तदभावे घञ् उपसृष्टत्तु ( प्रस्वान )इत्येव (निस्वानः, निस्वनः) "नो गदनद'' इत्यादिना घञपौ (स्वान्तम्) "क्षुब्धस्वान्त'' इत्यादिना निष्टायामनिट्त्वं निपात्यत मनोभिधानं चेत, अन्यत्र (स्व्नितो मृदङ्गः) आङ्पूर्वादस्मात् "रुष्यमत्त्वरसंघुषा''इति निष्ठायाङ्किल्पः इयं चोभयत्र विभाषेति मनसोन्यत्र च (आस्वानितम्, आस्वनितमिति ) फणादयो गताः (ध्वनति दध्वान ध्वनितेत्यादि स्वनिवत् ध्वान्तम् ) "क्षुब्धस्वान्त'' इति तस्यानिट्त्वम् अन्यत्र ( ध्वनितम् ध्वनिः ) अयं कथादिश्च अत्र स्वनिघ्वन्योर्मध्ये ष्टनेति क्कचित् पठ्यते ष्टन वन शब्दइति पूर्वमेव गत्वादयमनार्षः केचित्पौनरुक्त्यपरिहारादन्त्यार्दि पठन्ति सोप्यनार्षः षोपदेशलक्षणविरोधात् अत एव "फणां च'' इत्यत्र सप्तानामिति किमित्युक्त्वा ध्वनिः प्रत्युदाद्वियते, तथा वन्यासे फणादीन् ध्वन्यन्तानष्ट पठित्वा ध्वनिवर्जिताः शेषाः फणादयः सप्तेत्युक्तम् पदमञ्जर्या चैवमष्ट पठित्वा ऽन्त्यर्जं फणादय इत्युक्तम् 813
कृदन्तरूपमाला
Sanskrit1 {@“स्यमु शब्दे”@} 2 3 पुरुषकारे 4 ‘स्यमयेत् इति हेतुमण्णिचि--’ इत्युक्तम्।
घटाद्यन्तर्ग- तत्वाभावात् कथं मित्त्वं इति न ज्ञायते।]] ‘स्यमेः स्यमति शब्दार्थे वितर्के स्यामयेत णौ।।’ 5 इति देवः।
स्यामकः-मिका, स्यामकः-मिका, सिस्यमिषकः-षिका, 6 सेसिमकः-मिका
इत्यादीनि रूपाणि सर्वाण्यपि ध्वनतिवत् 7 ज्ञेयानि।
स्यमित्वा-स्यान्त्वा, स्यान्तः, स्यमन्तको मणिः-बाहुलकात् औणादिके झच्प्रत्यये ‘झोऽन्तः’ 8 इत्यन्तादेशे संज्ञायां कनि च रूपमिति विशेषः।
औणादिके 9 किकन्प्रत्यये सिमीका-सूक्ष्मा कृमिजातिः।
स्यमीका-क्रिमिः इति स्वामी।
क्वसौ- 10 स्येमिवान्-सस्यमिवान् इति।
01 (१९७४)
02 (१-भ्वादिः-८२६। अक। सेट्। पर।)
03 [[[अ]
04 (देवश्लो। १४८)
05 (श्लो। १४८)
06 [[१। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति संप्रसारणे द्विर्वचने अभ्यासस्य गुणे च रूपमेवम्। एवं यङन्ते सर्वत्र बोध्यम्।]]
07 (९४०)
08 (७-१-३)
09 (द। उ। ३-१५)
10 [[२। अत्र ‘फणां च सप्तानाम्’ (६-४-१२५) इति एत्वाभ्यासलोपौ वा।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
