| YouTube Channel

स्यमन्तकः (syamantakaH)

 
Apte
English
स्यमन्तकः [syamantakḥ], A kind of valuable gem (said to yield daily eight loads of gold and to preserve from all kinds of dangers and portents)
Bhāg.*
1.56. (For some account, see the word सत्राजित्).
Apte Hindi
Hindi
स्यमन्तकः
पुं*
- स्यम् + झच् + कन्
एक मूल्यवान मणि
शब्दकल्पद्रुमः
Sanskrit
स्यमन्तकः,
पुं,
श्रीकृष्णस्य हस्तमणिः यथा, --“मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ।”इति हेमचन्द्रः
*
अथ स्यमन्तकोपाख्यानम् ।श्रीशुक उवाच ।“आसीत् सत्राजितः सूर्य्यो भक्तस्य परमः सखा ।प्रीतस्तस्मै मणिं प्रादात् तुष्टः स्यमन्तकम्
तं बिभ्रन्मणिं कण्ठे भ्राजमानो यथा रविः ।प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः
तं विलोक्य जना दूरात्तेजसा मुष्णदृष्टयः ।दीव्यतेऽक्षैर्भगवते शशंसुः सूर्य्यशङ्किताः
नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।दामोदरारविन्दाक्ष गोविन्द यदुनन्दन
एष आयाति सविता त्वां दिदृक्षुर्जमत्पते ।मुष्णन् गभस्तिचक्रेण नृणां चक्षुंषि तिग्मगुः
नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः ।ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो
श्रीशुक उवाच ।निशम्य बालवचनं प्रहस्याम्बजलोचनः ।प्राह नासा रविर्देवः सत्राजिन्मणिना ज्वलन्
सत्राजित् स्वगृहं श्रौमत् कृतकौतुकमङ्गलम् ।प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत्
दिने दिने स्वर्णभारानष्टौ सृजति प्रभो ।दुर्भिक्षमार्य्यरिष्टानि सर्पाधिव्याधयोऽशुभाः
सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्च्चितो मणिः ।स याचितो मणिं क्वापि यदुराजाय शौरिणा ।नैवार्थकामुकः प्रादात् याच्ञाभङ्गमतर्कयन्
तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ।प्रसेनो हयमारुह्य मृगयां व्यचरद् वने
प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी ।गिरिं विशन् जाम्बवता निहतो मणिमिच्छता
सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं गले ।अपश्यन् भ्रातरं भ्राता सत्राजित् पर्य्यतप्यत
प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः ।भ्राता ममेति तत् श्रुत्वा कर्णे कर्णेऽजपन् जनाः
भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः
हतं प्रसेनमश्वञ्च वीक्ष्य केशरिणा वने ।तञ्चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः
ऋक्षराजविलं भीममन्धेन तमसावृतम् ।एको विवेश भगवानवस्थाप्य बहिः प्रजाः
तत्र दृष्ट्वा मणिश्रेष्ठं बालक्रीडनकं कृतम् ।हर्त्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके
तमपूब्ब नरं दृष्ट्वा धात्री चुक्रोश भीतवत् ।तत् श्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनांवरः
वै भगवता तेन युयुधे स्वामिनात्मनः ।आसीत्तदष्टविंशाहमितरेतरमुष्टिभिः
क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीवविस्मितः ।जाने त्वां सर्व्वभूतानां प्राण ओजः सहो बलम् ।विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम्
इति विज्ञातविज्ञानमृक्षराजानमच्युतः ।व्याजहार महाराज भगवान् देवकीसुतः
मणिहेतोरिह प्राप्ता वयमृक्षपते विलम् ।भिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना
इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदाअर्हणार्थं मणिना कृष्णायोपजहार सः
सत्राजितं समाहूय सभायां राजसन्निधौ ।प्राप्तिञ्चाख्याय भगवान् मणिं तस्मैन्यवेदयत्
सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः ।कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम्
एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् ।मणिञ्च स्वयमुद्यम्य कृष्णायोपजहार सः
भगवानाह मणिं प्रतीच्छामो वयं नृप ।तवास्तु देवभक्तस्य वयञ्च फलभागिनः
”इति भागवते १० स्कन्धे ५६ अध्यायः
सौरभाद्रीयचतुर्थ्यां चन्द्रदर्शने तदुपाख्यानश्रवण-विधिर्यथा, ब्रह्मपुराणे सिंहार्काधिकारे ।“नारायणोऽभिशप्तस्तु निशाकरमरीचिषु ।स्थितश्चतुर्थ्यामद्यापि मनुष्यायापतेच्च सः
अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः ।पठेद्धात्रेयिकावाक्यं प्राङ्मुस्वो वाप्युदङ्मुखः
”अभिशप्तः परीवादविषयीभूतः सोऽभिशापः ।धात्रेयिकावाक्यं विष्णुपुराणे ।“सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः
”अनेन मन्त्रेणाभिमन्त्रितं जलं पेयम् आचारात्स्यमन्तकोपाख्यानञ्च श्रोतव्यम् इति तिथ्यादि-तत्त्वम्