| YouTube Channel

स्यम (syama)

 
Wilson
English
स्यम (उ) स्यमु r. 6th cl. (स्यमति) To sound. r. 10th cl.
(स्यमयति-ते) To consider, to think.
Edgerton Buddhist Hybrid
English
Syama, see Śyāma.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्यम्
मूलधातुः:
स्यम
धात्वर्थः:
वितर्के
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्मायते
अनुबन्धादिविशेषः:
आकुस्मीयः
धातुप्रदीपः
Sanskrit
स्यमँ स्यम वितर्के
- स्यामयते न्यासकृत् तु स्य (श्य) वितर्क इति नाचार्य्यराजर्त्वक्संयुक्तज्ञात्याख्येभ्य (62133) इति स्वरसूत्रे स्या (श्या) लसंप्रतिपत्त्यर्थं पठितवान् (19) 156
शब्दकल्पद्रुमः
Sanskrit
स्यम, ध्वनने इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-सेट् क्त्वावेट् ।) अन्तः-स्थादियुक्तः उ, स्यमित्वा स्यान्त्वा ण, स्येमतुः सस्यमतुः श, स्यमती स्यमन्ती इतिदुर्गादासः
स्यम, वितर्के इति कविकल्पद्रुमः
(चुरा०-उभ०-सक०-सेट् ।) अन्तःस्थादियुक्तः अस्यस्वार्थे ञौ ह्रस्वो स्यात् प्रेरणे ञौ तु स्यादे-वेति प्राञ्चः स्वमते मनीषादित्वात् सिद्धिः ।ञ क, स्यामयति स्यामयते लोकः पुरुषं स्थाणु-त्वेन इति दुर्गादासः
स्यम, त् ध्वाने इति कविकल्पद्रुमः
(अदन्त-चुरा०-पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः ।स्यमयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
स्यम ध्वनने
भ्वा०
पर०
अक० सेट् क्ता वेट् फणादि० स्यमति अस्यमीत् स्योमतु सस्यमतुः
स्यम वितर्के
चु०
उ०
सक०
सेट् स्यामयति ते असिस्यमत्
स्यम ध्वाने अद०
चु०
उभ०
सक०
सेट् स्यमयति असिस्य०मत्
क्षीरतरङ्गिणी
Sanskrit
स्यमँ स्यम वितर्के
- स्यामयते भ्वादौ स्यमु स्वन (1565) इति मित्-स्यमति, स्यमयति 161
धातुवृत्तिः
Sanskrit
स्यमँ स्यम (अर्थः) वितर्के
( स्यामयते ) स्यमतीति शब्दार्थः शपि 159
कृदन्तरूपमाला
Sanskrit
1 {@“स्यम वितर्के”@} 2 आकुस्मीयः।
‘स्यल--’ इति न्यासकारः 3।
‘स्यमेः स्यमति शब्दार्थे वितर्के स्यामयेत णौ।।’ 4 इति देवः।
स्यामकः-मिका, सिस्यामयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि कलयतिवत् 5 ज्ञेयानि।
युचि 6 स्यामनः।
7
प्रासङ्गिक्यः
01
=>
(१९७३)
02
=>
(१०-चुरादिः-१६९४। अक। सेट्। आत्म।)
03
=>
(६-२-१३३)
04
=>
(श्लो। १४८)
05
=>
(१७६)
06
=>
[[ड्। ‘अस्यामनः इव गूरयतेऽत्र मुष्टिम्…।।’ धा। का। ३-३५।]]
07
=>
[पृष्ठम्१४००+ २७]