| YouTube Channel

स्मिट (smiTa)

 
Wilson
English
स्मिट r. 10th cl. (स्मेटयति) To slight, to disregard, to disrespect.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्मिट्
मूलधातुः:
स्मिट
धात्वर्थः:
अनादरे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
स्मेटयति-ते
धातुप्रदीपः
Sanskrit
स्मिटँ स्मिट अनादरे
- स्मेटयति 40
शब्दकल्पद्रुमः
Sanskrit
स्मिट, अनादरे स्नेहे इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) ओष्ठ्यावर्गशेष-युक्तः क, स्मेटयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
स्मिट अनादरे
सक०
स्नेहे अक०
चु०
उभ०
सेट् स्मेटयति ते असिस्मिटत्
धातुवृत्तिः
Sanskrit
स्मिटँ स्मिट (अर्थः) अनादरे
( स्मेटयति असिस्मिटत् ) स्मिङ् इत्येकइति मैत्रेयः ( स्माययते ) अवयवे कृतं लिङ्गमिति न्यायेन ण्यन्तस्य ङित्त्वादात्मनेपदम् आत्वं स्मायतेरिति निर्द्देशाद्धेतुमण्णै विधानाच्च नास्य भवति शाकटायनस्त्वट स्मिट गताविति टान्तप्रकरणे पपाठ स्मयतइतीषद्धासे शपि 39
कृदन्तरूपमाला
Sanskrit
1 {@“स्मिट अनादरे”@} 2 ‘--स्नेहे च’ इति वोपदेवः।
‘स्निट स्नेहने।
स्नेटयति।
स्मिट इत्येके’ इति क्षीरस्वामी।
‘स्मिट अनादरे’ इति पठित्वा “--स्मिङ् इत्येके’ इति मैत्रेयः।
शाकटाय- नस्तु-- ‘स्मिट गतौ’ इति टान्तप्रकरणे पपाठ” इति माधवः।
“‘स्मिङ् ईषद्धसने’ ‘स्मिट अनादरे’ ‘स्मिङ् इत्येके’ इति मैत्रेयरक्षितः” इति पुरुषकारः 3।
सर्वाण्यपि रूपाणि चेतयतिवत् 4 ज्ञेयानि।
‘ईषद्धासे स्मयेतेति स्माययेतेत्यनादरे।।’ 5।
‘स्मिङ्’ इति इति पक्षे ‘ष्मिङ्’ धातुवत् 6 रूपाणि बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१९६७)
02
=>
(१०-चुरादिः-१५७३। सक। सेट्। उभ।)
03
=>
(दैवश्लोके १५)
04
=>
(५२२)
05
=>
(देवश्लो। १५)
06
=>
(१८८८)