| YouTube Channel

स्मार्त्तं (smArttaM)

 
शब्दकल्पद्रुमः
Sanskrit
स्मार्त्तं,
क्ली,
(स्मृतेरिदम् स्मृति + अण् ।)स्मृतिशास्त्रोक्तकर्म्म यथा, --“श्रीतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाच-रेत् ।अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः
”इति तिथ्यादितत्त्वम्
अपि ।“श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी ।अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता
”इति श्राद्धतत्त्वम्